SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ पा० ४ सू० १४८-१५५ ] महावृत्तिसहितम् २४१ घेः शालशङ्कटो ॥३४॥१४॥ प्रादयः पुनरेवमात्मका यत्र क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषमाहः। यत्र न प्रयुज्यते तत्र ससाधनां क्रियामाहुरिति । वेः ससाधनक्रियावचनाच्छालशङ्कट इत्येतौ त्यो भवतः स्वार्थे । विसृषे ( विगते ) शृङ्गे विशाले । विशङ्कटे । तद्योगात्ताच्छब्दो (च्छन्दयम् ) विशालो मौः। विशङ्कटो गौरिति । अथवा विशालादयः परमार्थतो गुणशब्दाः, ते यथाकथञ्चिद् व्युत्पाद्यन्ते । तेन विशालः पटः, विशाल यशः इत्येवमादि सिद्धम् । सम्प्रोदश्च कटः ॥३।४।१४६॥ सम् प्र उद् इत्येतेभ्यो वेश्च कट इत्ययं त्यो भवति । अत्रापि ससाव(ध )नक्रियावचनेभ्यस्त्यो वेदितव्यः। सङकृष्टं सङ्कटम् । प्रकटम् । उत्कटम् । विकटम । विकटदन्तयोगाद् विकटो हस्ती "अलाबूतिलोमाभनाभ्यो रजस्युपसंख्यामम्" [4. ] अलाबूनां रवः अलाबूकटम् । तिलकटम् । उमाकेटम् । भङ्गाकटम् ।) __ कुटारश्चावात् ॥३।४।१५०॥ अवात् ससाव(ध)नक्रियावचनात् कुटार इत्ययं त्यो भवति कटश्च स्वार्थे । अवकृष्टः, अवकुटारः । श्रवकटः । “गोष्टादयस्त्याः स्थानादिषु पशूनामिति वक्तव्यम्' [वा०] गवां स्थानं गोगोष्ठम् । महिषीगोष्ठम् | अजागोष्ठम् | "समूहे कट:" [वा०] अवीनां समूहः, अविकटः । पशुकरः । "विस्तारे पट:" [वा.] अवीनां विस्तारः, अविपटः । “द्वित्वे गोयुगः" [वा०] उष्ट्रगोयुगम् । अश्वगोयुगम् । महिषगोयुगम् । "प्रकृत्यर्थस्य षटत्वे षड्गवः" [वा० ] हस्तिनां षट्त्वं हस्तिषड्गवम् । "संस्कृते शुक्ष्यः" [वा० ] पिठरे संस्कृतं पिठरशूल्यम् । “विकारे स्नेहे तैल':' [वा०] इनुदीनां स्नेहः इङगुदीतैलम् । "प्ररोहणे झाकटशाकिनो” [ वा० ] इक्षणां प्ररोहणं क्षेत्रम्, इक्षुशाकटम् । मूलशाकरम् । इत्तुशाकिनम् । मूलशाकिनम् । नते नासिकायाः खौ टीटनाटभ्रटाः ॥३॥४॥१५॥ अवादिति वर्तते । नमनं नतम् । नासिका नतवाचिनोऽवशब्दाधीट नाट भ्रट इत्येते त्याः स्वार्थ भवन्ति खुविषये। नासिकाया इति सम्बन्धसामान्ये ता। तत्र यदा नासिकायाः कर्तृत्वविवक्षा, तदा सामानाधिकरण्येन विग्रहः। अवनता नासिका अवटीटा। अवनाटा । अवघंटा । यदा सम्बन्धित्वविवक्षा तदा वैयधिकरण्येन, नासिकाया अवनतम, श्रवटीटम् । अवनाटम् । अवभ्रटम् । एवमुत्तरत्रापि विग्रहद्वयं ज्ञातव्यम् । तद्योगात्पुरुषेऽपि तथोच्यते । अवटीटः नेबिडबिरीसौ ॥२४१५२॥ नते नासिकायाः खाविति वर्तते । निशब्दान्नासिकानतार्थवचनाद बिड बिरीस इत्येतो त्यौ भवतः। निनता नासिका निबिडा। निबिरीसा। निबिडम् निबिरीसमिति वा । तद्योगात्पुरुषोऽपि निबिडः । निबिरीसः । कथं निबिडं वस्त्रं निरिडाः केशा इति । उपमानात्सिद्धम् । केनौ वि(चिक ॥३।४।१५३॥ नते नासिकायाः खाविति वर्तते निरिति च । नासिकानतार्थवाचिनो नेः क इन इत्येतौ त्यो भवतः वि(चि)क इत्ययञ्चादेशः प्रकृतेः। निनता नासिका विचि)का । वि(चि) किना । तद्योगाद् वि(चि)क्को देवदत्तः । वि(चि)किनः । पिटे चिः ॥३।४।१५४॥ नासिकानतार्थवाचिनो ने पिटे त्ये परतश्चिरित्ययमादेशो भवति । अनेनैव पिटस्य विधानम् । निनता नासिका चिपिय । तद्योगाञ्चिपिटो देवदत्तः । “क्लिनस्य चिपिली लरक्षक्षुषीति वक्तव्यम्" [वा] क्लिन्नं चक्षुः चिल्लम् , पिल्लम् । तद्योगादेवदत्तोऽपि चिल्लः । “चुनादेशश्च वकन्यः" [वा० ] क्लिन्नं चक्षुः चुल्लम् । तद्योगाद्देवदत्तोऽपि चुल्लः । उपत्यकाऽधित्यके ॥२४।१५५।। उपत्यका अधित्यका इत्येतौ शब्दौ निपात्येते । उपशब्दात्पर्यतासन्ने देशे वर्तमानात्स्वार्थे त्यक इत्ययं त्यो निपात्यते इत्वाभावश्च स्त्रीलिङ्गे खुविषये । पर्वतमुपासन्नो देश ३१ For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy