SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थोऽध्यायः तस्य पुरणे डट ॥४॥११॥ सङ्ख्यामा इति वर्तते । पूर्यतेऽनेनेति पूरणः । तस्येति तासमर्थात्सङ्ख्यावाचिनः पूरण इत्येतस्मिन्नर्थे डड. भवति । एकादशानां पूरण एकादशः। द्वादशः। द्वादशी। द्वितीयमपि सङ्ख्याग्रहणमनुवर्तते । तत्सङ्ख्यानप्रधानं सत् त्यार्थविशेषणम् | सङ्ख्याया डड् भवति सङ्ख्यानपूरण इति न सङ्ख्येयपूरणे डट भवति । एकादशानामुष्ट्रिकाणां ( मुष्टिकानां) पूरणो घट इति । ननु नात्र एकादशभ्यः प्रकृत्यर्थभूतेभ्योऽन्यः पूरण इत्यर्थ उपलभ्यते । अतो वृत्तिनं प्राप्नोति । नैष दोषः । समुदायस्य चावयवानां च कथञ्चिद् भेद इति । यथा वृक्षान्त ताऽपि शाखा वृक्षस्येति व्यवह्रियते । उक्तञ्च"बहूनां वाचिका (पाचिका ) सङ्ख्या पूरणं स्वैक इष्यते । अन्यत्वादुभयोवृत्तिवाक्षी शाखानिदर्शनम् ॥ [पा० म०५२।४८] । नोऽसे मट् ॥४।१।२॥ न इति वर्णनिर्देशः । वर्णग्रहणं सर्वत्र तदन्तविधि प्रयोजयति । नकारान्तात्सङ्ख्यावाचिनो मृदो मड्भवत्यसे तस्य पूरण इत्यस्मिन्विषये । डटोऽपवादः । पञ्चानां पूरणः पञ्चमः । सप्तमः । सप्तमी । अस इति किम् ? एकादशानां पूरण एकादशः। षटकतिकतिपयचतुरां थुक् ॥४।१।३।। मूलसूत्रे विहितो यो डट् तस्येहानुवर्तमानस्यार्थवशादीबन्तात्पट कति कतिपय चतुर इत्येतेषां डटि परतस्थुगागमो भवति । इदमेव डटि थुग्वचनं शापकं भवति । कतिपयशब्दादपि डट् । षण्णां पूरणः षष्ठः । कतिथः । कतिपयथः । चतुर्थः । थुग्वचनसामर्थ्याट्टिखं न भवति । पूर्वान्तकरणं पदकार्यनिवृत्यर्थम् । इह कतिपयानां स्त्रीणां पूरणी कतिपयथी। "तस्य हुत्यदे"वा०] इति विषयनिर्देशात्प्रागेव थुकः पुंवद्भावः । “चतुरश्छयावाद्यक्षरशु (स्य ) खं चेति वक्तव्यम्" चतुर्गा पूरणः, तुरीयः, तुर्यः। ___ यापूगगणसञ्जस्य तिथुक ॥३॥१४॥ डाडति वर्तते । बहु पूग गण · व इत्येतेषां डटि परतस्तिथुगागमो भवति । डडि (टि) ति थुग्वचनं ज्ञापकं भवति पुगसङ्घाभ्यां डट । बहूनां पुरणः बहुतिथः । पगतिथः । सङ्घतिथः । गणतिथः । इह बह्वीनां पूरणी बहुतिथी। "तस्य हस्यो" [घा० ] पुंवद्भावे कृते तिथुग्वेदितव्यः । वतोरिथुक् ॥४१॥५॥ डडिति वर्तते । वत्वन्तस्य डटि परत इथुगागमो भवति । "पतोट" [ २०] इत्यत्र वत्वन्तस्य संख्यासंज्ञा प्रतिपादिता । यावतां पूरणः यावतिथः । तावतिथः । एतावतिथ । इयतिथः । कियतिथः। देस्तीयः॥४।१६।। तस्य पूरण इति वर्तते । द्विशब्दात्तीय इत्ययं त्यो भवति । डोऽपवादः । द्वयोः पूरणः द्वितीयः। स्त च ॥४॥णा तस्य पूरण इति वर्तते । त्रिशब्दात्तीयो भवति तु इत्ययं चादेशः । अयमपि डटोऽपवादः । त्रयाणां पूरणः तृतीयः । शतादिमासार्धमाससंवत्सरात्तमट् ॥१॥ शतादिभ्यो मासाधमास सवत्सर इत्येतेभ्यश्च समड् भवति तस्य पूरण इत्यस्मिन्विषये । डयोऽपवादः । शतस्य पूरणः शततमः । सहसतमः । लक्षतमः । "विंशत्यादेवा" [ 10] इत्येषा विभाषा शतात् पूर्वी सङ्ख्यामवगाहते । मासार्धमाससंवत्सराणामसङ्ख्याशब्दत्वात् डटाऽप्राप्ते तमट् । मासस्य पूरणो मासतमो दिवसः। अर्धमास्तमः। संकसरतमः । संवत्सरतमी तिथिः। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy