SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१४ जैनेन्द्र-व्याकरणम् [म. ३ पा० ३ सू० ११२-१५६ श्रानुलोमिकः । हसे कृते "प्रत्यन्ववात्सामोग्नः" [ ४२] इति श्रः सान्तः । प्रातिकूलिकः । श्रानुकूलिकः । अथवा प्रतिगता आपोऽस्मिन्निति प्रतीपम् इति । एवं सर्वत्र वसः कर्तव्यः । परिमुखम् ॥३॥३॥१५२।। तदिति वर्तते । परिमुखशब्दात् इप्समर्थाद् वर्तते इत्यस्मिन्नर्थे ठण भवति । मुखात्परि परिमुखम् । “वर्जनेऽपपरिभ्याम्" [ २] इति का । "पर्यपापहिरञ्चवः कया" [१॥३१.] इति हसः । परिमुखं वर्तते पारिमुखिकश्चौरः। सर्वतो मुखं वा परिमुखम् । प्रादिलक्षणः सः । पारिमुखिकः । “परिपावच्चेिति वक्तव्यम्' [ वा० ] । पारिपार्श्विकः । प्रयच्छति गाम् ॥३।३१५३।। तदिति वर्तते । तदिति इप्समर्थात्प्रयच्छति इत्यस्मिन्नथें ठण भवति यत्तदिप्समर्थ चेत्तद् भवति । द्विगुणं प्रयच्छति, दैराणिकः । त्रैगुणिकः । "(वृ) ष्ठणि वृधुषिभावो वक्तव्यः' [वा०] (वृद्धिं प्रयच्छति वार्धषिकः । यदि प्रकृत्यन्तरमस्ति, व्यविकन्यायेन तस्मादेव त्यः । गर्यमिति किम् ? द्विगुणं प्रयच्छत्यधमर्णः । ___ कुसीददशैकादशाह्रौ ॥३।३।१५४॥ तत्प्रयच्छति गर्यम् इति च वर्तते । कुसीद-दशैकादशशब्दाभ्यां प्रयच्छतीत्यस्मिन्नर्थे ययासंख्यं ठट् ठ इत्येतो त्यौ भवतः ठणोऽपवादो। कुसीदम् श्रृणं वृद्धिर्वा । कुसीदं प्रयच्छति, कुसीदिका । कुसीदिकी । एकादशार्था दश दशैकादश निपातनात्सः । तान् प्रयच्छति, दशैकादशिको । दशैकादशिका। रक्षत्युन्छति ॥३।३।१५५॥ तदिति इपसमर्थाद रक्षति उञ्छति इत्येतयोरर्थयोष्ठः भवति । समाज रक्षति, सामाजिकः । नागरिकः । वदराण्युञ्छति वादरिकः । नैवारिकः । शब्ददद्रं करोति ॥३॥३॥१५६।। इप्समर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोत्यस्मिन्नर्थे ठण् भवति । शब्दं करोति, शाब्दिकः । वैयाकरण इत्यर्थः । दादुरिकः कुम्भकारः) तदित्यधिकारे पुनः समर्थविभक्त्युपादानं लोकिकप्रयोगाऽनुसरणार्थम् । तेनेह न भवति । शब्दं करोति कासः । “अस्मिन्प्रकरणे तदाहेतिमाशब्दादिभ्य उपसंख्यानम्" [वा०] माशब्द इत्याह माशब्दिकः । नैत्यशब्दिकः । कार्यशब्दिकः । वाक्यादिदं विधानम् । "प्रभूतादिभ्यश्च" [वा. ] तदाहेति वर्तते। प्रभूतमाह प्राभूतिकः । पार्याप्तिकः । "पृच्छतौ सस्नानादिभ्य इप्समर्थेभ्यः" [वा.]। सुस्नातं पृच्छति, सौस्नातिकः । सोखरात्रिकः । सौखशायनिकः । "गच्छत्तौ परदारादिभ्य इप्समर्थेभ्यः" । वा०] 1 परदारं गच्छति, पारदारिकः । गौरुतल्पिकः । पतिमत्स्यमृगान् हन्ति ॥३॥३॥१५७।। तदिति इप्समर्थेभ्यः पत्तिमत्स्यमृगेभ्यो हन्तीत्यस्मिन्नर्थे ठण भवति । स्वरूपस्य पर्यायाणां तद्विशेषाणा ग्रहणम् । पक्षिणो हन्ति, पाक्षिकः) नास्यस्यामिधानमित्येके । पर्यायशब्दस्य शकुनेरेव ग्रहणम् । शाकुनिकः । तैत्तिरिकः । मायूरिकः । मत्स्य, मात्स्यिकः। पर्यायस्य मीनशब्दस्यैव अनिमिषादिषु न भवति । शाफरिकः । रौहितिकः । मृग, मार्गिकः । हारिणिकः । सौकरिकः । साङ्गिकः । परिपन्थं तिष्ठति ॥३३१५८॥ परिपन्थशब्दादिपसमर्थात तिष्ठतीत्यस्मिन्नथें ठण भवति "काटभावाऽध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्" [वा०] इति कर्मभावादिप् । परिपन्थं तिष्ठति पारिपन्थिकचौरः । पन्यानं वर्जयित्वा व्याप्य वा तिष्ठतीत्यथः । “हन्तीत्यपि वक्तव्यम्"वा.। परिपन्थं हन्ति, पारिपन्थिकः । परिपथपर्यायः परिपन्यशब्दोऽस्ति तस्यायं प्रयोगः । माथापदन्यनुपदाकन्दं धावति ॥३॥३३१५६।। तदिति वर्तते । माया पदवी अनुपद श्राक्रन्द इत्येतेभ्य इप्समर्थेभ्यो धावतीत्यस्मिन्नर्थे ठण भवति । माथशब्दो मार्गपर्यायः। दण्डमाथं धावति, दण्ड For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy