SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ४ पा० ४ सू० ११६-१२४ ] महावृत्तिसहितम् ३३१ फणां सप्तानाम् ॥४ाधा११६।। फणादीनां सप्तानां वा एत्वं भवति चस्य च खं लिटि विति सेटि च परतः । फेणतुः। फेणुः । फेरिणथ । पफणतुः। पफणुः। पफणिथ । रेजतुः। रेजुः । रेजिथ। रराजतुः । रराजुः । रराजिथ | भेजे । भेजाते । भ्रजिरे। बभ्राजे। बभ्राजाते। बभ्राजिरे। भ्रसे। बभ्रासे। भ्लेसे । बन्लासे । स्मतुः। स्येमुः। स्येमिथ । सस्थमुः। सस्थमिथ । स्वेनतुः। स्वेनुः । स्वेनिथ । सस्वनतुः । सस्वनुः । सस्वनिथ । सप्तानामिति किम् ? दध्वनतुः । दध्वनुः । जज्वलतुः। जज्वलुः । जज्वलिथ । न शसददवादीनाम् ॥४ाथा११७॥ शस दद इत्येतयोर्वादीनां च लिटि थिति सेटि च परत एत्वचखे न भवतः । विशशसतुः । विशशसिथ | दददे। दददाते । दददिरे । वादीनाम-बवणतुः । ववणुः। ववणिथ । ववले । ववलाते । ववलिरे । भस्य ॥४|४|११८॥ भत्येत्ययमधिकारो वेदितव्य आ पादपरिसमाप्तेः। वक्ष्यति “पादः पत्" [४।४।११६] इति । द्विपदा । द्विपदे । भस्येति किम् ? द्विपादौ । द्विपादः । धे भसंज्ञा न भवति । पादः पद् ॥४॥११६॥ पादन्तस्य गोर्भस्य पदित्ययमादेशो भवति । द्विपदः पश्य । द्विपदा । द्विपदे । द्वौ पादावस्येति बसे "सुसंख्यादेः” [४।२।१४०] इति पादस्यातः खम् । “निर्दिश्यमानस्यादेशा भवन्ति" [प०] इति पाच्छब्दस्य पदादेशः । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । “संख्यायाः पादशतेभ्यो वीप्सादण्डत्यागे वुन्" [१२।१०] खं च । वैयाघ्रपद्यः । व्याघ्रस्येव पादौ यस्य "खं पादस्याहस्त्यादेः” [४।२।१३६] इति खम् । गर्गादित्वाद्यञ् । भस्येति किम् ? द्विपाद्याम् । द्विपाद्भिः । पादवतेः क्विबन्तस्य प्रयोगो नास्ति । क्सोर्जिः॥४ाथा१२०॥ वस्वन्तस्य गोर्भस्य जिर्भवति । उपसेदुषः पश्य । उपसेदुधा । उपसेतुपे । "वस्सदिणी वसुर्लिएमम्" [१।२।८८] इति वसुः । द्वित्वम् । हल्मध्ये लिख्यत इति एत्वचखे । क्रादिनियमादिट् । जौ कृते निमित्ताभावादिएिनवृत्तिः । भस्येत्येव । विद्वस्यति । विद्वस्यते। क्यचक्यङोः त्वादित्वाभावाद्भसंज्ञा नास्ति । "न: क्ये" [१।२।१०४] इति नियमात्पदसंज्ञाविरहेण रित्वाद्यभावः । श्वयुवमघोनोऽहति ॥४|४|१२१॥ श्वन् युवन् मघवन् इत्येतेषां जिर्भवति अहृति परतः । शुनः पश्य । शुना । शुने | यूनः पश्य । यूना । यूने । “अनन्त्यविकारेऽन्त्यसदेशस्य" [प०] इति यकारस्य न भवति । मघोनः पश्य । मघोना । मघोने | अहतीति किम् ? शौवनं मांसम् । यौवनं वर्तते । माघवनम् । शुनो विकारः “प्राणितालादेः" [३।३।१०५] इत्यण् । “द्वारादेः" [५।२।६] इत्यौव् । यूनो भावः 'हायनान्तयुवादिभ्योऽण" | मघोन इदम् । उत्तरत्र अन इति योगविभागः । अन्नन्तानां श्‍वादीनां जिभवति । तेन युवतीः पश्येल्यत्र “मृद्ग्रहणे लिङ्गविशिष्टस्य” [प०] इति न भवति । अनोऽखमम्वस्फात् ॥४।४।१२२॥ अन्नन्तस्याखं भवति स चेदन् मकारवकारान्तस्मात्परो न भवति । राज्ञः पश्य । राज्ञे । “पूर्वत्रासिद्धे न स्थानिवत्" इति चुत्वम् । तदशः पश्य । तक्ष्णा । तक्ष्णे | अन्नन्तस्येति वचनात् राजकीय इत्यत्र न भवति । अम्बस्फादिति किम् ? धर्मणः । धर्मणे। तत्वदृश्वनः पश्य । तत्त्वदृश्वना । तत्त्वदृश्वने । पादिहन्धृतराशोऽणि ॥४।४।१२३॥ पकारादेरनः हन् धृतराजन् इत्येतयोश्चाणि परतोऽकारस्य खं भवति । यादणः । तादणः । हन्-नौणघ्नः । वात्रघ्नः । धृतराजन्-धार्तराज्ञः । अपत्यार्थेऽण “अनः" [४।४ ।१५८] इति अखटिखयोः प्रतिषेधे प्राप्ते सूत्रम् । एतेषामिति किम् ? सामनो धौमनः । ताक्षण्यः। “सेनान्तलक्षण" [३११११४०] इत्यादिना एयः । वा ङिश्योः ॥॥४।४।१२४॥ अनोऽकारस्य वा खं भवति डौ शीशब्दे च परतः । राज्ञि । राजनि । लोम्नि । लोमनि । साम्नी। सामनी। दाम्नी । दामनी । भस्येत्यधिकारात् “नपः" [५/१६] इत्यनेनादिष्टः शीशब्दो गृह्यते। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy