SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ४ पा० २ सू० १०१-१११] महावृत्तिसहितम् मृगोत्तरपूर्वात्सक्थ्नः ॥४॥२१०१॥ मृग, उत्तर, पूर्व इत्येतेभ्यः परो यः सक्थिशब्दस्तदन्तात्बाटो भवति । मृगत्य सक्थि मृगसक्थम् । उत्तरसक्थम् । पूर्वसक्थम् । उपमानादिति वर्तते । फलकमिव सक्थि फलकसक्थम् । “विशेषणम्" [३३।५२] इत्यादिना पसः ।। नाचो रात् ॥४।२।१०२॥ नौशब्दान्ताद्राटो भवति । द्वयो वोः समाहारो द्विनावम् । पञ्चनावम् । पञ्चनावप्रियः । द्वाभ्यां नौम्यामागतं द्विनावरूप्यम् । द्विनावमयम् । अहृदुपीत्यनुवर्तते । पञ्चभिनौभिः क्रोतः पञ्चनौः । अाहीयत्य ठण: "रादुबखौ” [३।१२६] इत्युप् । रादिति किम् ? परमनौः । अर्धाच ॥४।२।१०३॥ अचि परो यो नौराब्दस्तदन्तात्याट्टो भवति । श्रद्धं च सा नौश्च अर्द्धनावी । "विशेषणम्" [१॥३॥५२] इत्यादिना सः । लोकाश्रयं नपुंसकलिङ्गमपि दृश्यते । अर्द्धनावमिति । खार्या वा ॥ ४॥२॥१०४॥ खारीशब्दान्ताद्राडो भवति । द्वे खायौं समाहृते द्विखारम् । यदा टो न भवति तदा "प्रो नपि" [90915] इति प्रादेशः । द्विखारि । केचिरपुंलिङ्गं पठन्ति । तेषां "स्त्रीगोर्नीचः" [१।१८] इति प्रादेशे द्विखारिरिति । पञ्चखारप्रियः । पञ्चखाररूप्यम् । पञ्चखारीरूप्यम् । पञ्चखारमयम् । पञ्चखारीमयम् । पञ्चसु खारी भवः पञ्चखारी। टपक्षे की सिद्ध एव । इहार्दादिति वर्तते। अशब्दात्परो यः खारीशब्दस्तदन्ताबाटो भवति । अर्द्धवारम् । अखारी। द्वित्रिभ्यामञ्जलेः ॥४।२।१०५॥ द्वित्रिभ्यां परो योऽञ्जलिशब्दस्तदन्ताहो भवति । द्वथोरञ्जल्योः समाहारो द्वबजलम् । व्यन्जलम् । द्वयजलं वनम् । यजलरूप्यम् । द्वयजलमयम् । केचिद् वेत्यनुवर्तयन्ति । तेन द्वयञ्जलिः । यजलप्रियः । इदाहृदुपीति वर्तते ! हृदुपि न भवति । द्वाभ्यामजलिभ्यां क्रीतो द्वयञ्जलिः । रादित्येव । द्वयोरञ्जलिः द्वयञ्जलिः। __ ब्रह्मणो राष्ट्रेभ्यः ॥धारा१०६॥ राष्ट्रेभ्यः परो यो ब्रह्मन्शब्दत्तदन्तात्बाटो भवति । रादिति निवृत्तम् । अवन्ति ब्रह्मा अपन्तिब्रह्मः । मुराष्ट्र ब्रह्मा मुराष्ट्रब्रह्मः । ईबिति योगविभागात्सः । राष्ट्रेभ्यः किम् ? देवब्रह्मा नारदः। कुमहद्भयां वा ॥१०॥ कुमहद्भ्यां परो यो ब्रह्मस्तदन्तात्याद्वा टो भवति। कुब्रह्मः । कुब्रह्मा । महाब्रह्मः | महाब्रह्मा । द्वन्द्वाच्चुदहषो रार्थ ॥४।२।१०८॥ रार्थः समाहारः। द्वन्द्वाद्रार्थे वर्तमानाच्चवर्गदकारहकारषकारान्ताटो भवति । वाक्च त्वक्च वाक्त्वचम् । श्रीलजम् । वागृपदम् । छनोपानम् । वाग्विधम् । द्वन्द्वादिति किम् ? पञ्चानां त्वां समाहारः पञ्चवक् । चुदय इति किम् ? वाक्तरित् । रार्थ इति किम् ? छत्रोपानही । हे शरदादेः ॥४।२।१०६॥ शरदाद्यन्ताटो भवति हमे। शरदादिषु ये झयन्तास्तेषां “गिरिनदीपौर्णमास्याग्रहायणीझयः" [४२११२] इति वा टः प्रातो नित्यार्थमिदं ग्रहणम् । हाधिकारः प्रागबसाधिकारात् । शरदः समीपमुपशरदम् । प्रतिशरदम् । “लक्षणेनाभिमुख्येऽभिप्रती" [1३।११] इति हसः । शरद् । विपाश् । अनन् । मनम् । उपानह । उपासद् । दिश । दिव । हिरुक् । कियत् । चतुर । हिमवत् । अनडुह । तद् । यद् । जराया जरस् च । दृश् च । प्रतिपरसमनुभ्योऽक्ष्णः । पथिन् । । अनः ॥४ारा११०॥ अन्नन्ताद्धाहो भवति । अध्यात्मम् । प्रत्यात्मम् । उपराजम् । परिराजम् । नपो वा ॥४।२।१११॥ अन इति वर्तते । अन्नन्तं यन्नम् तदन्ताद्धाट्टो भवति । पूर्वेण नित्ये प्राप्त विकल्पोऽयम् । उपचर्मम् । उपचर्म । उपकर्मम् । उपकर्म । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy