________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*० ३ पा० ४ सू० १६०-१६७] महावृत्तिसहितम्
२४३ यत्तदेतेभ्यः परिमाणे वतुः ॥श४।१६०॥ तदस्येति वर्तते । यद् तद् एतद् एतेभ्यः परिमाणोपाधिभ्योऽस्येति ताऽर्थे वतुर्भवति । यत्परिमाणमस्य यावान् । तावान् । एतावान् । "आ सर्वनाम्नः" [१३।११७] इति दकारस्यात्वम् । प्रमाणे ग्रहणेऽनुवर्तमाने परिमाणग्रहणं किम् ? प्रमाणे द्वयसडादीनां बाधा मा भूत् । यद्वयसम् । प्रमाणपरिमाणयो दाद्वत्वं तदपि (पत्वन्तादपि ) द्वयसडादयः सिद्धाः। यावन्मात्रम् ।
इदमो वो घः ॥३।४।१६१॥ इदमित्येतस्मादुत्तरस्य वतोर्वकारस्य घकार श्रादेशो भवति । इदमेव ज्ञापकम् । इदमो वतुर्भवतीति | इदम्परिमाणमस्य इयान् । घस्य इयादेशः । "किमिदमोः की ।३।११६] इति इदमः ईशादेशः । “यस्य याञ्च" [११३६] इति खः । त्यमात्रमेवावशिष्टम् । तस्य व्यपदेशिवदभावात् मृत्संज्ञा "परस्यादेः [११] इत्येव सिद्धे व इति स्थानिनिर्देशः किमर्थः १ घस्य त्यान्तरत्वं मा भूत् ।
किमः ॥३।४।१६२॥ किम इत्येतसात्परस्य वतीर्वकारस्य षकार श्रादेशो भवति । अनेनैव वतोविधानम् । किम्परिमाणमस्य कियान् ।
सख्यापरिमाणे डतिश्च ॥३।४।१६३॥ किम इति वर्तते तदस्येति च । परिमितिः परिमाणमा सङ्ख्यायाः परिमाणं परिच्छित्तिः । सङ्ख्यापरिमाणे वर्तमानात् किमो वासमर्थादस्येति ताऽर्थे डती'त्ययं त्यो भवति वतुश्च । वतोर्वकारस्य च घकारादेशः। का संख्या एषां कतीमे पुरुषाः। द्वित्वैकत्वयोः सम्परिप्रश्नस्याभावात । बह्वन्तमेवोदाहरणम् । अथवा परिमीयतेऽनेनेति परिमाणम् , सङ्ख्यैव परिमाणं सङख्यापरिमाणमिति यसः। अस्मिन्पचे परिमाणग्रहणं सङ्ख्याविशेषणं किमर्थम् । तथाहि का संख्या एषाम. किम्परिमाणमेषामिति एक पवार्थः । एवं तर्हि यत्र सङख्याऽक्षेपविषया तत्र मा भूत् । केयमेषां संख्या पञ्चानामिति । परिमाणग्रहणेऽत्र वर्तमाने पुनः परिमाणग्रहणं विस्पष्टार्थम् ।
सख्याया अवयवे तयट् ॥३।४।१६४॥ तदस्येति वर्तते । तदिति वासमर्थायाः सङ्ख्यायाः अवयवोपाधिकाया अस्येति तार्थे तयड् भवति । सामर्थ्यादवयविनि तयड वेदितव्यः। पञ्च अवयवा यस्य पश्चतयो यमः । दशतयो धर्मः । सप्ततयी नयष्टतिः।
उभाखम् ॥३।४।१६५|| उभशब्दादुत्तरस्य तयटः खं भवति । इदमेव ज्ञापकं भवत्युभशब्दात्तयटि । उभाववयवावस्य उभयो मणिः | उभये देवमनुष्याः। उभयशब्दः सर्वादिषु पठ्यते।
द्वित्रिभ्यां वा ॥३।४।१६६।। द्वित्रिभ्यामुत्तरस्य तयटो वा खं भवति । "परस्यादेः" [ 04.1 इति तकारस्य खम् । द्वयम् , द्वितयम् । त्रयम् , त्रितयम् । द्वये, द्वयाः । खेपनेष्याः (त्रये । त्रया:) एकदेशविकृतस्यानन्यत्वात् "प्रथमचरम" [909001] इत्यादिना जसि वा सर्वनामसंज्ञा ।
तदस्मिन्नधिकमिति शदशान्ताः ॥३४।१६७। तदिति वासमर्थात्शद्दशान्तान्मृदोऽधिकोपाधिविशिष्टादस्मिन्नितीवर्थे डो भवति । इतिकरणस्ततश्चेद विवक्षा। सङ्ख्या इति वर्तते । त्रिंशदधिका अस्मिन शते त्रिंशं शतम । चत्वारिंशं शतम् । ननु शदिति त्यग्रहणे "त्यग्रहणे यस्मात्स तदादेग्रहणमित्यन्तप्रहणमनर्थकम् । एवं तन्तिग्रहणसामर्थ्यादेकत्रिंशदादीनामपि सङ्ख्याशब्दानां ग्रहणम् । एकत्रिंशदधिका अस्मिन् शते एकत्रिंशं शतम् । द्वात्रिंशम् । त्रयस्त्रिंशम् । दशार्थ वाऽन्तग्रहणम् । एकादश अधिका अस्मिन् शते एकादशं शतम् । एवं द्वादशम् , त्रयोदशम् । इह कस्मान्न भवति । एकादश माषा अधिका अस्मिन् कार्षापणशते इति १ यजातीयत्यार्थस्तजातीय एव प्रकृत्यर्थे सति
1.विरिति पूछ।
For Private And Personal Use Only