SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ. ३ पा० ४ सू० ८-१२] महात्तिसहितम् २२१ तासाद ( ब ) साच्च छ एव भवति । विश्वजनीयम् । “पञ्चजनशब्दादुपसंख्यानम्" [वा.] पञ्चजनीनम् । अत्र "दिक्संख्यं खो" [११३१४५] इत्यनेन विहितात्समानाधिकरणाद् बसादेवेष्यते । पञ्चजनीयमन्यत् । 'सर्वजनाट्टण खश्च वक्तव्यः" [बा.] सार्वजनिकः । सर्वजनीनः । अत्रापि यहादेवेष्यते । सर्वजनीयमन्यत् । “महाजनाहज्वक्तव्यः" [वा०] महाजनिकम् । षसादयं विधिः । बसाच्छ एव भवति । महाजनीयम् । ईनादेशे कृते "नोऽपुंसो हृति" [४|१३० ] इति टिखं प्राप्तम् , सूत्रे नकारान्तनिपातनान्न भवति । भोगः शरीरम् । तदंसा( दन्तात् मातृभोगीणः। पितृभोगिणः। मात्रादिभ्यः केवले यश्छ एव भवति । मात्रीयः। पित्रीयः। "राजाऽचार्याभ्यां भोगान्ताभ्यां नित्यमिति वक्तव्यम्' [वा०] राजभोगीनम् । प्राचार्यभोगीनम् । आर्यभोगान् ( गीन) शब्दस्य "क्षुम्नादित्वात्" [११५१७ ] णत्वं ( न ) भवति । नित्यग्रहणं किम् ? केवलाभ्यां न भवति । राज्ञे हितम् । प्राचार्याय हितमिति । सर्वाण्णो वा ॥ ३८॥ तस्मै हितमिति वर्तते । सर्वशब्दाद् वा णो भवति पक्षे छो भवति । सर्वस्मै हितम् , सार्वम् । सर्वीयम् । पुरुषाढण् ॥३।४।९॥ पुरुषशब्दाड्डण भवति तस्मै हितमित्यस्मिन्विषये। छस्याऽपवादः । पुरुषाय हितं पौरुषेयम् । अल्प ( त्य) ल्पमिदम् । "पुरुषाद् वधविकारसमूहतेनकृतेष्विति वक्तव्यम्"। पौरुषेयो वधः । "तस्येदम्" [३३८] इत्यण प्राप्तः । पौरुषेयो विकारः। "प्राणिवालादेः" [ ३।३।३०५ ] इत्यण प्राप्तः । पौरुषेयं स्यमागतं ( यः समूहः ) "तस्त्र समूहः" इत्यण प्राप्तः । पौरुषेयः प्रासादः । पौरुषेयो ग्रन्थः । तेन कृते "नि ग्रन्थे ( कृते अन्थे ) [२३५] "खौ” [ ३।२६] हत्यण प्राप्तः। मारणवचरकात्खा ॥३॥४.१०॥ तस्मै हितमिति वर्तते। माणव-चरक-शब्दाभ्यां खज भवति । छस्याऽपवादः । माणवाय हितं माणवीनम् । चारकीणम् । तदर्थ विकृतेः प्रकृती ॥३।४११॥ हितमिति निवृत्तम् । तस्मै इति वर्तते । तस्मै इदं तदर्थ समानजातीयमभिन्नसन्तानवर्ति कारणम् , प्रकृतिः। तस्या एवाऽवस्थान्तरं विकृतिः । तदर्थमित्येतत्प्रकृतेर्विशेषणम् । तदर्थायां प्रकृताविति । यद्येवं स्त्रीलिङ्गमीप च प्राप्नोति । "सूत्रेऽस्मिन् सुविधिरिष्टः" [५।२१११४] इने पा ( इतीपो) वाया एकेन च निर्देशः। विकृतिवाचिोऽबन्तान्मृदस्तदायां प्रकृतावनि भि)धेयायां यथाविहितं त्यो भवति । विकृत्यर्थायां प्रकृती त्यो भवतीत्यर्थः । अङ्गारेभ्यः, अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः। शङ्कव्यं दारू । पिचव्यः कर्पासः। अपूप्याः। श्रपूपीयास्तन्दुलाः। विग्रहे तादयलक्षणाऽप् द्रष्टव्या। तदर्थमिति किम् ? मूत्राय यवागूः। उच्चाराय यवान्नम् । पादरोगाय नड़व. लोदकं कल्पते । योग्यतामात्रेण विकृतिप्रकृत्यभिसम्बन्धो मा भूत् । अत्र केचित्तस्मै ग्रहणं नानुवर्त्तयन्ति । तादयं तयाऽपि व्यज्यते । यथा गुरोरिदम् , गुर्वर्थम् इति । विकृतिवाचिनस्तान्तात्तदर्थायां प्रकृतावभिधेयायां त्यमुत्पादयति । एवमङ्गाराणामिमानि अङ्गारानि काष्ठानि, अङ्गारीयाणि । तदर्थमिति किम् ? यवानां धानाः धानानां शक्लवः। नात्र प्रकृतेरनन्यार्थया गम्यते। अपि तु प्रकृत्यन्तरनिवृत्तिमात्रम् । नान्येषां धाना नान्येषां शक्लवः । अत एव विकारप्रकृतिसम्बन्धमात्रेऽपि त्यो न भवति । धानानां यवाः, शक्तूनां धानाः इति । विकृतैरिति किम् ? उदकार्थः कूपः। नात्र पार्थिवस्य कूपस्य विकृतिरुदकम् । प्रकृताविति किम् ? अस्या कोशी । असिरयसो विकृतिर्भवति । तन्न कोशी तस्य प्रकृतिः।। छदिरूपधिवलेढा. ॥१४॥१२॥ तदर्थ विकृतेः प्रकृताविति वर्तते । छदिस् उपधि वलि इत्ये. तेभ्यो ढम् भवति । छदिरानि छादिषेयाणि तृणानि । इह छदिरथ चर्मेति परत्वात् "धर्मणोऽ" For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy