SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ जैनेन्द्र-व्याकरणम् [अ० ४ पा० ३ सू० १००-१०७ रेरद्धसोः॥४॥३।१००॥ अत इत्यस्यार्थाकान्तता । अतः परस्य रेरुत्वं भवति प्रकारे हसि च परतः । इन्द्रोऽत्र । यशोऽत्र । इन्द्रो भवति । यशो भाति । रेराश्रयासिद्धत्वम् ।"ससजुषो रिः" [५।३१७६] इति रेरनुबन्धकरणादिह सक्तस्य (सकारस्य) रेस्त्वं न भवति । अरिनाशः। सानुबन्धकनिर्देशः किमर्थः ? स्वरत्र । प्रातर्भवति । अद्धसोरिति किम् ? इन्द्र इह । यशः शोभते । अदिति तपरकरणं किम् ? दीपयोः परतो मा भूत् । इन्द्र आयाति । तिष्ठतु पय-या३ स्वदत । "अनृतोऽनन्तस्य" [५।३।१४] इत्यादिना पः। "प्रकृत्याऽचि दिपाः" [३।१०३] इति प्रकृतिवचनं ज्ञापकं सन्धिकायें पः सिद्ध इति प्रग्रहणेनाग्रहणम् । अत इत्येव । मुनिरसौ। अनुवर्तमानस्यातः तपरकरणं किम् ? स्वग्रहणं माभूत् । देवा अत्र । आगच्छ स्थूलशिरा अत्र । गोरिन्द्रेऽवङ् ॥४॥३१०१॥ अचीति वर्तते । गोः इन्द्रस्थेऽचि परतोऽवङादेशो भवति । गवामिन्द्रः गवेन्द्रः । ङित्करणमन्त्यादेशार्थम् । अचीत्वप्राधान्यात्तदादावपि भवति । गवेन्द्रकुलम् । विभाषाऽन्यत्र॥४३१०२॥ इन्द्रशब्दादन्यत्र शब्दे योऽच तस्मिन् विभाषया गोरखङादेशो भवति । गवाग्रम् । गोऽयम् । गवाजिनम् । गोऽजिनम् । विभाषाग्रहणादिह नित्यं भवति । गवाक्षः। प्रकृत्याऽचि दिपाः॥४॥३१०३॥ दिसंज्ञाः पसंज्ञाश्च अचि परतः प्रकृत्या भवन्ति । मुनी इमौ । पट इह । अधीयते अागमम् । अमी अत्र । "ईदूदेदिदिः" [११२०] "मः" [११२१] इति च दिसंज्ञाः । पः खल्वपि देवदत्त ३ अत्र त्वमसि । जिनदत्त ३ इदमानय । पविधिराश्रयात्सिद्धः । नेति कर्तव्ये प्रकृतिग्रहणं कृत्स्नत्य स्वरसन्धेः प्रतिषेधार्थन् । अचीत्यनुवर्तमाने पुनरग्रहणं किम् ? परमचमाश्रित्य यत्कार्य क्रियते तत्र प्रकृतिभावो यथा स्यात् । पूर्वमचमाश्रित्य यत्क्रियते तत्र माभूदित्येवमर्थम् । जानु उ अस्य रुजति | जानू अस्य रुजति | जान्वस्य रुजति । “निरेकाजनाङ" [19२२] इत्युकारस्य दिसंज्ञा । पूर्वेण सह स्वेऽको दीत्वे कृते । एकादेशो दिग्रहणेन गृह्यते । इति यणादेशस्य प्रकृतिभावः प्राप्तः । “मयो वो" [५।४।३५] इति वकारादेशः । विभाषेकोऽस्वे प्रश्च ॥४॥३॥१०४॥ इकोऽत्वेऽचि परतो विभाषया प्रकृत्या भवन्ति प्रादेशश्च प्रकृतिभावे । दधि अत्र । दध्यत्र । कुमारि अत्र । कुमार्यत्र । विभाषाग्रहणं व्यवस्थितविभावार्थम् । तेन दिपानामत्वेऽचि अनेन प्रकृतिभावविकल्पः प्रादेशश्च न भवति । पटू अत्र । देवदत्ता ३ इहान्वमि । सविधौ च न भवति । व्याकरणम् | न्याय्यः । न्यासः । कुमार्यर्थः । अस्व इति किम् ? धीदम् । कुमारीयम् । ऋत्यकः॥४॥३।१०५॥ ऋकारे परतोऽको विभाषया प्रकृत्या भवन्ति पश्च भवति यदा प्रकृतिभावः । खट्व ऋश्यः । खट्वयः। माल ऋश्यः । मालीः। स्वेऽपि भवति । पितृ ऋश्यः । अन्यत्र पूर्वेणैव सिद्धम् । व्यवस्थितविभाषानुवर्तनादिह न भवति उपाध्नोति । प्राध्नोति । मृतीति किम् ? दण्डानम् । मालाग्रम् । तपरकरणं किम् ? देवदत्ताया ऋकारः देवदत्तारः । दीपयोः परतो मा भूत् । घाऽपवदितौ ॥४।३.१०६॥ अपवत्कार्य पसंज्ञकस्य वा भवति इतौ परतः । देवदत्त ३ इति देवदत्तेति । सुमंगल ३ इति सुमङ्गलेति । “दूराद्धृते" [५।३।१२] इति पः । “प्रकृत्याऽचि दिपाः" [।३।१०३] इति नित्यं प्रतिभावः प्राप्तो व्यवस्थितविभाषानुवर्तनाद्वाक्यादवच्छिद्य पदं येन शब्दपदार्थतया स्वरूपे व्यवस्थाप्यते तस्मिन्नितौ विकल्पोऽयम् । क्वचिदनितावपि । वशा३इयम् वशेयम् । वत्करणं पकार्यप्रतिषेधार्थम् । अप इत्युच्यमाने पस्यैव प्रतिषेधः स्यात् । ततश्च अग्नी३इति । वायू ३ इति । अत्र दिसंज्ञाश्रये प्रकृतिभावे सात त्रिमात्रतायाः श्रवणं न स्यात् । पसंज्ञाश्रयकार्यप्रतिषेधे हि दिसंज्ञाऽश्रयकार्यप्रतिषेधे हि प्रकृतिभावे सति “अनतोऽनन्त्यस्य" [५।३।१४] इत्यादिकृतायात्रिमात्रतायाः श्रवणं सिद्धम् । ई इत् ॥४॥३।१०७॥ ईदन्तस्य इद् वा भवति । अनितिपरार्थोऽयमारम्भः । लुनीहि ३इदम् । लुनीहीदम् । पुनीहि ३इदम् । पुनीहीदम् । “क्षि याशीःप्रेषेषु मिडाकांक्षम्" [५।३।१०२] इति पः । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy