________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३ पा० ३ सू० १८१-१६१] महावृत्तिसहितम्
२१७ कर्माध्ययने वृत्तम् ॥३।३।१८।। तदस्येति वर्तते । तदिति वासमर्थादस्येति तार्थे ठण भवति यत्तद् वासमर्थ कर्भ चेद्वृत्तमध्ययनविषयं तद्भवति । एकमन्यदध्ययने कर्म वृत्तमस्य, ऐकान्यिकः। किम्पुनस्तदेकमन्यदध्ययने कर्म ? अपपाटः । एवं द्वैयन्यिकः । त्रैयन्यिकः । सर्वत्र हृदर्थे रसः । ततष्ठण ।
खबजादेष्टः ॥३॥३।१८२॥ बह्वच पदमादिर्यस्य तस्मान्मृदष्ठो भवति । ठणोऽपवादः । तदस्य कर्माध्ययने वृत्तमिति वर्तते । द्वादश अन्यानि अपपाठलक्षणानि अध्ययने कर्माणि दत्तान्यस्य, द्वादशान्यिकः।
हितमस्मै भक्ष्यः (क्षाः ॥३।३।१८३॥ तदिति वर्तते । तदिति वासमदस्मै इत्येतदर्थे ठण् भवति यत्तद् वासमर्थ हितं भक्षाश्चेत्तद् भवन्ति । अप्पभक्षणं हितमस्मै, आपूपिकः । शाकुलिकः । इदमेव ज्ञापकं हितयोगेऽप् भवति ।
तद्दीयते नियुक्तम् ।।३।३।१८४॥ अस्मै इति वर्तते । तदिति वासमर्थादस्मै इत्यस्मिन्नर्थे ठण भवति यत्तद् वासमर्थ तच्चेद्दीयते । नियुक्त नियमेन युक्तं नियुक्तमित्थः। अग्रभोजनमस्मै दीयते नियुक्तम् , अाग्रभोजनिकः । श्रापृपिकः । श्राणाऽस्मै दीयते नियुक्तम् , भाणिकः । शाणो( को दनिकः । "मोदनशब्दाद् वक्तव्यः" [वा. ] श्रोदनिकः । श्रोदनिकी ।
भक्ताद् वाऽण ॥३॥३॥१८५॥ तदस्मै दीयते नियुक्तमिति वर्तते । भक्तशब्दान् वाऽण भवति । पक्षे ठण् भवति । भक्तमस्मै दीयते नियुक्तम्, भाक्तः । माक्तिकः ।
तत्र नियुक्तः ॥३।३।१८६॥ अधिकृतो नियुक्तः । तत्रेतीप्समर्थाद् नियुक्त इत्यस्मिन्नर्थे ठण भवति । शुल्कशालायां नियुक्तः, शोल्कशालिकः । श्राक्षपटलिकः । दौवारिकः ।
ठोऽगारान्तात् ॥३॥३१८७॥ तत्र नियुक्त इति वर्तते। अगारान्तान्मृदष्ठो भवति । ठणोऽ पवादः । भाण्डागारे नियुक्तः, भाण्डागारिकः । कोष्ठागारे नियुक्तः, कोष्ठागारिकः ।
अध्यायिन्यदेशकालात् ॥३३॥१८८॥ अध्येतुं शीलमस्येति, अध्यायी। ईप्समर्थाद्देशवाचिनोऽकालवाचिनश्च मृदोऽध्यायिन्यभिधेये ठण भवति । अध्यायिनीत्युक्तम्, तत्सम्बन्धात् अध्ययनस्य देशकालो पर्युदस्यते । अशुचावधीते, आशुचिकः । सान्ध्यावेलिकः । अानध्यायिकः । अदेशकालाविति किम् ? चैत्यालयेऽधीते । पूर्वाह्नऽधीते ।
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥३॥३॥१८६॥ व्यवहरति, अनुतिष्ठति । तत्रेत्यनुवृत्तेनिर्देशाद् वासमथविभक्त्युपादानम् । कठिनशब्दान्तान्मृदः प्रस्तार-संस्थानशब्दाभ्यां च व्यवहरतीत्यस्मिन्नर्थ ठण भवति । वंशकठिने व्यवहरति, वांशकठिनिकः । पार्द्धकठिनिकः । प्रास्तारिकः । सांस्थानिकः। अन्तग्रहणं मध्ये कृतमपि केचिदुत्तरयोः सम्बध्नन्ति ।
निकटावसथे वसति ॥३।३।१६०॥ तत्रेति वर्तते । निकट-अवसथशब्दाभ्यामीसमर्थाभ्यां वसतीत्यस्मिन्नर्थे ठण् भवति । निकटमविदूरम् । निकटे वसति, नैकटिकः । श्रावसथिकः ।
तद् वहति रथयुगप्रसङगाद्यः ॥३३॥१६१॥ दम्यानां स्कन्धकाष्ठं प्रसङ्गः। तदितीप्समर्थेभ्यो स्थयुग-प्रसङ्गशब्देभ्यो वहतीत्यस्मिन्नर्थे यो भवति । य इत्ययं चाऽधिकार आपादपरिसमाप्तेर्वेदितव्यः ।
१. लक्ष्यानुरोधात् "मोदनशब्दाटुड् वक्तव्यः" इति प्रतिभाति ।
२८
For Private And Personal Use Only