SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्र० ३ पा० ४ सू० ५३०५८ ] महावृत्तिसहितम् २२७ राष्ट् च ||३|४|५३|| ढकाचितपात्रान्तात् गत् इप्समर्थात्सम्भवत्यादिष्वर्थेषु ठट् भवति खश्व वा । तेन त्रैरूप्यं भवति । द्वे ग्राहके सम्भवति श्रवहरति पचति वा द्वयाढकिकी । द्वयादकीना । श्राभ्यां मुक्ते तस्य " राखौ " [ ३।४१२६ ] इत्युप् । व्याढकी । “परिमाणादृष्टदृषि" [३ | ११३६ ] इति ङीविधिः । टट्खयोर्वचनादवम् ( दुम्न ) भवति । द्वयाचितीना, द्वयाचिता । "न विस्ताचितकम्बल्यात् " [३।१।२७] इति ङीप्रतिषेधः । द्विपात्रिको । द्विपात्रीणा । द्विपात्री । कुलिजाच्च ||३|४|१४|| चकारस्त्रिका अनुकर्षणार्थः । रादिति वर्तते । कुलिजशब्दान्तात् रात् इप्सम - र्थात् सम्भवत्यादिष्वर्थेषु भवति खश्व वा । तेन त्रैरूप्यम् । कुलिजं परिमाणविशेषः । द्वे कुलिजे सम्भवत्यवहरति पचति वा द्विकुलिजिकी, द्विकुलिजीना, द्विकुलिनी । केचिदुपोऽपि विकल्पमिच्छन्ति । पक्षे टणः श्रवणम् । द्वैकुलिजिकीति । त एव " अशा " [ ५/१/२२] इत्यत्र कुलिजस्यापि प्रतिषेधमिच्छन्ति । तदस्यांशवस्नभृतयः ||३|४|५५|| तदिति वासमर्थात् श्रस्येति तार्थे यथाविहितं त्यो भवति यत्तद्वासमर्थम् श्रंशवस्नभृतयश्चेत्तद् भवन्ति । पञ्च श्रंशा वा वस्नो वा भृतिर्वाऽस्य, पञ्चकः । सप्तकः । शतिकः, शत्यः । साहस्रः । खारीकः । परिमाणत्सङ्ख्यायाः सङ्घसूत्राऽध्ययने ||३||४|५६ || तदस्येति वर्तते । परिमीयते परिच्छिद्यतेऽनेन परिमाणम् । परिच्छेदकमिह तत् पारिभाषिकम् । तदिति वासमर्थात् संख्यावाचिनः परिमाणे वाधिकादस्येति तार्थे यथाविहितं त्यो भवति । यत्तदस्येति सङ्घसूत्राऽध्ययनानि चेद् भवन्ति । सङ्घे पञ्च परिमा णमस्य सङ्चस्य पञ्चकः । सप्तकः । सूत्रे ग्रन्थ इत्यर्थः । पञ्चाऽध्यायाः परिमाणमस्य पञ्चकं जैनेन्द्रम् । श्रष्टकं पाणिनीयम् । शतकं स्तोत्रम् । श्रधीतिरध्ययनं तस्मिन् । पञ्च रूपाण्यस्याध्ययनस्य पञ्चकम् । सप्तकम् । कर्मणि यद्यध्ययन शब्दो व्युत्पाद्येत सूत्रान्न भेदः स्यात् । "स्वोमे दो वक्तव्यः " [ वा० ] पञ्चदशाद्यर्थः पञ्चदश मन्त्राः परिमाणमस्य स्तोमस्य पञ्चदशः स्तोमः । एवं सप्तदशः। एकविंशः । परिमाणादिति योगविभागः कर्तव्यः । तदस्येति वर्तते । पञ्चकलापः परिमाणमस्य पञ्चकला पिकम् । पाञ्चलोहितिकम् । प्रस्थः परिमाणमस्य प्रास्थिको राशिः । कौतिकः । खारीशतिकः । वर्षशतं परिमाणमस्य वार्षशतिकः । "जीवित परिणाम इति च वक्तव्यम्" [ वा० ] षष्टिः संवत्सरा जीवितपरिमाणमस्थ, षाष्टिकः । साप्ततिकः । श्राशीतिकः । नेदं वक्तव्यम् । “ तमवी ( घी ) ष्टो भू ( भृ, तो भूतो भावी ” [ ३।४।७६ ] इत्येव सिद्धम् । षष्टिं भूतो (तः ) पाष्टिकः । एवञ्चानुवपि सिद्धः । द्वे षष्टी भूतो द्विषाष्टिकः । इह विधानो ( ने ) "शदुबस्तौ” [ ३३४॥२६ ] इत्युपू प्रसज्येत । खौ ||३|४|५७ || खुविषये च परिमाणविशिष्टायाः संख्याया यथाविहितं त्यो भवति । विंशतिः परिमाणमस्य विंशतिकं परिमाणनामधेयम् । स्वार्थे चाऽत्र त्यो द्रष्टव्यः । पञ्चैव पञ्चकाः शकुनयः । त्रय एव त्रिका: सा ( शा ) लङ्कायनाः । पक्तिविशत्त्रिशच्चत्वारिंशत्पञ्चाशत् षष्टिसप्तत्यशीतिनवतिशतम् ||३|४|५८ ॥ पङ्क्त्यादयः शब्दा निपात्यन्ते । यदत्र लक्षणेनानुपपन्नं तत्सर्वे निपातनात्सिद्धम् । तदस्य परिमाणमिति वर्तते । पञ्चपादा. परिमाणमस्य पङ्क्तिस्तच्छब्दः क्रमसन्निवेशोऽपि । पञ्चशब्दात्तिरित्ययं व्यष्टिखं च निपात्यते । द्वौ दश तौ परिमाणमस्य वर्गस्य विंशतिः । द्वविभावः शतिश्च त्यः । त्रिचतुःपञ्चानाम् इमारिमाश्रान्तादेशाः शच्च त्यः । त्रयो दशतः परिमाणमस्य वर्गस्य त्रिंशत् । चत्वारो दशतः परिमाणमस्य चलारिंशत् । पञ्च दशतः परिमाणमस्य पञ्चाशत् । षड्दशतः परिमाणमस्य षष्टिः । षषस्तिरित्ययं त्योऽपदत्वं च । सप्त दशतः परिमाणमस्य सप्ततिः । ससनस्तिरित्ययं त्यः । अष्टौ दशतः परिमाणमस्य श्रशीतिः । अष्टमः अशीभावः विश्व For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy