SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१२ जैनेन्द्र-व्याकरणम् [ ० ५ पा० ४ सू० ८०-६० तदा भवेत्" इति । "रिवि रवि गतौ” इत्यस्य । रिश्वनम् । रिश्वनीयम् । झल्परत्वाभावादनुस्वारी नास्तीति गत्वाभावः । तुम्फणम् । तृम्फणीयमित्यत्र परस्वत्वस्यासिद्धत्वादनुस्वारोऽस्तीति णत्वं भवति । पूर्वपदात् खावगः ॥ ५२४८७|| खु इति वर्तते । षकाररेफवतः पूर्वपदात् श्रगकारान्तात् उत्तरस्य नकारस्य णो भवति खुविषये । पुष्पणन्दी । श्रीणन्दी । श्रीनन्दिशब्दस्य क्षुम्नादिषु णत्वं निषिद्धम् । खरसः । वासः । खाविति किम् ? शुष्कनासिकः । दीर्घनासिकः । श्रग इति किम् ? ऋगयनम् । क्षुम्नादिषु नृनमनतृप्नोतिशब्दयोः प्रतिषेधवचनं ज्ञापकम् ऋकारस्था फादजंशेन व्यवहितत्वात् पदस्य णत्वं भवतीति गत्यप्राप्तिः । नियमार्थोऽयं योगः । पूर्वपदात्खावेव नान्यत्र । अथ पूर्वपदादेव खाविति कस्मान्न नियमो भवति । एवं सति खुनियमः स्यात् । अखुविषये पूर्वेण गत्वसिद्धेः " वाह्याद्वाहनम् " [ ५/४६२] इत्याद्यारम्भोऽनर्थकः स्यात् । त्र से कृते समुदायाद्या विभक्ती तया समुदायस्यैकपदत्वे पूर्वेण प्राप्तिरस्तीति नियमो घटते । पूर्वपदत्वं तु स्मर्यमाणाव यवापेक्षम् । पूर्वपदशब्दश्च सम्बन्धिशब्दः । तेनोत्तरपदस्थस्य नकारस्य णत्वं नियमो निवर्तयति न पूर्वपदस्थस्य नापि त्यस्थस्य । करणप्रियः । खारपायणः । करणं प्रियमस्य । खरपस्यापत्यमिति विग्रहः । श्रग इत्यनन्तरस्य प्रतिषेधः प्राप्नोतीति चेत् ; तत्र को दोपः ? खौ चाखौ च पूर्वेण णत्वं स्यात् । एवं तर्हि श्रग इति योगविभागः । तेन विधिनियमयोः प्रतिषेधः । ai पुरगामिश्रकासिद्ध काशारिकाकोटराग्रेभ्यः || ५|४|८८ || खाविति वर्तते । पुरगा मिश्रका सिद्धका शारिका कोटरा श्रम इत्येतेभ्यः परं वनं विनम्यते । विनाम इति पत्वगत्वयोः सञ्ज्ञा । पुरगावणम् । मिश्रकावणम् | सिद्धकावणम् । शारिकावणम् । कोटरावणम् । तासे कृते पूर्वपदस्य " गिरिवने किंशुलुककोटरायोः खौ” [४।३।२२०] इति दीत्वम् । वनस्याये वणम् | "राजदन्त” [१।३।६६ ] श्रादित्वात्पूर्वनिपातः । "ईपोल: ” [ ४ | ३|१२७] इत्यनुप् । “सिद्धे सत्यारम्भो नियमार्थः " । एतेभ्य एव वनं विनम्यते नान्येभ्यः । मनोहरवनम् । अथ पुरगादिभ्यो वनमेव विनम्यते नान्यदिति कस्मान्न नियमः । एवं सति पुरगादिनियमः स्यात् । वनं त्वनियतं तस्य खौ पूर्वेणैव त्वं सिद्धमित्युत्तरसूत्रे खावपि प्रादिभ्यः परं वनं विनम्यत इत्यपिशब्दोऽनर्थकः स्यात् । ज्ञायते पुरगादिभ्य एव वनं विनम्यते इति नियमः । पुरगादीनां कृतदीत्वानामुच्चारणं किम् ? यत्र व त्वं तत्रैव त्वं यथा स्यात् । इदमेव ज्ञापकमनित्यं श्रौ दीत्वमिति तेन लम्बकर्ण: । विद्भकः । अलिरुक् । कमलरु इत्येवमादि सिद्धम् । प्रान्तर्निः शरे क्षुप्लताम्रकार्ण्यखदिरपीयूक्षाभ्योऽखावपि ॥ ५४८९ ॥ प्र अन्तर् निस् शर इतु लक्ष आम्र का खदिर पीयूक्षा इत्येतेभ्यः परं वनं विनम्यते श्रखावपि खावपि च । प्रवणम् । अन्तर्वणम् । निर्वणम् । शरवणम् । इक्षुवणम् | प्लक्षवणम् । कार्ण्यवरणम् । खदिरवणम् । पीयूक्षावरणम् । प्रगतं वनम्, अन्तर्गतं वनम् निर्गतं वनमिति विग्रहः । शरवणादिषु तासः । ये योषधिवनस्पतिशब्दा न भवन्ति तेभ्यः खौ सौ च पूर्वाभ्यामप्राप्ते विधिः । भोषधिवनस्पतिशब्देभ्यस्तु खावप्रासे विधिः । श्रखौ तूत्तरसूत्रेण विकल्पे प्राप्ते नित्यार्थं वचनम् । अपिशब्दस्य पूर्वसूत्रे प्रयोजनमुक्तम् । विभाषौषधिवनस्पतिभ्यः || ५|४|१०|| ओषधिवनस्पतिशब्देभ्यः परं वनं विभाषा विनम्यते । पधिभ्यः- दूर्वावणम् । दूर्वावनम् | ब्रोहिवणम् | त्रीहिवनम् । वनस्पतिभ्यः - करीखणम् । करीवनम् । आरुकवणम् । श्रारुकवनम् । व्यवस्थितविभाषाऽऽश्रयणात् द्वयक्षरत्र्यक्षरयोविकल्पः । तेनेह न भवति । भद्रदारुवनम् | "ईरिकादिभ्यश्च न भवति" [वा०] । ईरिकावनम् । तिमिरवनम् । समीरवनम् । खौ पुरगादिभ्य एव वनं विनम्यते इत्यखावियं विभाषा । स्रौ त्वसिद्धत्वान्नियमेन बाध्यते । यदि खावपि प्रयोगोऽस्ति विभाषेति योगविभापान्नियमबाधा द्रष्टव्या । बहुत्वनिर्देश: पर्यायार्थः । इह वनस्पतिग्रहणे वृक्षाणामपि ग्रहणम् । यतः --- "फली वनस्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः ।” For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy