SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्र०५पा०४ सू० १-३ ] महावृत्तिसहितम् ४०१ तियाशी प्रषेषु मिडाकाङ्क्षम् ॥३१०२॥ क्षिया क्षेपः। इष्टाशंसनमाशीः । असत्कारपूर्विका व्यापारणा ग्रैषः । क्षियादिषु मिङन्तमाकाक्षं पविधिं लभते । क्षियायाम्-स्वयं ह रथेन याती३ उपाध्यायं पदातिं गमयति । स्वयं ह श्रोदनं भुङ्क्ते३ उपाध्यायं सक्तून् पाययति । भुक्ता इति मिडन्तमाकाङ्क्षकम् । आकायमपि मिङन्तमाकाङ्क्षग्रहणसामर्थ्यात् । सुबन्ते सिद्धवाकाङ्क्षा । आशिषि-- पुत्रांश्च लप्सीष्ठाः३ धनं च । अत्र लप्सीष्ठा इत्यस्य गम्यमानमिङन्तापेक्षस्य पविधिः । तात तर्क चाध्येषोष्ठाः३ जैनेन्द्र च । प्रषे-त्वं ह पूर्वग्रामं गच्छा३ देवदत्तो दक्षिणं व्रजतु । आकाङ्क्षमिति किम् ? दीर्घमायुः रस्तु । प्रैप इत्यत्र "प्रादूहोढोल्य षैष्येषु" [३।७६ वा०] इत्यनेन एङि पररूपापवाद ऐप । अनन्तस्यापि प्रश्नाख्यानयोः ॥२३॥१०॥ प्रश्ने अाख्याने च अनन्तस्यापि मिङन्तस्य अन्त्यस्यापि यस्य कस्यचित् पदस्य टो पो भवति । प्रश्ने-आगमः३ पूर्वात् ग्रामान् अग्निभूता३ इ । पटा३ उ । आख्याने-आगमः३ पूर्वा ३न् ग्रामा३न् भो३: । अत्र सर्वेषामपि पदानां पदान्ते केचित् पमिच्छन्ति । एचोऽदेः पूर्वस्यात्परस्येदुतौ ॥१३।१०४॥ एचः अदिसञ्ज्ञकस्य पप्रसङ्गे पूर्वस्यास्य आकारः पो भवति परस्य चार्द्धस्य इदुतौ भवतः। “एचोऽदेरदिदुत्परः" इति सिद्धे गुरुसूत्रकरणं किम् ? इदुतोः पो न भवति । प्रश्नान्तपूजितप्रत्यभिवादेषु पदान्तस्य च एचः पो भवतीति ज्ञापनार्थम् । प्रश्नान्ते अगमः३ पूर्वान्यामान् अग्निभूता३३ । पटा३ उ। पूजिते-शोभनः खल्वसि अग्निभूता३३ । पटा३उ । प्रत्यभिवादे-आयुष्मानेधि अग्निभूता३६ | पटा३उ । परिगणनं किम् ? दस्यो३ दस्यो घातयिष्यामि त्वाम् । आगच्छ भो अग्निभूते३ । पदान्तस्येति वचनादिह न भवति । भद्रं करोमि गौरिति । पूजिते पः। श्रादिति किम् ? अपाक्ता३मोदनं कन्ये३ । प्रश्ने पविधिः। वार्वाच सन्धौ ॥५:३।१०५॥ अर्थवशाद्विभक्तीपरिणामः । इदुतोरचि परतः यकारवकारादेशी भवतः सन्धौ विवक्षिते । आ अध्यायपरिसमाप्तेः सन्धावित्यधिकारः । अग्नाश्विन्द्रम् । पटा३वुदकम् । सिद्धः पविधिः सन्धाविति ज्ञापितं पुरस्तात् । तेन "अचीको यण" [३१६५] इति यत्र यणादेशो नास्ति तदर्थमिदम् । अचीति किम् ? अग्ना३३ गतम् । पटा३उ गतम् । सन्धाविति किम् ? अग्ना३इ इन्द्रम् । पटा३उ उदकम् । इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ पञ्चमाध्यायस्य तृतीयः पादः समाप्तः । पुमः खय्यम्परे सोऽनुस्वारपूर्वः ॥४१॥ पुमित्येतस्याम्परे खयि परतः सो भवत्यनुस्वारपूर्वः । पुमिति पुंसः स्फान्तखे कृतेऽनुकरणम् । खयीति प्रत्याहारसाहचर्यात् अमोऽपि प्रत्याहारग्रहणम् । पुंस्कामा । पुश्चली। पुस्पुत्रा । पुस्कोकिलः । पुसि कामोऽस्याः । पुमांसं चलयतीत्यादि ज्ञे यम् । सकारस्यासिद्ध त्वाद्रित्वं न । खयोति किम् ? पुदासः । पुंगवः । अम्पर इति किम् ? पुंक्षीरः । अनुस्वार इति बिन्दोः सञ्ज्ञा पूर्वः कृता । पुल इत्यत्र पुशब्दस्यानर्थकत्वादग्रहणम् । नश्छब्यप्रशान् ॥शा२॥ नकारान्तस्य पदस्य अम्परे छवि परतः सो भवत्यनुस्वारपूर्वः प्रशान्शब्द वर्जयित्वा । भवाश्छादयति । भवाँष्ठकारीयति । भवास्थुडति । भवाश्चरति । भवांष्टीकते । भवांस्तरति । छवीति किम् ? भवान् करोति । अप्रशानिति किम् ? प्रशान् चिनोति । “मो नः" [५।३।८३] इति नत्वस्यासिद्धत्वानखाभावः । अम्पर इत्येव । भवान् त्सरुकः । त्सरौ कुशलः । "अाकर्षादेः कः" [३।३।१७] इति कः । भवद्भगवदघवतो वा रिः काववस्यौः ॥१४॥३॥ भवत् भगवत् अघवत् इत्येतेषां को परतः वा रिभवति । यदा रिस्तदा अवशब्दस्यौकारः रित्वं प्रति भवदादीनां स्थानार्थस्तानिर्देशः सोऽर्थीदवशब्दापेक्षयाऽव For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy