SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३०८ जैनेन्द्र-व्याकरणम् वाचत्वारिंशदादी || ४|३|१६० ॥ चत्वारिंशदादौ संख्यायां द्यौ अवाशीत्योद्वर्थादीनां यदुक्तं तद्वा भवति । द्वाचत्वारिंशत् । द्विचत्वारिंशत् । द्वापञ्चाशत् । द्विपञ्चाशत् । अष्टाचत्वारिंशत् । श्रष्टचत्वारिंशत् । श्रष्टाष्टिः । अष्टषष्टिः । त्रयश्चत्वारिंशत् । त्रिचत्वारिंशत् । अवाशीत्योरित्येव । द्विचत्वारिंशाः । द्वयशीतिः । श्रष्टचत्वारिंशाः । श्रष्टाशीतिः । त्रिचत्वारिंशाः । त्र्यशीतिः । प्राक्शतादित्येव । द्विशतम् । “अष्टनः कपाले हविष्यात्वं वक्तव्यम्" [वा०] अष्टाकपालं हविः । अष्टसु कपालेषु संस्कृतं हृदर्थे पसः । "संख्यादी रव " [१।३।४७ ] इति रसंश: । “ संस्कृतं भक्ष्याः ” [३|२| ११] इत्यण् । तस्य " रस्योबनपत्ये” [३|१|७४ ] इत्युप् । हविषोति किम् ? अष्टानां कपालानां समाहारः अष्टकपालं भिक्षोः । पात्रादित्वान्नपुंसकलिङ्गता । “गवे च युक्के श्रष्टनः श्रत्वं वक्तव्यम्” [वा०] अष्टागवेन शकटेन वहति । अष्टौ गावो युक्ता अस्मिन्निति । ग्रस्मादेव निपातनात् बसेऽपि टः सान्तः । युक्त इति किम् ? अष्टानां गवां समाहारः श्रष्टगवम् । नेदं वक्तव्यम् । श्रान्महत इति श्रादिति योगविभागादन्यस्यापीति दीत्वेन वा सिद्धेः । Acharya Shri Kailassagarsuri Gyanmandir [ श्र० श्र० ४ पा० ३ सू० १६० १६६ हृदयस्य हृल्लेखया लासेषु || ४|३|१६१ || हृदयस्य हृदित्ययमादेशो भवति लेख या लास इत्येतेषु परतः । हृदयं लिखतीति हृल्लेखः । हृदयाय हितं हृद्यम् । “प्राण्यङ्गरथ" [ ३ | ४|५ ] इत्यादिना यः । हृदयस्येदं हार्दम् । हृदयस्य भावो वा युवादिपु "हृदयादसे” [ ३|४|१२० ग० सू०] इति पाठादण | अणि घञि वा हल्लासः । लेख इत्य एणन्तस्य ग्रहणम् । घञि तु हृदादेशो नेप्यते । हृदयस्य लेखः हृदयलेखः । एवं च लेखग्रहणं ज्ञापकम् “य्वधिकारे त्यग्रहणे स्वरूपग्रहणं न तदन्तविधिः " [१०] "खित्यते : " [४|३|१७६ ] इत्यव खित्यनन्तरः प्रादेशभाग्नास्तीति तदन्तविधिरिष्टः । वा रोगोके || ४ | ३ | १६२ ॥ टणू रोग शोक इत्येतेषु परतो हृदयस्य वा हृदित्ययमादेशोभवति । सौहार्थम् । ब्राह्मणादेराकृतिगणत्वाय्य्यण । "हृत्सिन्धुभगे द्वयोः " [ ५।२।२४] पदयोरैप । प सौहृदय्यम् । हृद्रोगः । हृदयरोगः । हृ-छोकः । हृदयशोकः । ननु हृदयशब्देन समानार्थी हृच्छन्दोऽस्ति तेनोभयं सिद्धम् । न सिद्ध्यति । अन्येवन्युत्तरपदेषु हृच्छन्दस्य प्रयोगः प्रसज्येत । पादस्य पदाज्यातिगोपहतेषु || ४|३|१६३ || पादस्य पद इत्ययमादेशो भवत्याजि श्रातिग उपहत इत्येतेषु परतः । पादाभ्यामजति पादाभ्यामतति । श्रजातिभ्यां पाद इणू । वाक्सः । केवलेन ग्राजिशब्देन “साधनं कृता” [१।३।२६] इति पसः । श्रतएव निपातनादजेर्विभावाभावः । पदाजिः । पदातिः । पादाभ्यां गच्छति पद्गः । गमेर्डः । पादाभ्यामुपहतः पदोपहतः । पदशब्दः प्रकृत्यन्तरमस्ति तेन सिद्धेऽपि पादशब्दस्यास्मिन् विषये प्रयोगो मा भूदित्येवमर्थम् । ये || ४ | ३ | १६४ ॥ पादं विध्यन्ति पद्याः शर्कराः । “विध्यत्यकरणेन” [३।३।११४] इति यः । तादतु " पाद्याध्ये" [ ४।२।३२ ] इति निपातनमुक्तम् । पादार्थमुदकं पाद्यम् । कथं पादाभ्यां चरति पदिक इति ? “पर्यादी” [३।३।१३३] पादः पदिति पाठाहटा सिद्धम् । पूर्वसूत्रे पादस्येति संबन्धलक्षणा ता । तेन पादशब्दस्य यो यस्तस्मिन् पदित्ययमादेशो भवति । सामर्थ्यात्पादान्तस्य न भवति । द्वाभ्यां पादाभ्यां क्रीतं द्विपायम् । त्रिपाद्यम् । “पणपादमापायः " [ ३ | ४ | ३१ ] इति यः । हिमाहिती ||४|३|१६५ || हिम कापिन् हति इत्येतेषु परतः पादस्य पदित्ययमादेशो भवति । पादस्य हिमं पद्धिमम् । पत्काषी । वाक्सः । पादाभ्यां हृतिः पद्धतिः । "साधनं कृता " [ १३ २६ ] इति सः । रिनि तदन्तविधिरपि । परमपत्काषी । For Private And Personal Use Only ऋचः शे || ४|३|१६६ ॥ ऋचः पादस्य शे परतः पद्भवति । पादं पादं गायत्र्याः शंसति पच्छो गायत्री शंसति । "संख्यैकाद्वीप्सायाम्" [ ४।२।४८ ] इति शस् । ऋच इति किम् ? पादं पादं कार्षापणमस्य ददाति पादश: कारणं ददाति । " त्यात्य सभवे व्यस्य ग्रहणम्" [१०] इति शस एव ग्रहणादिह न भवति । पादशंसी गायत्र्याः ।
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy