SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० ४ पा० ४ सू० २८-३५ आदि सूत्रे त्यजरजादि निपातनासिद्धम् । “दशनहः करणे अट्" इति सूत्रे दशेति विकरणनिर्देशेन निपातनम् । अजादिषु पाटाद् दंष्ट्रेति “रजकरजनरजत्सु नखे यत्नः कर्तव्यः" [वा०] “शिल्पिनि वुः" । युः । औणादिकश्च "अस् सर्वधुम्यः” इत्यस् । स्यदाघोदधौद्मप्रश्रथहिमश्रथाः॥४॥४॥२८॥ स्यद, अबोद, एध, योद्मन् , प्रश्रथ, हिमश्रथ इत्येते शब्दा निपात्यन्ते । स्यद इति स्पन्देघनि नखमैबभावश्च निपात्यते जवेऽभिधेये। गोस्यदः । अश्वस्यदः । कृद्योगे तासः । जवादन्यत्र तैलस्यन्दो घृतस्यन्दः । अवोद इति उन्देरवपूर्वस्य घनि नखं निपात्यते । एध इन्धेर्धनि नखमेप च निपात्यते । “न धुखेऽगे" [1111८] इति प्रतिषेधो मा भूत् । श्रोद्म इति उन्देरौणादिके मनि नखम् । प्रश्रयः हिमश्रथ इति श्रन्थेः प्रपूर्वत्य हिमपूर्वस्य च पनि नखमैबभावश्च निपात्यते । “न ध्रुखेऽगे" [१११।१८] इत्यत्र इकोऽनुवर्तनादेपः प्रतिषेधो न स्यात् । नाञ्चेः पूजे ॥४॥४॥२९॥ अञ्चतेः पूजेऽर्थे नकारस्य खं न भवति । अञ्चितोऽस्य गुरुः । समय जिनं गतः । “अञ्चेः पूजायाम्" [५।१।१०१] इति तक्त्वोरिट् । हलुङ इति नखप्राप्तिः । पूज इति किम् ? उदक्तमुदकं कुपात् । अक्वा रजुम् । “वोदितः" [५।१।१०४] इत्यनेनेट्पक्षे मृडादिनियमादकित्त्वम् । अञ्चित्वा । ते “यस्थ" [५।१।१२१] इति प्रतिषेधः । नाञ्चेरित्यनेनैव प्रतिषेधेन नकारः कृतचुत्वो निर्दिष्टः । क्त्वि स्कन्दस्यन्दोः ॥४४॥३०॥ क्त्वात्ये परतः स्कन्द स्यन्द इत्येतयो कारस्य खं न भवति । स्कन्ला । स्यन्त्वा । स्यन्देः “स्वरति" [५१६२ ] इत्यादिनाऽनिटपक्षे कित्वान्नखं प्राप्तम् । इट्पक्षे तु मृडादिनियमादेवाकिल्वे सति नखाभावः सिद्धः। क्त्वीति द्वितकारकनिर्देशः । तकारादौ क्त्वात्ये इति । तेन प्रस्कद्य प्रस्योत्पत्र "अनल्विधी"[१५६] इति स्थानिवद्भावप्रतिषेधान्नकारादित्वं नास्तीति खं भवत्येव । .. जनशोर्वा ॥४४॥३१॥ ज इति वर्णग्रहणम् । जान्तस्य गोनशेश्च वा नखं भवति क्त्यात्ये परतः । रक्त्या । रंकवा। भक्वा । भक्त्वा । नटा । नंवा । नशे "रधादेः" [५/१६३] इति विभाषितेटोऽनिट्पने "मस्जिनशोमलि" [५/१॥३६] इति नुम् । “हलुङः" [४।४।२३] इति नित्ये नखे प्राप्त विकल्पः । हल इति जातिग्रहणपते मस्जेरपि नित्यं नखे प्रासे मंक्त्या । अनवपक्षे द्वयोः स्फसंज्ञामाश्रित्य स्कादिसम्बन् । भजेौं ॥४॥४॥३२॥ भजेः औ परतो वा नखं भवति । श्रभाजि । अभजि पापं मुनिना । नम्खमप्राप्तमनेन पक्षे विधीयते । शास इत् ॥४॥४॥३३॥ गोरुङः कितीति वर्तते । शासेरुङ इदादेशो भवति किति परतः । कितिशिष्टा। शिष्टि: । शिष्टः । शिष्टवान् । शिष्यः | "स्तुशासिणवृहजुषः क्यप" [11] इति क्यप । डितिशिष्टः । शिष्यः । “शास्वसघसाम्' [५।४।४०] इति षत्वम् । अजादावङ्ये वेति नियमो भविष्यति । सामर्थ्यादयं हलादौ किति विधिः । हलीति यदि क्रियेत "वर्णाश्रये नास्ति त्याश्रयम्" [प०] इति क्वौ न स्यात् । मित्रं शास्तीति मित्रशीः । श्राय शास्तीति आर्यशीरिति । शासु अनुशिष्टावित्यस्येह ग्रहणम् । अन्यस्य दीत्वस्य विधेरसम्भवात्तेन पाङः शासु इच्छायामित्यस्येत्वं न भवति । श्राशास्यते। श्राशास्ते । “लिङाशिपि" [२।४।६५] इति निर्देशादन्यस्यापि क्वावित्वम् । अङि॥४॥४॥३४॥ अङि परतः शास उङ इद्भवति । अन्वशिषत् । अन्वशिषताम् । अन्वशिपन् । नियमाध्यमारम्भः । अजादावङ्येव किति नान्यस्मिन् । शशासुः। शासति । जनादित्वात्थसंज्ञा। “अस्थात्" [५/१४] इत्यदादेशः। शा हो ॥४॥४॥३५॥ शासः शा इत्ययमादेशो भवति हौ परतः। उङमपेक्ष्य पूर्व शास इदिव्यवयव योगलक्षणा ता। सामर्थ्यात् स्थानलक्षणा संपद्यते। अनुशाधि । प्रशाधि । श्राहाविति यदि सूत्रं क्रियेत For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy