SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र व्याकरणम् . [अ० ५ पा० ३ ० ५३-६० आहो व्र अग्रहरणेन ग्रहणात् ब्रुव ईण्मा भूत् । झलादिवचनाद् वा न भवति । पदान्तत्वं नास्ति । झलीत्येव । आह्तुः। श्राहुः । व्रश्चभ्रस्जसृजमृजयजराजभ्राजछशां षः ॥१३॥५३॥ वश्च भ्रस्ज सृज मृज यज राज भ्राज षां चकारशकारयोश्च वो भवति झलि पदान्ते च । ब्रष्टा । मलत्रट । स्फादिसखम । “अहिज्यावयि" [४॥३॥१२] इत्यादिना जित्वम् । भ्रष्टा । धानाभृट् । स्रष्टा । तीर्थस्ट । माय । कर्मपरिमृट । यष्टा । देवयट । विचीदं रूपम् । राजिभ्राजोः क्तिरेव झलादिः । राष्टिः । भ्राष्टिः । सुराट् । सुम्राट् । विभ्राट् । प्रष्टा । धर्मप्राट । “किपि वचिप्रच्छायतस्तु कटप्रजुप्रीणां दीरजिश्च" [११५७ वा इति किपि दीत्वाजित्वे । "छ वोः शूड् ङ च" [४४।१७] इत्ययं विधिरुक्तः । लिशि । लेष्टा । धर्मलिट् । विश । वेष्टा । स्वर्गविट् । एकाचो वशो भष् झषः सध्वोः ॥५॥३॥५४॥ धोरेकाची झपन्तस्य योऽवयवस्तस्य यथासङ्ख्यं भषभावो भवति झलि सकारे ध्वशब्दे च परतः पदान्ते च । भोत्स्यते । अभुद्ध्वम् । “सिलिङ दे" [१1८५] इति कित्वम् । धर्मभुत् । धोक्ष्यते । अधुग्धम् । गोधुक् । निघोक्ष्यते । न्यधुवम् । मन्त्रघुट । एकाच इति किम् ? दामलिहमिच्छति दामलिह्यतेः क्वि । दामलिट् । असत्येकाज्यहणे झपन्तस्य धोरवयवस्य वशो भा अत्रापि स्यात् । वश इति किम् ? क्रोत्स्यति । झपन्तस्येति किम् ? दास्यति । स्वोरिति किम् ? बोद्धां । बोदधुम् । धकारस्य बकारपरस्य ग्रहणं किम् ? दादद्धि । दध धारणे इत्यस्य यडपि लोटि "हझल्ल्यो हेर्धिः" [४॥४॥६४] इति धिभावे रूपम् । अबुद्ध । अबुद्धाः इत्यत्र "झलो झलि" [५।३।४४] इति सखे कृते "त्यखे त्याश्रयम्" [१1१६३] इति कस्मान्न भवति । "वर्णाश्रये नास्ति स्याश्रयम्" [प०] इत्यदोषः । धः॥५॥३॥५५॥ धो धातोझोपन्तस्य वशो भषु भवति झलि परतः । धत्से । धत्स्व । धध्वे । धदध्वम् । धत्तः । धत्थः । “पूर्वत्रासिद्ध न स्थानिवत्" [१०] इति अजादेशस्य न स्थानिवद्भावः । बचनसामर्थ्याद्वा श्रतिकृतमानन्तर्यमस्तीति भवन्तता । धस्यापि जश्त्वमाश्रयात्सिद्धम् । “प्रकृतिग्रहणे यङ बन्तस्यापि ग्रहणम्" [प०] । धात्तः। धास्थः । झषन्तस्येत्येव । दधाति । दधासि । झलीत्येव । दधे । दधते । तथोधोऽधः ॥५॥३॥५६॥ झषन्तादुत्तरयोः तकारथकारयोर्धकारादेशो भवत्यदधातेः । दोग्धा । दोग्धुम् । अदुग्ध । अदुग्धाः । बोद्धा । बोद्धम् । अबुद्ध । अबुद्धाः । अधः इति किम् ? धत्तः । धत्थः । झलो जश् ॥५॥३॥५७॥ झलो जश भवति पदान्ते वर्तमानस्य । पदमध्ये "झलां जश् झशि" [५।४।१२८] इति वक्ष्यति । झलीति निवृत्तम् । वागत्र । मधुलिडन । अग्निचिदत्र । झलीत्यस्य निवृत्तिः किम् ? यस्ता । वेष्टव्यम् । षढोः कः सि ॥५३॥५८॥ षकारटकारयोः वकारादेशो भवति सकारादौ परतः । वेक्ष्यति । तोक्ष्यति । दृस्य । लेक्ष्यति । वक्ष्यति । सीति किम् ? पिनष्टि । द्रात्तस्य तो नः पूर्वस्य दोऽपमूछिमदाम् ॥५॥३॥५६॥ दकाररेफाभ्यां परस्य तसञकस्य तकारस्य नकारादेशो भवति पूर्वस्य च दकारस्य पृमूछिमदो वर्जयित्वा । भिन्नः । भिन्नवान् । छिन्नः। छिन्नवान् । आस्तीर्णम् । अवगूर्णम् । द्रादिति किम् ? शक्तः । शक्तवान् । तसज्ञकस्येति किम् ? कर्ता । हर्ता । त इति किम् ? मुदितम् । चरितम् । द्रादित्यनेन तकारो विशेष्यते । स चेत्तसज्ञ इति । तेनेटा व्यवधाने न भवति । पूर्वस्येति किम ? परस्य मा भूत् । भिन्नवदृभ्याम् । भिन्नवदभिः । "अधिकृत्य कृते ग्रन्थे" ३२३१६ इत्यादि निर्देशात् “इह वर्णेकदेशा वर्णग्रहणेन न गृह्यन्ते"। तेन हृतम् कृतमित्यादि सिद्धम् । कृतस्यापत्य कार्तिरिति बहिरङ्गो रेफः । अप मूछिमदामिति किम् ? प्रपूतः । मूत्र्तः । मत्तः । स्फादरातो धोर्यरावतोऽध्यायः ॥५॥३॥६०॥ स्फादियों धुः आकारान्तः यण्वत् तस्मात्परस्य तत. कारस्य नो भवति ध्या ख्या इत्येतौ वर्जयित्वा । प्रद्राणः । प्रद्राणवान् । ग्लानः। म्लानः। ध्या इत्येतस्य For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy