SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० ५ पा० ५ सू० ५१०-११५ अतः ॥५२॥११०॥ अतः "ऋतः” इत्यनेन यदुक्तं तन्न भवति । अर्ता । आरिथ । प्रतिषेधस्तावनाभिसम्बध्यते । ऋत इत्येव सिद्धत्वात् । विकल्पोऽपि यदीष्टः स्यात् “अत्वदच्सृजिदृशः” इत्यत्रैवाःग्रहणं क्रियेत । ततः सूत्रारम्भसामर्थ्याद् विधिरभिसम्बध्यते ।। स्नोर्थात् ॥११॥२११॥ नेत्यनुवर्तते । स्नु इत्येतस्माद् दार्थाइनिमित्तादगे इएन भवति । प्रस्नोष्यते । प्रस्नोष्टीष्ट । प्रास्नोष्ट । "डौ" [१७] इति दः । "स्नोश्च त्रिश्च" [२१११५६] इति लुङिन जिः। सुस्नुषिष्यते इत्यत्र “सनि ग्रहगुहश्च" [५/१।११८] इत्यनेनैव प्रतिषेधः। इह कथं प्रस्नवितेवाचरति प्रनवित्रीयते । नात्र स्नोतिर्दार्थः । किं तर्हि ? क्यडन्तो धुः। “रोङ ऋतः [५।२।१३६] इति रीङ् । दोऽर्थो यस्य सोऽयं दार्थः । दप्रयोजन इत्यर्थः । कदा च स्तुर्दार्थः । यदा भावकर्मकर्मव्यतिहारा विवक्षिताः । सति च दे दार्थत्वं तेन कृति न भवति । प्रस्नवितुम् । यदि सति दे दार्थत्वं दे इति वक्तव्यम् । न दे परतः इत्यानन्तर्य विज्ञायेत । स्यादिव्यवधाने न स्यात् प्रतिषेधः । दार्थादिति किम् ? प्रनविता । प्रस्नवितुम् । क्रमः ॥५॥१११२॥ दार्थादिति वर्तते । क्रमश्च दार्थादिण न भवति । प्रकंस्यते । प्रक्रसीष्ट । प्रचिकंसते। प्रचिसिध्यते । सन्नन्तप्रयोगेऽपि क्रमिरेव दार्थः । “सनः पूर्ववत्" [२५८] इति क्रमिः सम्बन्धिनो दस्यातिदेशात् । अत्रापि दार्थत्वं भाषकर्मकर्मव्यतिहारा वृत्त्यादयोऽर्थाः “वाऽः” [॥२।३६] इति शेषयोगश्च । दार्थादित्येव । प्रक्रमितव्यम् । प्रक्रमितुम् । सति दे दार्थत्वमिति । "प्रादारम्भे" [११२।३८] इति दः । कर्तरि कृति ॥५॥११११३॥ क्रमेदार्थाद्दविषयात् कर्तरि कृति नेड् भवति । इह कृतीति वचनसमाहत्यासम्भवाद्दार्थादिति दविषयादित्यवगन्तव्यम् । अप्रयोगेऽपि दस्य दविषयत्वं पूर्व तु सत्येव दे दार्थत्वं व्याख्यातम् । प्रक्रन्ता । उपक्रन्ता। प्रचिक्रसिता। कर्तरि कृति । प्रक्रमितव्यम् । उपक्रमितव्यम् । प्रचिऋमिया । दार्थादिति किम् ? निष्क्रमिता । "इदुदुडोऽत्यपुम्मुहुसः" [५।४।२८] इति सत्वम् । “इणः पः" [५।४।२७] पत्वम् । वशि ॥५॥१।११४॥ कृतीत्येकदेशोऽनुवर्तते । वशादौ कृति नेड् भवति । प्राप्त प्रतिषेधः । ईश्वरः । दीप्रः । भस्म । यत्नः । वर-र-म ना एव प्रयोजयन्तीति केचित् । तदयुक्तम् । अन्यत्रापि दर्शनात् । “अमन्ताड्डः” [उ० सू०] । दण्डः । “मुदिनोर्गः" [उ० सू०] । मुद्गः । गर्गः। “दरिदलिभ्यां भः" [उ० सू०] । दर्भः । दल्भः। कृतीति किम् ? रुरुदिव । रुरुदिम । एकाचोऽनुदात्तात् ॥११५॥ उपदेशे एकाचो धोः अनुदाचादिण न भवति । याता। कर्ता । पक्ता । एकाचोऽजन्ताः । अदन्तमूदन्तमृदन्तं स्विश्रोडीशीङो डुक्रीऔ । युरुगृणु नुत्तु दणुवश्च वर्जयित्वा । ऊर्णोतेणु वद्भावादेकान्त्वम् । श्रावधिपीष्ट । “पाको यमहनः" [१।२।२३] इति दः। "हनो वध लिहि" [११११११४] इति बधादेशः । स चावधीदित्यत्र ऐप् मा भूदित्यन्त उदात्तश्चोपदिश्यते । स्थानिवद्भावेनानुदात्तो मा भूदित्येवमर्थम् । लविता । तरिता ! श्वयिता । इत्यादि योज्यम् । हलन्ता अनुदात्ता प्रदर्श्यन्ते । शकिघसिबमतयः। घसिः प्रकृत्यन्तरमन्यस्ति । घस्ता। वसतेस्तिपा निर्देशः अाच्छादनार्थे निवृत्त्यर्थः । वसिता पटस्य । यभिरभिलभयः । यमिरमिनमिगमयः हनिमन्यती। श्यनिर्देशो मनुतेर्निवृत्त्यर्थः । मनिता । दहिदिहिद्र हिरुहिनहिवहिलिहिपिहयोऽष्टौ ।। सहेतु "तीपसह" [५/११६६] इति विकल्पो मुहेरपि । रधादौ दिशिदशिमृशिस्मृशिरिशिरुशिविशिकु शिलिशिदंशयो दश १० राधिरुधिधिसाधियुधिव्याधिबन्धिसुधितुधिबुध्यतिसिध्यतय - श्चैकादश ।११। बुध्यतिसिध्यतोः स्यनिर्देशो भौवादिकयोनिवृत्त्यर्थः । बोधिता । सेधिता। अकारेतावेतौ । बुधितम् । सिधितम् । शिषिशुषितुषिदुषिपिषिविषिकृषित्विषिद्विपिश्लिपय एकादश ॥१३|| प्रापितपिस्वपिलिपिलुपिने क्षिपिशपिवपितिपिछपिसृपितृपिदृपयः त्रयोदश ॥१३॥ तृपिहपी रधादिपाटाद्विकल्पितेटी इहानुदात्तपाट For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy