SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म० ३ पा० ३ सू० ४०-४७ ] महावृत्तिसहितम् यखो वाऽशब्दे ॥३॥४०॥ तत्र भव इति वर्तते । वर्गान्तात् य ख इत्येतौ त्यो वा भवतः शब्दादन्यस्मिंस्त्याथें । पूर्वेण नित्ये छे प्राप्ते विभाषेयम् । भरतवर्गे भवः, भरतवर्यः । भरतवर्गीणः । भरतवर्गीयः । बाहुबलिवर्यः । बाहुबलिवर्गीणः । बाहुबलिवर्गीयः । कर्णललाटभूषणे कः ॥३३॥४१॥ तत्र भव इत्यस्मिन्विषये कर्णललाटशब्दाभ्यां को भवति समुदायेन भूषणेऽभिधेये । कर्णिका । ललाटिका । स्वभावतः स्त्रीलिङ्गः। भूषण इति किम् ? कर्यम् । ललाट्यम् । तस्य व्याख्यान इति च व्याख्येयाख्यायाः ॥३३॥४२॥ व्याख्यायतेऽनेनेति व्याख्यानम् । व्याख्यातव्यं व्याख्येयम् । तस्याख्या नाम व्याख्येयाख्या। तस्येति तासमर्थाद् व्याख्येयाख्यारूपाद् मृदो व्याख्यानेऽर्थे यथाविहितं त्यो भवति चकारात्तत्र भव इत्यस्मिंश्च वाक्यार्थे । इतिशब्दः पर्ववाक्यपरिसमाप्त्यर्थः । सुपां व्याख्यानं सुप्सु भवं वा सौपम् । मिडां व्याख्यानं मिक्षु भवं वा मैङम् । एवं कार्तम् । हार्तम् । व्याख्येयाख्याया इति किम् ? पार्यलपुत्रस्य व्याख्यानं सुकौशला । पाटलिपुत्रं सुकौशलया व्याख्यायते सन्निवेशहारेण । न पुनलोके तद्व्याख्येयस्य ग्रन्थस्याख्याभूतम् । ननु च तस्य व्याख्याने अर्थे "तस्येदम्" [३८] इत्यनेनैव त्यविधिः सिद्धः। चकारानुकृष्टेऽपि तत्र भवेऽर्थे पूर्वमेव स्यविधिरुक्तः । तत्किमनयोर्युगपदुपादानम् ? वक्ष्यमाणोऽपवादविधिः । व्याख्येयाख्याया अनयोरर्थयोर्यथा स्यादित्येवमर्थम् । बढ्चो बहुलं ठव्य ॥३॥३॥४३॥ बल चो व्याख्येयाख्याभूतान्मृदो बहुलं ठञ् भवति तस्य व्याख्याने तत्र भवे चार्थे । अणादेरपवादः । बहुलग्रहणं बहुप्रपञ्चार्थम् । सविधौ ये बह्वचः तेभ्यः ऋकारान्तब्राह्मणप्रथमाध्वरपुरश्चरणनामाख्यातपौरोडाशेभ्यः क्रतुभ्यश्च गौणमुख्येभ्यष्ठा भवति । सविधौ - पखणखस्य व्याख्यानम्, षत्वणत्वे भवं षाखणविकम् । ऋकारान्तात् - चातु होतृकम् । पाश्चहोतृकम् । ब्राह्मणिकम् । प्राथमिकम् । आध्वरिकम् । पौरश्चरणिकम् । नामाख्यातिकम् । विगृहीतादपि । नामिकम् । श्राख्यातिकम् । पौरोडाशिकम् । मुख्येभ्यः ऋतुभ्यः - श्राग्निष्टोमिकम । राजयिकम् । वाजपेयिकम् । पाकयज्ञिकम् | भाव यज्ञिकम् । गौणेभ्यः - पाञ्चौदनिकम् । दाशौदनिकम् । ऋषिभ्योऽध्यायैर्भवति । वाशिष्ठकोऽध्यायः । वैश्वामित्रिकोऽध्यायः । अन्यत्र वाशिष्ठी ऋक् । तिसेषु न भवति । संहिताया व्याख्यानं तत्र भवं वा सांहितम् । बह्व॒च इति किम् ? कार्तम् । हार्तम् । व्याख्येयाख्याया इत्येव । मथुरायां भवः, माथुरः । द्वचजचः ॥३३॥४४॥ द्वयचो मृद ऋक्छब्दाच्च ठम भवति तस्य व्याख्याने तत्र भवे चार्थे । अण्णादेरपवादः । अङ्गस्य व्याख्यानम् , अङ्गे भवं वा आङ्गिकम् । पौर्विकम् । तार्किकम् । नामिकम् । ऋचां व्याख्यानं ऋतु भवं वा आर्चिकम् । पुरोडाशाहद् ॥३३॥४५॥ पुरोडाशशब्दादृद्र भवति तस्य व्याख्याने तत्र भवे चार्थे । पुरोडाशाः पिष्टपिण्डाः । साहचर्य्यात्तेषां संस्कारको मन्त्रोऽपि तथोक्तः। पौरोडाशिकी । छन्दसो यः ॥३॥३॥४६॥ छन्दःशब्दाद्यो भवति तस्य व्याख्यान इत्येवास्मिन्विषये । द्वयज्लवणठोऽपवादः । छन्दसो व्याख्यानं छन्दसि भवं वा छन्दस्यम् । गयनादेवाण ॥३॥३॥४७॥ ऋगयन इत्येवमादिभ्यो मृद्भ्यश्छन्दःशब्दाच्चाण् भवति तस्य व्याख्याने तत्र भवे चार्थे । ऋगयनस्य व्याख्यानः, ऋगयने भवो वा, आगयणः। अणि परत ऋगयनस्य For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy