SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० ४ पा० । सू० १५१-१४१ अल्पे ॥४॥२१४१|| समन्ततों हीनं महत्प्रतिपक्ष भूतमल्पम् । अल्पत्वविशिष्टेऽर्थे वर्तमानाद यथाविहितं त्यो भवति । सुप इति वर्तते । ड्याम्मृदो झि। सर्वनाम्नो मिङ इति च । अल्पमन्नमन्नकम् । घृतकम् । उच्चकैः । सर्वके । पचतकि । द्रव्यद्वारेण क्रियाया अल्पत्वमहत्त्वे । हस्वे ॥४।१।१४२॥ आयामतो हीन दीर्घप्रतिपक्षभूतम् ( ह्रस्वम ) । ह्रस्वत्वविशिष्टेऽर्थे वर्तमानाद् यथाविहितं त्यो भवति । ह्रस्व पटः पटक । वृक्षकः । उच्चकैः । सर्वके । पचतकि । कुटीशमीशुण्डाभ्यो रः ॥४।१।१४३॥ ह्रस्व इति वर्तते। कुटी शमी शुण्डा इत्येतेभ्यो र इत्ययं त्यो भवति । कस्यापवादः । हवा कुटी कुटीरः । शमोरः । शुण्डारः। लोकाश्रयत्वाल्लिङ्गस्येति पुँल्लिनता। कुत्वा डुपः ॥४।१।१४४॥ कुतूः श्रावपनम् । कुतूशब्दाड्डुप इत्ययं त्यो भवति । कस्यापवादः । ह्रस्वा कुत्ः कुतुपः स्नेहभाजनविशेषश्चर्ममयः । कासूगोणीभ्यां तरट् ॥४।१।१४५॥ कासूः शक्तिः श्रायुधविशेष इत्यर्थः । गोणीत्यावपनमुच्यते । कासूगोणीशब्दाम्यां तरट भवति । कस्यापवादः । ह्रस्वा कासूः कासूतरी । ह्रस्वा गोणी गोणीतरी । वत्सोताश्वर्षभेभ्यस्तनुत्वे ॥४।१।१४६॥ ह्रस्व इति निवृत्तं विशेषणान्तरोपादानात् । वत्स, उक्षन् , अश्व, ऋषभ इत्येते यस्तनुत्वोपाधिकेऽर्थे वर्तमाने यस्तरड भवति स्वार्थे । यस्य गुणस्य भावाद द्रव्ये शब्दविनिवेशस्तस्य तनुत्वे तरट् । तनुर्वत्सो वत्सतरः। उक्षतरः । अश्वतरः । ऋषभतरः । वत्सस्य तनुत्वं यौवनप्रातिः। यौवन उपचीयमाने वत्सत्वं तनुर्भवति । उक्षा तरुण उच्यते तस्य तनुत्वं तस्मात्परस्य वयसः प्राप्तिः। अश्वनाश्वायामुत्पन्नोऽश्वः । तस्य तनुत्वं विजातीयादुत्पत्तिः । ऋषभो भारवहस्तस्य तनुत्व. मसमर्थता। कियत्तदो निर्धारणे द्वयोरेकस्य डतरः ॥४।१।१४७॥ किं यत् तद् इत्येतेभ्यो द्वयोरेकस्य निर्धारणे गम्यमाने डतर इत्ययं त्यो भवति । सामर्थ्यान्निर्धार्यमाणवाचिभ्यः किमादिभ्यस्त्यः। समुदायाजातिगुणक्रियासंज्ञाभिरेकदेशस्य पृथक्करणं निर्धारणम् । को भवतोः कठः । कतरो भवतोः पटुः । कतरो भवतोः कारकः । कतरो भवतोदेवदत्तः। एवं यतरः । ततरः । महाविकल्पाधिकाराद्वाक्यमपि साधु । निर्धारणे इति किम् ? द्वयोमियोः कः स्वामी । द्वयोरेकस्य स्वामित्वे मा भूत् । द्वयोरिति किम् ? यस्मिन् कुले यः प्रधानं च (स) आगच्छत । एकस्येति किम् ! एकग्रहणेऽक्रियमाणे बहुषु एकत्र वा द्वयोर्निर्धारणं सम्भाव्येत । तेनेहापि प्रसज्येत । को भवतां काञ्चीपुरको। को एतस्मिन् ग्राम देवदत्तगुरुदत्ताविति । Pापात वा बहूनां जातिप्रश्ने डतमः ॥४।१।१४८॥ एकस्य निर्धारण इति वर्तते । जातिश्च प्रश्नश्च जातिप्रश्नम् । बहूनामेकस्य निर्धारणे गम्यमाने किमादिभ्यो वा डतम इत्ययं त्यो भवति जातिप्रश्नविषये। किमो जातिविषये प्रश्नविषये च त्यः । इतरेभ्यो जातिविषये । वावचनमुत्सर्गस्याकः प्रापणार्थम् । को भवतां कठः। कतमो भवतां कठः। अकि साकः किमः कादेशे को भवतां कठः । यतमो भवतां कठः। यको भवतां कठः। कतमो भवतां कठः । अत्र वृत्त्यन्तरे पाठः । वा बहूनां परिप्रश्न इति । तेन को भवतां वैयाकरणस्तार्किको नैयायिको वा । कतम इति भवति । बहूनामिति किम् १ द्वयोरेकस्य निर्धारणे जातिप्रश्ने पूर्वेण डतर एव भवति । कतरो भक्तोः कठ इति । जातिप्रश्न इति किम् ? को भवतां देवदत्तः। किमोऽस्मिन् विषये डतरमपीच्छन्ति केचित् । कतरो भवतां कठः। तमो भवतां कलाप इति ।। एकाच ॥४॥२१४९।। एकशब्दाडतरडतमौ यथोपाधिविशिष्टौ भवतः । चकारो डतरानुवर्षणार्थः । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy