SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ० ३ पा० ३ सू० २३-३१] महावृत्तिसहितम् कलाप्यवस्थयवसाद वुन् ॥३३॥२३॥ कालाद देयमृण इति च वर्तते । कलापिन् अश्वत्थ यववुस इत्येतेभ्य ईपसमर्थेभ्यो वुज भवति देयमृणमित्येतस्मिन्नथें । ठोऽपवादः । यस्मिन्काले मयूरा इतवो वा कलापिनो भवन्ति स कालः तत्साहचर्याकलापी । यस्सिन्नश्वत्थानां फलं सोऽश्वत्थः । यस्मिन्यववुस भवति, स: यववुसम् (सः)। कलापिनि काले देयमृणम्, कलापकम् । अश्वत्थकम् । यववुसकम् । ग्रीष्मावरसमाद वुम ॥३॥३२४॥ ग्रीष्म अवरसम इत्येताभ्यां बुआ भवति । तत्र देयमणमिति वर्तते । ग्रीष्मे देयमृणम् ; श्रेष्मकम् | ऋत्वणोऽपवादः । श्रावरसमकम् । ठोऽपवादः । अवरसमा, अवरसमम् । “तिष्ठद्ग्वादि" [२५] इति हस इत्येके । संवत्सराऽप्रहायणीभ्यां ठप च ॥३॥३२॥ संवत्सर-आग्रहायणीशब्दाम्यां ठन भवति वुञ् च । तत्र देयमृणमिति वर्तते । संवत्सरे देयमृणं सांवत्सरिकम् । सांवत्सरकम् । श्राग्रहायणिकम् । अाग्रहायणकम् | वेति वक्तव्ये ठग्रहणं सन्ध्यादिषु "संवत्सरात्फलपर्वणोः" [ग० सू० ३।२।१०] इत्यस्याणो बाधनार्थम् । रौति मृगः ॥३।३।२६॥ तत्रेति वर्तते कालादिति च । कालविशेषवाचिन ईपसमर्थाद् सैति मृग इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । निशायां रौति मृगः, नैशिकः । नैशः । प्रादोषिकः । प्रादोषः । "निशाप्रदोषाभ्याम्' [३।२।१३४] इति ठाणौ। मृग इति किम् ? निशायां रौति उलूकः । तदस्य सोढम् ॥३॥३॥२७॥ सोढमभ्यस्तम् । कालादिति वर्तमानमर्थाद् वान्तं सम्पद्यते । तदिति वासमर्थात्कालविशेषवाचिनो मृदोऽस्येति तार्थे यथाविहितं त्यो भवति । यत्तद्वासमर्थ सोढं चेत्तद् भवति । निशा सोढाऽस्य, नैशिकः । नैशः । प्रादोषिकः । प्रादोषः। साहचर्यान्निशादिशब्देनाध्ययनमढेष्टम् । तत्र भवः ॥३॥३॥२८॥ लब्धात्मलाभ उपलभ्यमानो भवः । तत्रेतीप्समर्थाद् भव इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । सौनः । राष्ट्रियः । अनुवर्तते तत्रग्रहणं कालसम्बन्धम् ( सम्बद्धम् ), पुनस्तत्रग्रहणं कालनिवृत्त्यर्थम् । इह प्रायभवग्रहणं च कर्त्तव्यम् । अनित्यभवः प्रायभवः । सुध्ने प्रायभवाः स्रोप्नो मनुष्यः । नियतो भवस्तत्र भवः । यथा स्रौनः प्राकारः । न कर्त्तव्यम् । तत्र भव इति प्रकृत्य "जिह्वामूला. गुलेः" [१॥३।३८] छो विधीयते । स यथैव तस्मिन्दृष्टापचारे अङ्गलीयमित्यादौ भवति, एवं प्रायभवेऽपि भविष्यति । दिगादेयः ॥३॥३॥२६॥ दिश इत्येवमादिभ्यो यो भवति । तत्र भव इति वर्त्तते । अणवस्य चायमपवादः । दिशि भवो दिश्यः । दिश् । वर्ग । पूग । गण। पक्ष । वाप' । मित्र । मेघा । अन्तर । पथिन् । रहस् । अलीक । उखा । साक्षिन् । श्रादि । अन्त । मुखबघनग्रहणमदेहानार्थम् । सेनामुखम् । सेनाजघनमिति । मेघ । यूथ | "उदकात्संज्ञायाम्" [ग. सू.] उदक्या स्त्री । श्रौदकोऽन्यः । न्याय | वंश | अनुवंश । वेश । आकाश । देहानात् ॥३॥३॥३०॥ अङ्गमवयवः । देहाङ्गवाचिनो यो भवति तत्र भव इत्यस्मिन् विषये । श्रणोऽपवादः । तस्य तु परखादेव बाधकः। दन्तेषु भवः, दन्त्यः । ओष्ठ्यम् । मुख्यम् । तालव्यम् । इह तदन्तविधिर्वक्तव्यः । कण्ठतालव्यम् । दन्तोष्ठ्यम् । रतिकुक्षिकलसिवस्त्यनहेन ॥३॥३॥३१॥ इत्यादिभ्यो दम् भवति । तत्र भव इति वर्तते । हतो भवं दातेयम् । अणोऽपवादः। देहाङ्गत्वे यस्यापवादः । कलस्यां भवम् कालसेयम् । श्रणोऽपवादः। १.चाप म.। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy