SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अ० ४ पा० १ सू० १६ - १८ महावृत्तिसहितम् २४७ कालप्रयोजनाद्रोगस्य ||४|१|१६|| तदिति वर्तते खाविति च । तदिति वासमर्थान्मृदः कालप्रयोजनोपाधिकाद् रोगस्येति ताऽर्थे को भवति संज्ञायां गम्यमानायाम् । सततं कालोऽस्य सततकः । द्वितीयं कालोऽस्य द्वितीयको ज्वरः । तृतीयकः । चतुर्थकः । प्रयोजनाद् - विपपुष्पप्रयोजनमस्य विषपुष्पको ज्वरः । काशपुष्पकः । पर्वतकः । काळ निमित्ताद्रोगस्येति च वक्तव्ये प्रयोजनम्र हास्यैतत्प्रयोजनम् । फलेऽपि प्रयोजने यथा स्यात् । उष्ण कार्यमस्य उष्णकः । शीतको ज्वरः । शृङखलकौदरिक सस्यकांशकतन्त्रकब्राह्मण को ष्णिको ध्मक शीत काऽधिकाऽनुकाऽभिकाऽ भीकाऽनुपदि पार्श्वकाय शूलिका दाण्डाजिनिकोत्कश्श्रोत्रियसाक्षीन्द्रियक्षेत्रियाः || ४|१|१७ ॥ शृङ्खलक इत्येवमादयः शब्दा निपात्यन्ते । शृङखलशब्दाद् वासमर्थाद् बन्धनोपाधिकादस्येति ताइë को निपात्यते करभे । शृङ्खलं बन्धनमस्य गोरिति वाक्यमेव भवति । उदरशब्दादीसमर्थात् प्रति इत्यस्मिन्नर्थे ठ निपात्यते श्राथ ने गम्यमाने । श्राधून उदरे अविजिगीषुरुच्यते । उदरे प्रसित श्रौदरिकः । श्राद्यून इत्यर्थः । उक्तं च " मिताशिनं षट् सुगुणा रुजन्ते ( भजन्ते ) धारोग्यमायुश्च वपुर्बलन्च । नाबिन्धास्य भवस्यपत्यं न चनमाद्य नमिति क्षिपन्ति ॥" 1 श्रन्यत्र उदरे प्रसित उदरकः । स्वाङ्गेषु प्रसित इति कः । सस्यशब्दाद् भासमर्थोत्परिजात इस्येतस्मिन्नर्थे कः । सस्येन परिजातः सस्यकः शालिः । सस्यको देशः । सस्यको वत्सः । वैगुण्यरहित इत्यर्थः । सस्यमिव सस्यम्, तेन परिजातः सस्यको मणिः । श्राका (क) शुद्ध इत्यर्थ: । ' "विग्रहे ( अंश) शब्दादप्लमर्थात् हरतीत्यरिमन कः । " अंशं हरति श्रंशको दायादः । " तन्त्रशब्दारकासमर्थादचिरापहृत इत्यस्मिन्नर्थे कः । तन्त्रादचिरापहृतः तन्त्रकः पटः । “ब्राह्मणक उष्णिक इत्येतौ शब्दौ खुविषये कस्यान्तौ निपात्येते ।” ब्राह्मणको देशः । यत्रायुधजीविनो ब्राह्मणास्तस्य देशस्येयं संज्ञा । उष्णाने । उष्णिका श्रपान्ना यवागूरुच्यते । "उष्णशीतशब्दाभ्यां क्रियाविशेषणाभ्यां वासमर्थाभ्यां करोतीत्यस्मिन्नर्थे कः ।" उष्णं करोतीति उष्णुकः । शीघ्रकारीत्यर्थः । शीतं करोति शीतकः । जड इत्यर्थः । "अधिकमित्यन्न अध्यारूढशब्दात्स्वार्थे के खं च निपात्यते ।" "श्लिषशीस्थास" [२|४|५७ ] इत्यादिना यदाऽध्यारूढशब्दः कर्त्तरि व्युत्पाद्यते तदाऽधिको द्रोणः खार्यामित्युदाहरणम् । यदा कर्मणि व्युत्पाद्यते तदा श्रधिका खारी द्रोणेनेत्युदाहरणम् । "अनुक श्रमिक अभी इत्येते शब्दाः कस्यान्ताः कमिता इत्यस्मिन्नर्थे निपात्यन्ते " । श्रनुकामयतेऽनुकः । श्रमिकामयतेऽभिकः । श्रभेर्वा दीत्वं निपात्यते । “अनुपदशब्दादन्वेटर इन्निपात्यते ।” पदस्य पश्चादनुपदम् । (प) श्चादर्थे इसो भावप्रधानः । श्रनुपदमन्वेष्टा अनुपदी गवाम् । “पार्श्वशब्दाद् भासमर्थादन्विच्छ्रतीत्यस्मिन्नर्थे कः ।" अनृजुरुपायः पार्श्व पार्श्वेनान्विच्छति पार्श्वकः । " अयः शूलदण्डाजिन शब्दाभ्यां भासम र्थाभ्यामन्विच्छतीत्यस्मिन्नर्थे ठ ।” तीक्ष्ण उपायोऽयः शूलम् श्रयः शूलेनान्विच्छति श्रयः शूलिकः । दण्डाजिनेनान्विच्छति दाण्ड जिनिकः । दम्भप्रधान इत्यर्थः । "उत्क उन्मनसि को निपात्यते ।” उत्कः प्रवासी । उत्कण्ठित इत्यर्थः । “छन्दः शब्दादिप्स मर्यादधीते इत्येतस्मिन्नर्थे घो निपात्यते प्रकृतेश्व श्रोत्रभावः । " छन्दोऽधीते श्रोत्रियः । मनोज्ञादिपाठा छान्दस इत्यपि भवति । " साक्षात् शब्दाद् द्रष्टरि इन् खुविषये । " साक्षाद्रष्टा साक्षी । दातृप्रतिग्रहीतृभ्यां योऽन्य उपद्रष्टा तस्येयं संज्ञा । " इन्द्रशब्दात्तासमर्थालिङ्ग इत्यस्मिन्नर्थे घः ।" इन्द्रस्य लिङ्गम् इन्द्रियम् । इन्द्र श्रात्मा । अथवा इन्द्रं कर्म । इन्द्रेण जुष्टं सृष्टं दृष्टं दत्तं वा इन्द्रियम् । तान्ताद् वः । “परक्षेत्रशब्दादी समर्थाच्चिकित्स्य इत्यस्मिन्नर्थे ण्यः परशब्दस्य व खम् ।" परक्षेत्रे चिकित्स्यः क्षेत्रियो व्याधिः । परक्षेत्रं जन्मान्तरशरीरमुच्यते । श्रद्धं भुक्त' ठोऽनेन ||४|१|१८|| तदिति वर्तते । श्राद्धशब्दाद् वासमर्थाद् भुक्लोपाधिकादनेनेति For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy