SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० ४ पा० ३ सू० ११५-११८ चतुष्पाच्छकुनिष्वपाद्धर्षादौ ॥४।३।११।। अपात्परस्य किरतेश्चतुष्पात्सु शकुनिषु च यो हर्पादिस्तस्मिन् विषये सुड् भवति । दविधिप्रकरणे "किरतेहपजीविकाकुलायकरणे" [१॥२॥३३] इत्यत्र स्थितो हादिगणो गृह्यते । हर्ष-अपस्किरते वृषभो हृष्टः । जीविकायाम्-अपस्किरते कुक्कुरो भक्षार्थी । कुलायकरणेअपस्किरते श्वा श्राश्रयार्थी । चतुष्याच्छकनिष्विति किम् ? अपकिरति देवदत्तो दृष्टः । हर्षादाविति किम् ? अपकिरति धान्यं काकश्चापलेन । कुस्तुम्बुरुगोष्पदास्पदाश्चर्यावस्करापस्करापरस्परविष्किरमस्करमस्करिप्रतिष्कशप्रस्करवहरिश्चन्द्रपारस्करप्रभृतीनि च ॥४३॥११६॥ कुस्तुम्बुरुप्रभृतीनि पारस्करप्रभृतीनि च शब्दरूपाणि निपात्यन्ते । कुस्तुम्बुरुशब्दो जातौ निपात्यते । कुस्तुम्बुरुर्धान्यकं तृण जातिः । तत्फलान्यपि कुस्तुम्बुरूणि । जातेरन्यत्र कुत्सितानि तुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः । गोष्पदशब्दे सुडागमः पत्वं च निपात्यते सेविते। गवां पदमस्मिन् देशे। गावः पद्यन्ते वाऽस्मिन्निति गोष्पदो देशः। गोष्पदमरण्यम् । असेविते नब्यूर्वस्य निपात्यते । न विद्यते गवां पदमभ्याम् अगोष्पदा अरण्यानी । सेवितत्वप्रतिषेधे हि यत्र सेवितत्वसम्भवस्तत्रैव त्यादन्यत्रासम्भवे न स्यादिति पृथगसेवितग्रहणम् । न विद्यतेऽस्मिन्निति विग्रहात् । प्रमाणे गोष्पदमात्र क्षेत्रम् । गोष्यदपूरं वृष्टो देवः । एतेष्विति किम् ? गोपदम् । आस्पदमिति प्रतिष्टायाम् । प्रास्पदमनेन लब्धम् । अन्यत्र आपदापदम् । श्राश्चर्यमित्यद्भुतेऽर्थे । आश्चर्य यदि स भुजीत । आश्चर्यमाकाशेऽनिबन्धनानि नक्षत्राणि न पतन्ति । अाचर्य व्रतमन्यत्र । “चरेराडि चागुरौं” [वा०२।११८७] इति यः । अवस्कर इति वर्चस्के । अवपूर्वास्किरतेः कर्मणि "स्वग्रहवृगमोऽच्" [२।३।५२] इति अच् । कुत्सितं वर्ची वर्चस्कम् अन्नमलम् । तत्सम्बन्धाद्देशोऽपि तथोक्तः । अवकरोऽन्यत्र | अपस्कर इति रथाङ्गे। अपकीर्यतेऽसावित्यपस्करो रथावयवः । अपकर इत्यन्यत्र । अपरम्पर इति क्रियासातत्ये । अपरस्पराः सार्था गच्छन्ति । सततं गच्छन्तीत्यर्थः । अपरे परे चेति द्वन्द्वः । व्यान्तेऽह्मवश्यमोनाशस्तुमः कामे मनस्यपि । हिते तते समो वा खं मांसस्य पचि युड्घजोः ॥ इति समो मकारस्य खे। सतत शब्दास्यणि सातत्यम् । अपरपराः मार्थाः गच्छन्तीत्यन्यत्र । “विष्किर इति शकुनौ सुडागमो वा निपात्यते । विकिरतीति विष्किरः विकिरो वा शकुनिः । “ज्ञाकप्री" [1१1१0८ इत्यादिना कः । सुट पक्षे "सिवुसहसुट्स्तुस्वन्जाम्" [५।४।५२] इति पत्वम् । मस्करमस्करिणौ. वेणुपरिव्राजकयोः । मस्करो वेणुः दण्डो वा हस्तिदमनः । मस्करी भिक्षुः । मकरो ग्राहः मकरी समुद्रः इत्यत्र । अथवा "शमस्य करे शखमाङः करिशब्दे प्रादेशश्च निपात्यते वेणुपरिव्राजकयोः । प्रतिष्कश इति निपात्यते सहायश्चेत् ।" कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचायचि सुडागमः षत्वं च निपात्यते । देशान्तरमहं व्रजामि भवने त्वं प्रतिष्कशः । प्रतिकशोऽन्यः । प्रस्तावहरिश्चन्द्रौ भवत ऋषी चेत । प्रकण्वो देशः। हरिचन्द्रो माणवक इत्यन्यत्र । पारस्करप्रभृतीनां च खौ सुडागमो निपात्यते । पारस्करो देशः । कारस्करो वृक्षः। वनस्पतिश्चैत्ररथं पातीति । रथस्या नदी। किष्कुः प्रमाणम् । किष्किन्धा गुहा । तबृहतोः करपत्योश्चोरदेवतयोः सुट तखं च । तस्करः । बृहस्पतिः । तत्करो बृहत्पतिरित्यन्यत्र । अजस्तुदम् । कात्तीरं च नगरम् । अजनुदम् कातीरमित्यन्यत्र । प्रात्तम्पती गवि कर्तरि । प्रस्तुम्पति गौः । अन्यत्र प्रतुम्पति स्त्री । पारस्करप्रभृतिराकृतिगणः । प्रायाञ्चित्तिचित्तयोः ॥४।३।११७।। प्रायात्परयोः चित्तिचित्तयोः सुड् भवति । प्रायस्य चित्तम् प्रायश्चित्तम् । प्रायश्चित्तिः । “स्तो श्चुना श्चुः" [५।४।११६] इति सुटः श्चुत्वम् । भादाविदमोऽन्वादेशेऽश् ।।४।३।११८॥ भादौ परत ३दमोऽशादेशो भवत्यन्वादेशे । यस्य पूर्व क्रियागणद्रव्यैः संबन्धः कृतस्तस्यैव पश्चाक्रियागुणद्रव्यान्तरेण संबन्धे क्रियमाणेऽन्वादेशोऽनुकथनं भवति । क्रियासंबन्धे इमकाभ्यां छात्राभ्यां रात्रिरुषिता । अथो अाभ्यां हिंसा च कृता । कुत्साऽज्ञातयोः "झिसर्वनाम्नोऽकप्राक्टेः For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy