________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अं० ५ पा० ४ सू०२१-३४] महावृत्तिसहितम्
४०५ "इणः षः" [५।४।३७] इति षत्वं विधीयते इति प्रातिरस्ति । इह मातुः करोति । पितुः करोतीति "रात्सः" [५।३१४२] इति सकारस्य खे कृते नायं त्यस्य रेफ इति कस्मान्न षत्वम् । कस्कादिषु भ्रातुष्पुत्रग्रहणं ज्ञापकमेकादेशनिमित्तकस्य न भवति । नैकुल्यम् । दौष्पुरुष्यम् । बही३कृतम् इत्यत्र बहिरङ्गत्वादै पविध्योरसिद्धस्वायत्वम् ।
नमःपुरसोस्त्योः ॥शहा२६॥ त्य इति निवृत्तम् । नमस् पुरस् इत्येतयोस्तिसंज्ञकयोः रेफस्य सकारादेशो भवति कुप्वोः परतः । नमस्कर्ता । नमस्कर्तुम् । नमस्कर्तव्यम् । पुरस्कर्ता । पुरस्कर्तुम् । पुरस्कर्तव्यम् । नमः शब्दस्य "साक्षादादिः” [॥२२१४३] इति तिसंज्ञा वर्तते ।
तिरसो वा ॥२४॥३०॥ तिरसो रेफस्य वा सकारादेशो भवति कुप्वोः परतः । तिरस्कर्ता । तिरस्कृत्य । तिरः कृत्य । :"तिरोऽन्तद्रौं" [१॥२॥१४०], “वा कृषि" [१२।१४१] इति तिसज्ञा । इह तिरस्तिसज्ञकस्येति विशेष विषयद्वारकम् । तेनान्तों विषये “वा कृषि" इति सज्ञाविरहेऽपि सत्वम् । तिरस्कृत्वा । तिरः कृत्वा । तिसञकस्यति किम् ? तिरः कृत्वा काएदं गतः । नात्रान्तर्द्धि: प्रतीयते । अन्तरेण कृत्वा गत इत्यर्थः। त्वमौदासीन्येन गच्छति ।
सुचः ॥४॥३१॥ सुजन्तस्य पदस्य यो रेफस्तस्य वा सकारादेशो भवति कुप्वोः परतः। द्विष्करोति । द्विष्पचति । त्रिष्करोति । त्रिष्पचति । चतुष्करोति । चतुष्पचति । अन्यस्मिन् पक्षे “ xक पौ च" [५।४।२२] इत्येष विधिः । द्वि करोति । द्विःकरोतीत्यादि योज्यम् । द्वौ वारौ करोतीति विगृह्य “द्वित्रिचतुभ्यः सुच्" [१२।२५] इति सुच् । द्वित्रिभ्यां परस्य अत्यपुम्मुहसः इति प्रतिषेधादप्राप्तं चतुःशब्दस्य तु “इदुदुः" [५।४।२८] इति प्राप्तं सत्वं विकल्प्यते । “इणः षः" [५।४।२७] इत्यधिकारात्यत्वम् ।
इसुसोः सामर्थ्य ॥४॥३२॥ इस् उस् इत्येतयो रेफस्य सकारादेशो भवति सामर्थ्य सति कुवादिना । सपिप्करोति । सर्पिः करोति । सपिप्पिबति । सर्पिः पिबति । धनुष्करोति । धनुःकरोति। धनुप्पतति । धनः पतति । सर्पिर्धनुःप्रभृतयः शब्दा इसुसन्ता व्युत्पाद्यन्ते इति दर्शने त्यस्य नेत्यप्राप्ते अव्युत्पत्तौ "इदुदुङः" [५।४।२८] इति प्राप्ते विकल्पः। सामथ्र्य इति किम् ? तिष्ठतु सर्पिः पिबतु पयः। ननु पदाधिकारे समर्थपरिभाषाव्यापारात सामर्थ्यग्रहणां किम् ? कवर्गपवर्गादिना धुना व्यपेक्षालक्षण एव सामर्थ्य यथा स्यादित्येवमर्थम् । इह मा भूत् । सर्पिःकालकम् । यजुः पीतकमिति । सापेक्षमसमर्थमिति नायं पक्षस्तत्र स्थितः । तेनेहापि गमकत्वात्सत्वम् । देवदत्तस्य सर्पिष्करोति ।
सस्सेऽद्य स्थस्य ॥१४॥३३॥ इसुसो रेफस्याास्थस्य सकारादेशो भवति । सर्पिष्कुण्डिका । सर्पिष्पात्रम् । धनुष्काण्डः । धनुष्पतिः । पुनः सग्रहणं नित्यार्थम् । अास्थस्येति किम् ? परमसर्पिःकुण्डिका । पूर्वेणाप्यत्रैकार्थीभावे विकल्पो न भवति । यदा तु व्यपेक्षा सामर्थ्यम् ; तदा द्युस्थस्यापि पूर्वेण विकल्पः । परमसर्पिष्करोति । परमसर्पिः करोति । इदमेवाास्थस्येति प्रतिषेधवचनं ज्ञापकम् “इसुसोः" [५॥४॥३२] इत्यत्र "त्यग्रहणे यस्मात्स तदादेः" [१०] इति नियमाभावादधिकस्यापि ग्रहणम् ।
कृकमिकंसकुम्भकुशाकर्णीपात्रेऽतोऽझेः ॥२४॥३४॥ कृ कमि कंस कुम्भ कुशा कर्णी पात्र इत्येतेषु परतः अकारत उत्तरस्य रेफस्याद्युस्थस्य सकारादेशो भवति । कृकम्योः सर्वत्यान्तयोर्ग्रहणम् । अयस्कारः। यशस्कारः । तपस्कामः । यशस्कामः । अयस्कान्तः । अयस्कंसः । पयस्कंसः । कंस इति कमेरव्युत्पत्तिपते पृथग्ग्रहणम् । अयस्कुम्भः । “मृद्ग्रहणे लिङ्गविशिष्टस्यापि" [१०] अयस्कुम्भी । पयस्कुम्भी । गौरादित्वान्डी । अयस्कुशा । पयस्कुशा। अय इव कर्णावस्याः “नासिकोदरौष्ट" [३।११४८] आदिना ङी । अयस्की । पयस्कर्णी । शुनस्कर्णस्तु “कस्कादौ" [५।४।३६] । अयस्पात्रम् । पयस्पात्रम् । अयस्पात्री। पयस्पात्री ।
For Private And Personal Use Only