SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० ५ पा० ३ सु० २१-२७ युवां आवां च रक्षतु । युष्मान् अस्माश्च रक्षतु | ज्ञानं तव च स्वम् । ज्ञानं मम च स्वम् । युवयोः आवयोश्च स्वम् । युष्माकं अस्माकं च स्वम् । ज्ञानं तुभ्यं मह्य वा दीयते । ज्ञानं तुभ्यं महूयं ह दीयते। ज्ञानं तुभ्यं मह्यमह दीयते । ज्ञानं तुभ्यं मह्यमेव दीयते। इत्यादि योज्यम् । योग इति किम् ? ज्ञानं च मे स्वम् । नात्र चादिभिर्युप्मदस्मदोर्योगः । किन्तर्हि ? ज्ञानस्य । दृश्यर्थैश्चिन्तायाम् ॥३।२१॥ चिन्तायां वर्तमानैदृश्यर्थे(भियोगे युष्मदस्मदोर्वाम्नावादयो न भवन्ति । अत्र साक्षायोगे तद्युक्त योगे च प्रतिषेधः । ज्ञानं तुभ्यं दीयमानं समीक्ष्यागतो जनः । ज्ञानं महूयं दीयमानं समीक्ष्यागतः । साक्षायोगे ग्रामस्त्वां समीक्ष्यागतः । ग्रामो मां समीक्ष्यागतः । ज्ञानं तव स्वं समीक्ष्यागतः। शीलं मम स्वं समीक्ष्यागतः। सन्दृश्य संचिन्त्य निरूप्येति यावत् । दृश्यथैरिति किम् ? ग्रामस्त्वा मन्यते । अस्ति चिन्तार्थो मन् धर्न तु दृश्यर्थः । चिन्तायामिति किम् ? ग्रामस्त्वा पश्यति । अत्र चक्षदर्शने दृशिर्वर्तते । तेन न प्रतिषेधः । वाऽनन्वादेशे ॥५॥३॥२२॥ युष्मदस्मदोर्वाम्नावादयो वा भवन्ति अनन्वादेशे। ग्रादेशः कथनम् । अन्वादेशोऽनुकथनम् । नान्वादेशोऽनन्वादेशः। तत्र विकल्पोऽन्वादेशे नित्यो विधिः। ज्ञानं ते दीयते । ज्ञानं तुभ्यं दीयते । ज्ञानं मे दीयते । ज्ञानं महयं दीयते । इत्यादि योज्यम् । अनन्वादेश इति किम् ? अथो ज्ञानं ते दीयते । अथो ज्ञानं मे दीयते । पूर्व किञ्चिदादिश्य इदमादिश्यते इत्यन्वादेशोऽयम् । सपूर्वाया वायाः ॥२३॥ विद्यमानपूर्वाद् वान्तात्परयोयुष्मदस्मदोर्वा वाम्नावादयो भवन्ति । अनन्वादेशे सामान्येन सिद्धम् । अन्वादेशार्थमिदम् । अथो आचार्येण ज्ञानं ते दीयते । अथो आचार्येण ज्ञानं तुभ्यं दीयते । इत्यादि। बोध्यमसदवत् ॥५॥३॥२४॥ बीध्यान्तं पदमसदबद् भवति । बोध्यमिति सम्बोधनलक्षणाया वाया ग्रहणम् । असदद्वद्भावे प्रयोजनम् । बोध्यान्तात्परयोर्युष्मदस्मदोरादेशनिवृत्तिः। देवदत्त तुभ्यं दीयते । देवदत्त मादीयते । इत्यादि नेयम् । इह च देवदत्त ज्ञानं ते । देवदत्त ज्ञानं मे । “सपूर्वाया वायाः" [५/३१२३] इत्यन्वादेशे विकल्पो न भवति । वत्करणं स्वश्रुत्यनिवृत्त्यर्थं कार्य प्रत्यसद् भवति । कार्थे बोध्ये सामान्यवचनम् ॥५॥३॥२५॥ एकार्थे बोध्यान्ते परतः सामान्यवचनं बोध्यान्तं नासदभवति किन्तु सददेव भवति एकार्थः विशेषलक्षणो यस्य तदिदमेकार्थे विशेषवचनमित्यर्थः । कथं ज्ञायते ? सामान्यवचनम् इति निर्देशात् । परस्य विशेषवचनत्वमपेक्ष्य सामान्यवचनत्वं भवति । क्षत्रिय श्रेणिक ते धर्मो दीयते । क्षत्रिय श्रेणिक त्वाऽहनरक्षतु । क्षत्रिय श्रेणिक ते धर्मों वर्धताम् । एकार्थ इति किम् ? क्षत्रिय ब्राहाण युवाभ्यां धर्मो दीयते । बोध्य इति किम ? क्षत्रिय धनवान् मे त्वं देहि । पूर्वस्य सत्वे "सपूर्वाया वायाः" [५।३।२३] इत्येष विधिः प्रसज्येत । सामान्यवचनमिति किम् ? श्रेणिक क्षत्रिय तुभ्यं धर्मो दीयते । घा विशेषवचने वहौ ॥५॥३।२६।। विशेषवचने बोध्ये बह्वन्ते परतः सामान्यवचनं वा बोध्यान्तमसद् भवति । देवाः शरण्या वो दीयते । देवाः शरण्या युप्मभ्यं दीयते । “नकार्थे बोध्ये सामान्यवचनम्" [५।३।२५] इत्यस्यायं विकल्पः। सामान्यवचनमित्यनुवृत्तेः परस्य विशेषवचनमनुक्तं सिद्धम् । तत्कृतं स्पष्टार्थमुत्तरार्थ च । पूर्वत्रासिद्धम् ॥५॥३॥२७॥ पूर्वत्र इति असिद्धमिति च एतदधिकृतं वेदितव्यम् आ शास्त्रपरिसमाप्तः । येयं चतुरध्यायी सार्धद्विपादाऽतिक्रान्ता तस्यामयं सार्धद्विपादोऽसिद्धो भवति । इत उत्तरं च उत्तरोत्तरो योगः पूर्वत्र पूर्वत्रासिद्धो भवति । असिद्धवद्भवति । शास्त्रासिद्धत्वेन तदाश्रयं कार्य न भवतीत्यर्थः । अस्मा उद्धरति सिद्धा अत्र | असा आदित्यः। “व्योः खम्" [५४५] इत्यस्य यवखशास्त्रस्याऽसिद्धत्वात् “श्रादेप" For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy