SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० . पा. १ सू० १६-२० दाहरणम्-नाडायनः । दैवदत्तिः । औपगवः । अतद्भावितानाम्-मालामयम् । रैमयम् । नौमयम् । विकाराऽर्थे "नित्य दुशरादेःश३।१०६] इति मयट । श्रादिति तपरकरणमैजर्थम् । तादपि परस्तपर इति । तेन तवैषा महौषधिरित्यादिषु त्रिमात्रचतुर्मात्राणां निवृत्तिः । “प्रादैगैप्" [१1१1१५] इत्यत्र “सूत्रेऽस्मिन् सुविधिरिटः” इति जसः स्थाने सुः । ऐप्प्रदेशाः “मृऔरैप' [५।२।१] इत्येवमादयः ।। अदेउप ॥ १।१।१६ ।। अदेङां वर्णानां प्रत्येकमेबित्येषा संज्ञा भवति । अत्राप्यतद्भावितानां तद्भावितानामदेडामेप्संज्ञा । अतद्भावितानाम्-पचन्ति । पचे । एधन्ते । "एप्यतोऽपदे"[।३।८४] इति पररूपम् । तद्भावितानाम् –कर्ता । तरति । चेता । स्तोता। ऋकारस्यैबै प्रसङ्ग स्थानतोऽन्तरतमौ अकाराकारौ भवतः । तौ च प्रसज्यमानावेव रन्तौ । अदिति तपरकरणं दी पनिवृत्त्यर्थमेङर्थ च । तेन मालेयं खट वोढा इत्यत्र त्रिमात्रचतुर्मात्राणां निवृत्तिः । ए प्रदेशाः "मिदेरेप्" [५।२१७६] इत्येवमादयः ।। इकस्तौ ।। १।१।१७ ॥ परिभाषेयम् । ऐबेपौ संज्ञया विधीयमानौ इक एव स्थाने भवतः। स्थानिनियमोऽयं न विधिनियम इति । कुत एतत् ? "सक्थ्यस्थिदध्यक्ष्णाम्" [५।१।५५] इतीको निर्देशात्, एबैपोलक्षणान्तरेण विधानाच्च । प्रत्यासत्तेः पूर्वमेबुदाहरणं वक्ष्यति । "गाऽगयो:५।२।१] । करोति । नयति । भविता | "सावैम्मे"[५।११७७]। अकार्षीत् । अनैषीत् । अहौषीत् । इच्छातो विशेषणविशेष्यभावः ।“मिदेरेप्' इत्यत्र गृह्यमाणेन मिदादिना इगविशेष्यते । तेनानन्त्यस्य भवति | "जुसि" [ ५।२।८०] "गाऽगयोः" [५।।८१] इति च गृह्यमाणमिका विशेष्यते इतीगन्तस्य भवति । इक इति किम् ? अात्संध्यक्षरव्यञ्जनानां मा भूत् । यानम् । ग्लायति । उम्भिता । अजित्यत्रानुवर्तनादै।पोः सम्बन्धे सिद्ध 'तौ ग्रहणं संज्ञाविधाने नियमार्थम् । द्यौः । पन्थाः । सः । यत्र स्थानी निर्दिश्यते तत्र नेदं व्याप्रियते । यथा “ब्णित्यच:"५/२।३] इति । _ नधुखेऽगे ॥ १।१।१८ ।। प्रतिषेधसामर्थ्यादेकदेशे धुर्वर्तते । धोः खं यस्मिन्नगे स धुखः । तन्निमित्तावैबेपौ न भवतः । लोलुवः । पोपुवः । मरीमृजः । यङन्तेभ्यः पचाहाच् । “योऽचि" [१।४।१४४] इति यङ उप. । अतः खात् प्रागेव च यङ उ बेषितव्यः । अन्यथा देर्घ इत्यत्र अखमजा देश इति कृत्वा तस्य स्थानिवद्भावात् “दीकोऽचि डिति युट” [४।४।६२] इति युट् प्रसज्येत । धुग्रहणं किम् ? लूञ्-लविता । खविधिर्बलवानिति प्रागेव धुसंज्ञाया अनुबन्धनाशः । अत्रागनिमित्तं खं नास्तीति व्यङ्गवकल्य नाशङ्कन यतो धुग्रहणे सति बसो लभ्यतो धोः खं यस्मिन्निति । बसेन अग इत्यस्य विशेषणं किम् ? क्नूयी, कोपयति । अत्र पुकमाश्रित्य यखं नागनिमित्तमिति न प्रतिषेधः। षसे तु प्रसज्येत । अग इति किम् ? रोरवीति । गनिमित्त एब्भवत्येव । अत्रापि यङ खमगनिमित्तं न भवतीति व्यङ्गवैकल्यं न मन्तव्यम् । यतोऽगग्रहणे सति धुखनिमित्तत्वं लभ्यते । इक इत्येव । अभाजि । रागः । कङिति ॥२०१९।। गिति किति ङिति च निमित्तभूते यावैबेपौ प्राप्नुतस्तौ न भवतः। गिति-- "ग्लाभूजिस्थः वस्नुः” [ २।२।११५] इति, भूष्णुः। जिष्णुः। किति-चितम् । स्तुतम् । भिन्नम् । मृष्टम् । डिति-चिनुतः। चिन्वन्ति । मृष्टः। मृजन्ति । इक इत्येव । कामयते । अचिनवमित्यत्र लङो डित्वात्कस्मान्न प्रतिषेधः, "सूभवत्योर्मिङि" [५/२।८६] इति । अभूत् । भवतेह लादो मिङ्ये प्रतिषेधवचनं ज्ञापकं ङितो लकारस्यादेशो ङिन्न भवतीति । यासुटो ङित्करणं च ज्ञापकम् । ईदूदेद्विर्दिः ।।१।१।२०।। ईत् ऊत् एत् इत्येवमन्तो यो द्विः स दिसंज्ञो भवति । अग्नी इति । वायू इति । खट्वे इति । तद्वदित्यनेन दुरदश्चैकादेशो द्विग्रहणेन गृह्यत इतीदायन्तश्च भवति व्यपदेशिवद्भावेन । मुख्यरूपेणायं द्विरेकारान्तः । पचेते इति । पचेथे इति । सत्यां दिसंज्ञायाम् "प्रकृत्याऽचि दिपाः" [४।३।१०३] १. निवृ-अ०, ब०, स० । २. अकारस्येत्यर्थः। ३. अकारनाश इत्यर्थः। ४. अच्स्थानिकादेश इत्यर्थः। ५, विध्यंग-ब० । ६. बसे त अ०, ब०, म०। ७. यङः स-१०, ब०, स०। ८. 'अगनि. मित्तं म' इत्यत्र 'अनिमित्तं न' इति पाठः स्वरसः । १. पस्नुः' मु०। १०. अभूत इत्यस्य 'सूभवत्योर्मिति' इत्यत: पूर्वमेव पाठो युक्तः । 'अभूत्' इत्यस्याने 'इत्यत्र' इत्यपि योग्यम् । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy