SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८६ www.kobatirth.org जैनेन्द्र-व्याकरणम् [ श्र० ५ पा० ३ सू० १-१२ [सर्वस्य द्वे || ५|३|१|| परो ब्रिः || ५|३|२|| नित्यवीप्सयोः ||५|३|३|| परेर्वर्जने || ५|३|४|| उपर्यध्यधसः सामीप्ये || ५|३|५|| वाक्यादेवध्यस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु || ५|३|६॥ एको वचत् ||५|३|७|| श्रावाधे च ॥ ५३८ ॥ ] 'कश्चिदेवं प्रयुङ्क्ते इत्याबाधः । प्रयोक्तव्या । ( ? ) Acharya Shri Kailassagarsuri Gyanmandir वदुत्तरे ||३|१९|| उत्तरे द्वित्वे यस्येव कार्यं भवति । वक्ष्यति " प्रकारे गुणोक्तेः " [५|३|१० ] इति । पटुपटुः । पटुपट्वी । कालककालिका । सातिदेशे "न बुहृत्कोड:" [ ४|३|१४६ ] इति पुंवद्भावप्रतिषेधः स्यात् । यसे तु " पुंवद्यजातीयदेशीये” [ ४ | ३|१५४ ] इति भवति । श्रधिकारेणाऽप्येत सिद्धम् । उत्तरग्रहणं ज्ञापकार्थम् । अयमधिकारः । “एको बवत्" [ ५/३/७ ] इत्यादिलक्षणं चाधिकारश्च । तेन एष तवाञ्जलिरेष तवाञ्जलिः । अहो दर्शनीया ग्रहो दर्शनीया । आधिक्येऽनि द्वित्वमुक्तम् । " स्वार्थेऽवधार्य - मस्मिन् द्व े भवतः " [ वा० ] अस्मात्सुवर्णादिह भवद्भ्यां मात्रं माषं देहि । अत्र द्वावेव मात्रौ दीयेते न सर्वे माषाः । तेन वीप्सा नास्ति । श्रवधार्यमाण इति किम् ? इह भवद्भ्यां मात्रमेकं देहि । “पूर्वप्रथमयोरतिशयेद्व े भवतः " [ वा० ] पूर्वं पूर्वं पुष्यन्ति । प्रथमं प्रथमं पच्यते । वेत्यधिकारायदा न द्वित्वं तदाऽतिशायिकः । पूर्वतरं पुष्यन्ति । प्रथमतरं पच्यन्ते । “समसम्प्रधारणायां किम श्राक्षेपे द्व े भवतः " [ वा० ] । उभाविमावाहयौ कतरा कतराऽनयोस्तयोरायता । कतमा कतमानयोरायता । कीदृशी कीदृशी अनयोरायता । कतरः कतरोऽनयोविभवः । " कर्मव्यतिहारे सर्वनाम्नो द्वित्वं सवच्च बहुलम् " [ वा० ] तत्र वेत्यधिकाराल्लभ्यते । सवत्पक्षे पूर्वपदस्यान्यशब्दस्य सुरेव | स‌द्भावे च मिभूतस्यादेरुत्वं परशब्दस्य सुट् । श्रन्योन्यमिमे ग्रामा भोजयन्ति । अन्योन्यस्य भोजयन्ति । पुत्रादीति गम्यते । एवमितरेतरेषाम् । इतरेतरस्य । परस्परं परस्परस्य भोजयन्ति । "स्त्रीनपुंसकयोर्विभक्त्या वाऽम्भावो द्योस्तु" [ वा० ] अन्योन्यं नार्यौ भोजयतः । अन्योन्यां वा । ग्रन्योन्यं कुले भोजयतः । ग्रन्योन्यं वा । अन्योन्यं नार्यो भोजयन्ति । अन्योन्यां वा । अन्योन्यं वा कुलानि भोजयन्ति । अन्योन्यं वा । इत्यादि सिद्धम् । प्रकारे गुणोक्तेः || ५|३|१०|| प्रकारे वर्तमानस्य गुणोक्तेद्वे भवतः । प्रकारः सादृश्यमिह गृह्यते । उच्यते इत्युक्तिरभिधेयं वस्तु । गुण उक्तिरभिधेयोऽस्येति गुणोक्तिः, तस्य द्वित्वम् । पहुपदः । परिडतपडितः । पटुपट्वी । पण्डितपण्डिता । उत्तरसूत्रे वाग्रहणमिह सिंहावलोकनेन सम्बध्यते । तेन जातीयोऽपि भवति । पटुजातीयः । मृदुजातीयः । द्वित्वजातीययोर्विधेयाभेदे मृदुमृदुजातीय इत्यनिष्टं स्यात् । प्रकार इति किम् ? शुल्को गुणः । अग्निर्माणवकः । गौर्वाहीकः । सदागुणवचनो यः प्रकारे वर्तते तस्य द्विम् । यं तूपमानात्सर्वद्रव्यवचनः । प्रियसुखयोर्वाsकृच्छ्रे || ५|३|११|| प्रिय सुख इत्येतयोरकृच्छे वा द्वे भवतः । प्रियप्रियेण ददाति । प्रियेण ददाति । सुखसुखेनाधीते । सुखेनाधीते जैनेन्द्रम् | प्रयासेनेत्यर्थः । कृच्छ इति किम् ? प्रियः पुत्रः । सुखो रथः । प्रीणातीति प्रियः । मुखयतीति सुखः । १. प्रतिषु [ सृत्यात्र निर्दिष्टानि । tered यथायथम् ||५|३|१२|| यथायथमिति निपात्यते यथास्वेऽर्थं । सर्वे ज्ञाता यथायथम् । यथास्वभावं यथाऽत्मीयं चेत्यर्थः । यथाशब्दस्य द्वित्वमम्भावश्चान्ते निपात्यते । यो य श्रात्मा यो य ग्रात्मीयो वा यथास्वम् | " यावद्यथा” [ ११३१६] इति वीप्सायां हसः । झिसंज्ञकं वा यथायथमिति शब्दान्तरमस्मिन्नर्थे साधुत्वेनान्वाख्यातम् । ] कोष्टकान्तर्गतानां सूत्राणां वृत्तिस्रुटिता । सूत्राणि तु जैमेन्द्रपञ्चाध्यायीमनु For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy