________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८४ .
जैनेन्द्र-व्याकरणम् [अ० ५ पा० २ सू० १८१-१८७ दीरकितः ॥५।२।१८१॥ अकितश्चस्य पुडुपोदीभवति । पापच्यते । पापचीति । पापठ्यते । पापठीति । "यङो वा” [५।२।१२] वचनं ज्ञापकमविशेषेण यकपः। अकित इति किम् ? यंयम्यते । यंयमीति । ननु दीत्वापवादे परत्वान्नुकि कृते अनजन्तत्वात् कथं दीत्वप्राप्तिः । इदमेवाकित इति वचनं ज्ञापयति-"चविकारेप्वपवादा नोत्सर्गान् बोधन्ते"[प०] इति । तेन किं सिद्धम् ? मीमांसत इत्यादौ ईत्वं दीत्वेन न बाध्यते । डोढोक्यत इति दीत्वेन प्रादेशस्य न बाधा। अचीकरदित्यत्र "घेर्दीः" [५/२११६१] इत्यनेन “सन्यतः" [५।२।१७७] इत्वं न बाध्यते । अजीगणदिति “ईच्च गणः" [५।२।१६४] इत्यनेन "हलोऽनादेः" [५।१।१६१] खस्य न बाधा।
नीग्वञ्चुलंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ॥२।१८२॥ वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्द इत्येतेषां यङपोश्चस्य नीगागमो भवति । वनीवच्यते । वनीवञ्चीति । सनीस्रस्यते । सनीस्रंसीति । दनीध्वस्यते। दनीध्वंसीति । बनीभ्रश्यते । बनीभ्रंशीति । चनीकस्यते । चनीकसीति । पनीपत्यते । पनीपतीति । आपनीपद्यते । आपनीपदीति | चनीस्कद्यते । चनीस्कन्दीति । यपि "नोमता गोः" [१।१।६४] इति प्रतिषेधात् "हलुङः" [ २३] इति नखं न भवति । नौगिति दीत्वोच्चारणसामर्थ्यान्न प्रादेशः । अकित इति दीत्वप्रतिषेधार्थ पूर्वान्तकरणम् ।
ङस्यातो नुक् ॥२१८३॥ सज्ञान्तस्य गोयंश्चेऽकारान्तस्तस्य नुगागमो भवति यापोः परतः । बंभण्यते। बंभणीति । तन्तन्यते । तन्तनीति । जङ्गम्यते। जङ्गमीति । नुको "नश्चापदान्तस्य झलि" [५/४] इत्यनुस्वारस्य परस्वत्वम् । असत्यपि स्वनिमित्ते झलादौ अनुस्वारो भवतीत्युक्तम् । तेन यंयम्यते । रंरम्यते इत्यनुस्वारः । अत्रापि दीत्वप्रतिषेधार्थ पूर्वान्तत्वम् । ङस्येति किम् ? पापच्यते । अत इति किम् ? तेतिम्यते । तपरकरणं किम् ? आकारभूतपूर्वस्य मा भूत् । बाभाम्यते ।
जपजभदहदशभञ्जपशाम् ॥५।२।१८४॥ जप जभ दह दश भज पश इत्येतेषां चस्य तुगागमो मवति यङपोः परतः । जञ्जायते। जजपीति। जञ्जभ्यते । जञ्जभीति । दन्दह्यते । दन्दहीति । दंदश्यते । दंदशीति । बम्भज्यते । बम्भजीति । पम्पश्यते । पम्पशीति । पश इति सौत्रो धुः । जपादिषु दंशिपर्यन्तेषु "लुपसदचर" [२१११२१] इत्यादिना यङ । अन्यत्र क्रियासमभिहारे। दश इति सूत्रनिर्देशाद्ययपि नखं भवतीति केचित् । तदयुक्तम् । विकरणानिर्देशोऽयम् । यथा “पतदशनहः करणे ब्रट्" [२।२।१६०] इति ।
चरफलोरुच्चोङः॥शरा१८५॥ चर फल इत्येतयोश्चस्य नुग्भवति यङपोः उङश्च उकारादेशश्चरफलोः । चञ्चूर्यते । “हल्यभकुच्छुरः" [५।३।८६] इति दीत्वम् । चञ्चुरीति । पम्फुल्यते । पम्फुलीति । उदिति तपरकरणं किम् ? चञ्चूर्ति । पम्फुल्तीत्यत्र "घ्युङः" [५।२।८३] एम्निवृत्त्यर्थं दीत्वस्यासिद्धत्वादेप् प्राप्नोति । नन्वेप इव दीत्वस्यापि तपरकरणात् किन्न निवृत्तिः । अत्रोच्यते-यथा “गेऽत उत्" [४।४।१००] इति तपरकरणे न दीत्वमशक्यं निवर्तयितुम् अभकुच्छर इति प्रतिषेधारम्भात्तथाऽत्रापि ।
ति ॥५२।१८६॥ तकारादौ चपरतः चरफलोरुङः ऊकारादेशो भवति । देवचूर्तिः । “क्तिचक्तौखौ" [२।३।१५०] इति क्तिच् । एवं चरणं चूर्तिः । फलनं फुल्तिः । प्रफुल्ता लता। यडुपोश्चस्येति चानुवर्तमानमिह वचनसामर्थ्यात् नाभिसम्बध्यते ।
रीगृत्वतः ॥५।२।१८७॥ ऋत्वतो गोश्चस्य रीगागमो भवति यङि । वरीवृत्यते । नरीनृत्यते । यदि ऋदुङ इति क्रियेत । सरीसृज्यते इति न स्यात् । ऋमत इति तर्हि कर्तव्यम् । चिकीर्षत इत्यत्र तु कृताकृतप्रसङ्गित्वाहतः ईभविष्यति । एवं सिद्धे तपरकरणं लाक्षणिकस्यापि रीगधम् । तेन वरीवृश्च्यते । बरीभृज्यते । परीपच्छयते ? चेक्रीयते जेहीयते इत्यत्र कस्मान्न रोगिति चेत् : द्वित्वात् । परत्वेन रीडादेशे कृते ऋकाराभावान्न भवति ।
For Private And Personal Use Only