SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ३ पा० ३ सू० १६८-२०८ जैनेन्द्र-व्याकरणम् २१९ विषेण वध्यः, विष्यः । वध इति प्रकृत्यन्तरम् । वधमर्हति वध्यः । सीतया समितं सङ्गतं सीत्यं क्षेत्रम् | " रथसीताहलेभ्यो यविधौ तदन्तविधिरपीष्यते" [वा०] परमसीत्यम् । द्विसीत्यम् । धर्मपथ्यर्थ न्यायादनपेते || ३ | ३|१६८ || निर्देशादेव समर्थविभक्त्युपादानम् । धर्म पथिन् अर्थ न्याय इत्येतेभ्यः कासमर्थेभ्योऽनपेतेऽर्थे यो भवति । धर्मादनपेतं धर्म्यम् । पथ्यम् | अर्थ्यम् । न्याय्यम् | छन्द निर्मिते || ३ | ३|१६६॥ छन्द इच्छा । निर्मितमुत्पादितम् । निर्देशादेव भासमर्थाच्छन्दः शब्दात् निर्मितेऽर्थे यो भवति । छन्दसा निर्मितः, छन्दस्यः । उरसाऽः च ||३|३|२००|| निर्देशाद् भाया उपादानम् । उरः शब्दाद् भासमर्थान्निर्मितेऽर्थेऽण् भवति यश्च । उरसा निर्मितः, श्रौरसः । उरस्यः । मदजनहलात्करणजल्पकर्षेषु ||३|३|२०१ ॥ मद जन हल इत्येतेभ्यो यथासंख्यं करण जल्प कर्ष इत्येतेष्वर्थेषु यो भवति । करणादयः शब्दा भावे करणे वा व्युत्पादयितव्याः । तेन सामर्थ्यात्त्योत्पत्तिः । मदकस्य करणं मद्यम् । मदस्थाने केचिन्मतशब्दं पठन्ति तेषां मत्यमिति भवति । जनस्य जल्पः जन्यः । हलस्य कर्षः, इल्यः । द्विहल्यः । परमहल्यः । तत्र साधुः ||३|३|२०२॥ तत्रेतीसमर्थात्साधुरित्येतस्मिन्नर्थे यो भवति । सामनि साधुः, सामन्यः । कर्मण्यः । सभ्यः । शरण्यः । साधुरिह योग्यो निपुणो वा न तु हितः, तत्र हि प्राक्ठणीय एव त्यः । प्रतिजनादेः खम ||३|३|२०३|| तंत्र साधुरिह वर्तते । प्रतिजन इत्येवमादिभ्यः खञ भवति । यस्याऽपवादः । जनं जनं प्रति प्रतिजनम् । यथार्थे हसः । प्रतिजने साधुः प्रातिजनीनः । प्रतिजन । इदंयुग । संयुग । परयुग । परकुल । परस्यकुल । अमुष्यकुल । निपातनात्ताया अनुप् । सर्वजन । विश्वजन । पञ्चञ्चन । महाजन । योऽत्र हितार्थः साध्वर्थः, तत्र वचनात्प्राकूठणीयस्य बाधा । भक्ताण्णः ||३|३|२०४ || तत्र साधुरिह वर्तते । भक्तशब्दाणो भवति । यस्याऽपवादः । भक्ते साधुर्भाक्तस्तदुलः । परिषदो रयः || ३ | ३|२०५|| तत्र साधुरिति वर्तते । परिषच्छन्दा एण्यो भवति । यस्याऽपवादः । परिषदि साधुः पारिषद्यः । गोऽप्यत्राऽनुवृत्तिरिष्यते । परिषदि साधुः पारिषदः । कथादेष्टन् || ३ | ३| २०६ ॥ तत्र साधुरिति वर्तते । कथा इत्येवमादिभ्यष्ठय् भवति । यस्याऽपवादः । कथायां साधुः, काथिकः । कथा | विकथा । विश्वकथा | संकथा । वितन्द्रा । कुष्टिदा ( कुष्टचित् ) । जनवाद | जनेवाद | चित्रवृत्ति । सङग्रह । गण । गुण । श्रायुर्वेद । गुड । कुल्यास ( कुल्माष ) । सक्तु । पूप | मांसौदन | इक्षु | वेणु । संग्राम | संघात | प्रवास | निवास । उपवास । पथ्यतिथिवसतिस्वपतेर्ढन् ॥३ | ३|२०७ ॥ तत्र साधुरिति वर्तते । पथ्यादिभ्यो ढञ् भवति । यस्यापवादः । पथि साधु पाथेयम् । श्रातिथेयम् । वासतेयम् । स्वापतेयम् । समानोदरे शयितः ||३|३|२०८ ॥ तत्रेति वर्तते । निर्देशाद् वा ( ईप्समर्थात् ) समानोदरशब्दात् शयित इत्यस्मिन्नर्थे यो भवति । समानोदर्यः । सोन्दर्यः । "वोदयें " [ ४ | ३ | १३४ ] इति समानस्य सादेशः । कथं तर्हि सोदरशब्दस्य सिद्धि: ! " समानस्य'' [ ४ | ३|१३२ ] इति योगविभागात् । इत्यभयनन्दिविरचितायां जैनेन्द्र महावृत्ती तृतीयस्याऽध्यायस्य तृतीयः पादः समाप्तः । १ - रिह व प्र० पू० For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy