SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org म.पा., सू० १२३-१२७] महावृत्तिसहितम् २६१ साधिष्ट जल्पति । अयमनयोः साधीयो जल्पति । यदि वाढशब्दो द्रव्यवचनः साधीयानिति । सर्वाणीमानि अन्तिकानि, इदमेषां नेदिष्ठम् । इदमेनयोर्नेदीयः । इदमस्मान्नेदीयः । तस्तमौ भवत एव । वाढतरम् । वाढतमम् । युवाऽल्पयोः कन्वा ॥४॥१११२३॥ युव अल्प इत्येतयोः कन्नित्ययमादेशो भवति वा शेषयोः परतः । शेषयोर्विधानं पूर्ववद्व्याख्येयम् । सर्व इमे युवानः, अयमेषां कनिष्ठः । कनीयान् । यदा युवशब्दस्य कन्नादेशो न भवति तदा "स्थूल दूरेत्यादिना'' [४।४।१४०] यणः खमिक एप । यविष्ठः । यवीयान् । सर्व इमेऽल्पा श्रयमेषां कनिष्ठः । कनीयान् । अल्पिष्ठः । अल्पीयान् । तरतमौ भवत एव । विन्मतोरुप ॥४।१।१२४|| विन् मतु इत्येतयोरुन्भवति शेषयोः परतः। इदमेव ज्ञापकम् । शेषयोविधानस्य यथासङ्ख्यमत्र नेष्यते । सर्व इमे स्रग्विणः, अयमेषां स्रजिष्ठः । सजीयान् । सव इमे त्वग्वन्तः, अयमेषां त्वचिष्ठः, स्वचीयान् । प्रशंसायां रूपः ॥४।१।१२५॥ ड्याम्मृद इति वर्तते मिङ इति च । प्रशंसायां वर्तमानान्ड्याम्मृदो मिडश्च रूप इत्ययं त्यो भवति प्रशंसायां धोत्यायाम् । स्वार्थिकानां प्रकृत्यर्थविशेषणं द्योत्यं भवति | वाच्यं पुनस्तत्प्रकृतेरेव । वैयाकरणः प्रशस्तः, वैयाकरणरूपः । पटुरूपः। प्रशस्ता कुमारी कुमारिरूपा । "तसादौ" [४/३१३७ इति पुंवद्भावे प्राप्ते "झरूपेत्यादिना" [३।१५५) प्रादेशः। वयोलक्षण्डीविधेः कृतत्वाद्रुपान्ताट्टाप् । कथं निन्दायां प्रयोगः १ वृषलरूपोऽयं यो मांसेन सुरां पिबेत् । चौररूपोऽयं योऽक्षिस्थमजनमपि हरेत् । अत्रापि प्रकृत्यर्थस्य वैस्पष्टयम् । प्रशंसायां मिङः खल्वपि । पचति रूपम् । पचतो रूपम् । पचन्ति रूपम् । लोकाश्रयमिह नपुंसकलिङ्गम् । क्रियाप्रधानमाख्यातम् । एका च क्रियेति रूपान्तादेकवचनमेव भवति । प्रसिद्धो देश्यदेशीयकल्पाः ॥४।१।१२६॥ सिद्धिः परिपूर्णता, न सिद्धि रसिद्धिः । ईषदसिद्धिरासिद्धिः। तद्विशिष्टेऽर्थे वर्तमानान्ड्याम्मृदो मिङन्ताच्च देश्य देशीय कल्प इत्येते त्या भवन्ति स्वार्थे । ईषदसिद्ध ः पतुः, पटुदेश्यः। पटुदेशीयः। पटुकल्पः । स्त्रियां पट्विदेश्या तसादिष्वपरिगणनात् पुंवद्भावो नास्ति । पटुदेशीया। "पुवद्यजातीय" ३१५५] इति पंवदभावः । पटविकल्पा कल्पस्य तस्यातसादित्वात "तसादौ" [१॥३॥१४७] इति पुंवद्भावे प्राप्ते "झरूप" [१।३।१५५] इत्यादिनेकारान्तस्य प्रः। "जात् स्त्रियाम्" श२२] इत्यत्र वक्ष्यते । अतिवर्तते च स्वार्थिकाः प्रकृति लिङ्गसङ्ख्ये इति । तेन गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना । पयस्कल्पा यवागूः । मिङः। ईषदसिद्धं पचति, पचतिदेशीयम् । पचतिकल्पम् । पचतःकल्पम् । पचन्तिकल्पम् । राक्त ॥४२१२७॥ श्रासिद्धाविति वर्तते। ईषदसिद्धिविशिष्टेऽथे वर्तमानान्मदः सुबन्ताद् बहुत्यो वा भवति । स तु प्राग्भवति । विभाषया त्योत्पत्तिर्यथा स्यात् प्राग्भावस्तु नित्यः । इत्यस्य व्यतिरेकस्य दर्शनार्थस्तुशब्दः। ईषदसिद्धं कृतं बहुकृतम् । त्ये कृते मृत्संज्ञायां पुनः सुप् । "कृद्धत्साः" [11] इत्ययं नियमस्तुल्यजातीयस्य सुबन्तसमुदायस्यान्यत्यान्तस्य च मृत्संज्ञां निवर्तयति । तेन बहकृतशब्दात्सुबुत्पत्तिः । एवं बहुपटुः। बहुगुडः। यदा द्राक्षाविशेषणं भवति तदा टाप् । बहुगुडा द्राक्षा'। वाग्रहणं देश्यादिसमावेशार्थम् । अन्यथा मिङन्ते सावकाशान् देश्यादीनयं बाधेत | सुप इति किमर्थ यावता "प्रियकुत्सनादिषु पुनः प्रवर्ततेऽसौ विभक्त्यन्त" इत्युक्त पुनः सुग्रहणं मिनिवृत्त्यर्थम् । परत्वाद्देश्यादिष कृतेषु तमादयः। पटुदेश्यतमः । बहुपटुतमः। ईषदसिद्धेः प्रकर्षों नास्तीति प्रकृत्यर्थप्रकर्षे तमादयः। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy