SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ जैनेन्द्र-व्याकरणम् [अ०३ पा०४ सू० १२.३४ किम् ? रोहणमित्युच्यमाने मुद्गानां रोहणः कुशूल इत्यत्रापि प्राप्नोति । प्रग्रहणे पुनः सति प्रकर्षेण रोहत्यसिन् प्ररोहणं केदारादि क्षेत्रमित्युक्तं भवति । ब्रीहिशाले.॥३॥४।१२८॥ नीहिशालिशब्दाभ्यां तासमर्थाभ्यां प्ररोहणेऽर्थे ढञ् भवति । खोऽपवादः । ब्रोहीणां प्ररोहणं क्षेत्रं हेयम् । शालेयम् । यवयवकषष्टिकाधः ॥३।४।१२६॥ यवादिभ्यतासमर्थेभ्यः प्ररोहणेऽर्थे खा भवति यश्च । उमाभङ्गयोरघान्यत्वेऽपि वचनाद्भवति । धान्यानि लोके प्रसिद्धानि मुद्गादीनि । “यवाश्च मे तिलाच' इत्यादी पठितानीत्यपरे । तिलानां प्ररोहणं तैलीनम , तिल्यम् । माषीणम् । माष्यम् । श्रीमीनम्, उम्यम् । भाङ्गीनम, भङ्गयम् । प्राणवीनम, अणव्यम् । सर्वचर्मणः कृतः खश्च ॥३।४।१३०॥ कृतशब्दः कर्मणि । तदपेक्षया तासमर्था प्रकृतिः। सर्वचर्मशब्दात् कृत इत्यस्मिन्नर्थे खो भवति खञ् च । सर्वचर्मणा कृतः सर्वचक्षणः, सार्वचर्मीणः । यद्येवं सर्वशब्दस्य कृत इति त्याथमपेक्षमाणस्य चर्मणा सह सो न प्राप्नोति । अतएव निपातनाद् भवति । यथामख सम्मुखत्य दर्शनः खः ॥३।४।१३१॥ दृश्यतेऽस्मिन्निति दर्शनो दर्पणादिः। यथामखसम्मुखशब्दाभ्यां तासमथोभ्यां दर्शन इत्यस्मिन्नर्थ खो भवति । मुखस्य सदृशोऽर्थो यथामखम् । प्रतएव निपातनात् "असादृश्ये' [ ॥३॥६] इति हसप्रतिषेधो न भवति । समं मुखमस्य प्रतिबिम्बस्य सम्मुखम् । समं वा मुखम्, सम्मुखम् । निपातनात्समशब्दान्तखम्। यथामुखं दर्शनः, यथामुखीनः । सम्मुखस्य दर्शनः सम्मुखीनः । कर्मणि ता। पथ्यकर्मपत्रपात्रमाप्नोति सर्वाः ॥३।४।१३२॥ निर्देशात्समर्थविभक्त्युपादानम्। पथिन् अङ्ग कर्मन् पत्र पात्र इत्येवमन्तात् सर्वशब्दादेर्मूद इप्समर्थादाप्नोतीत्यस्मिन्नर्थे खो भवति । सर्वपथानाप्नोति सर्वपयीनमुदकम् । सान्तस्तग्रहणेन गृह्यते । सर्वाङ्गीणः परः । सर्वकर्मीणः पुरुषः । सर्वपत्रीणः सारथिः । सर्वपात्रीण अोदनः । सर्वादेरिति किम् १ पन्थानमाप्नोति । श्राप्रपदम ॥३॥४॥१३३॥ प्राप्रपदशब्दादाप्नोतीत्यस्मिन्नर्थे सो भवति । प्रवद्ध पट | पदस्योपरि गुल्फः, पदाग्रं वा । श्रा प्रपदादाप्रपदम् । “पर्यपाड्बहिरचयः कया" [ १०] इति इसः । क्रियाविशेषणमिदं वान्तम् । ततो वचनात्यः । श्राप्रपदमाप्नोति प्राप्रपदीनः कम्बलः। सर्वानीनानुपदीनायानयोनागवीनाद्यश्वीनाः ॥३॥४।१३४॥ सर्वान्नोन, अनुपदीन, अयानयीन श्रावोन, अद्यश्वीन इत्येते शब्दा निपात्यन्ते। सर्वानशब्दादिबन्ताद् भक्षयतीत्यस्मिन्नर्थे खो निपास्यते । सर्वान्नानि भक्षयति सर्वान्नीनो मितुः। पदसदृशमनुपदम् , यथार्थे हसः। अनुपद शब्दाद् वान्तादपद्धेश्यस्मिन्नर्थ खः । अनुपदं बद्धा अनुपदीना उपानत् । पदप्रमाणेत्यर्थः। अयः प्रदक्षिणम्, अनयः प्रसव्यम् । प्रदक्षिणसप्रसव्यमागामिना यस्मिन् परैः पदानामसमावेशः सोऽयानयः । अयादप्रवृत्तोऽनया, अयानयः । मयूरध्यसकादित्वात् [ ॥३६६ ] सविधिः । अयानयशब्दादिचन्ताद् नेय इत्यस्मिन्नर्थे खः। भयानयं नेयः शारोऽयानयीनः। स्वस्यां दिशि फलकशिरोगत इत्यर्थः। गोरापृादागोः प्रतिदानारकर्म करोतीत्यस्मिन्नर्थ खः । श्रागवीनः कर्मकरः। यो गवां भूतः कर्म करोति या तस्य गोः प्रत्यर्पणास एवमुच्यते । अयश्वःशब्दादासन्ने विजनने खो निपात्यते। अद्य श्वो वा विजनिष्यते अद्यश्वीना गौः। अद्यश्वीना वडवा । केचिद् विजनन इति विशेषणं नेच्छन्ति । आसन्नमात्रे निपातयन्ति । अद्यश्वीनो वियोगः। अद्यश्वीनं मरणम्। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy