SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० ५ पा० २ सू० ६१-६८ ] महावृत्तिसहितम् ३६६ हेरकचि ॥शश६१॥ हिनोतेह कारस्य चात्परस्य अकचि कुत्वं भवति । प्रजिघाय । प्रजेघीयते । प्रजिघीषति । अकचीति किम् ? प्राजीहयत् । हेय॑न्ताल्लुङि “णिश्रिद्श्रु" [२।१।४३] इत्यादिना कच् । गिखम् "णौ कच्युङः" [५.२१११५] इति प्रादेशः । गौ कृतं स्थानिवद्भवतीति कचि हिशब्दस्य द्वित्वम् । ननु हेः स्वनिमित्ते त्ये चादुत्तरस्य कुत्वमुक्तम् । ण्यन्तं च प्रकृत्यन्तर कथं कचि प्राप्तिः। अयमेव प्रतिषेधो शापको एयधिकस्यापि भवति । प्रहाययितुमिच्छति प्रजिघाययिषति । सन्लिटोर्जः॥५॥२॥ सनि लिटि च यश्चस्तस्मात्परस्य जेः कुत्वं भवति । जिगीषति। जिगाय । संल्लिटोरिति किम् ? जेजीयते । जिनातेर्लिटि जित्वे कृते "हलः" [१४] इति दीत्वे कृते एकदेशपरिभाषया जिग्रहणेन ग्रहण नेप्यते लाक्षणिकत्वात् । “एर्गिवाक्चादुकोऽसुधियः [४७८] इति यत्वम् । जिज्यतुः। जिज्युः। या चेः॥शश६३॥ चिनोतेः सँल्लिटोः परतः चात्परस्य वा कुत्वं भवति । धर्म चिकीपति । धर्म चिचीषति | चिकाय । चिचाय । संल्लिटोरित्येव । चेचीयते । अप्राप्त विकल्पोऽयम् । न वञ्चेर्गतौ ॥५६४॥ वञ्चेर्गत्यर्थस्य कुत्वं न भवति । वयं वञ्चति वाणिजाः। गतौ किम् ? बङ्कय काष्ठम् । “यस्य वा" [५।१।१२१] इति "तेऽनिटः" [५।२।५६] कुत्वं प्राप्तम् । ननु गतावेव वञ्चिः पठ्यते । सत्यम् । अनेकार्था धव इत्यन्यत्र मा भूत् । राय आवश्यके ॥५॥२॥६५॥ आवश्यकेऽथें प्ये परतः कुत्वं न भवति । अवश्यपाच्यम् । अवश्यसेच्यम् । “आवश्यकाधमण्यंयोणिन्" [२।३।१४६] इत्यधिकृत्य "व्याः" [२।३।१४७] इति एयः । मयूख्यसकादित्वात्सविधिः। "व्यान्ते ह्यवश्यमो नाशः" इति मखम् । ग्रावश्यक इति किम् ? पाक्यम। सेक्यम् । यजित्यजिप्रवचाम ॥शश६६॥ यजि त्यजि प्रवच इत्येतेषां गये परतः कत्वं न भवति । याज्यम् । त्याज्यम् । प्रवाच्यम् । अनावश्यकार्थमिदम् । प्रवचिग्रहणं शब्दखावपि प्रतिषेधार्थम् । प्रवाच्यो नाम पाठविशेषः । अन्ये तु पुनराहुः-प्रपूर्वस्यैव वचेः अशब्दखे कुत्वप्रतिषेधो यथा स्यात् । अत्यगिपूर्वस्य मा भूत् । अधिवाक्यम् । वचोऽशब्दखौ ॥५॥२।६७॥ वचोऽशब्दखौ ण्ये परतः कुत्वं न भवति। वाच्यमाह । अशब्दखाविति किम् ? अवधुपितं वाक्यमाह । शब्दस्यैव सज्ञावाक्यमिति । तदुक्तम्-ग्राख्यातं सविशेषणमित्यादि वाक्यम् । भुजप्रयाजानुयाजोकप्रयोज्यनियोज्यभोज्यानि ॥शश६८॥ भुज प्रयाज अनुयाज श्रोक प्रयोज्य नियोज्य भोज्य इत्येतानि शब्दरूपाणि निपात्यन्ते । भुज इति पाणौ। भुज्यतेऽनेनेति भुजः । "हलः" [२।३।१०२] इति करणे पत्र । एकुत्वयोरभावो निपात्यते । भोगोऽन्यः । अथ “भुजो कौटिल्ये" [धा०] इत्यत्य इगुलक्षणे के रूपम् । न तस्याभ्यवहारार्था प्रतीतिः । रूढिशब्देऽप्यनुगमोऽस्ति । यथा गच्छनीति गौः । प्रया जानुयाजी यज्ञाङ्गे । “अकर्तरि" [२।३।१८] इति घन । प्रयागः । अनुयागः । इत्येवान्यत्र । योक इति भवति । उचः के उच्यतीत्योकः । इगुङलक्षणः कः । न्युच्यल्यस्मिन्निति न्योकः । "घअर्थे कविधानम्" [ वा० ] इति कः । एप् कुत्वं च निपात्यते । उचिस्ते सेट् तदर्थम् । के उच इत्यस्य रूपस्य निवृत्त्यर्थ वेदम् । दिवौकस इत्यादिषु “उणादयो बलम्" [२१२११६७] इति कुत्वम् । प्रयोज्यनि योज्यौ शक्याथें । प्रयोक्तुं शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यः । “शकि लिङ च" [२।३।१४८] इति एयः। कुत्वाभावोऽनेन । प्रयोग्यो नियोग्य इत्येवान्यत्र । भोज्यमिति भुज पालनाभ्यवहारयोरित्यस्य भदयेऽभिधेये। भोज्य ग्रोदनः । भोज्या अपूपाः। ननु भक्षिरयं खरविशदे वर्तते न तु द्रवद्रव्ये तत्कथं For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy