SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म. पा० २ सू० १२४-१३२ ] महावृत्तिसहितम् १९३ योऽर्धात् ॥२२१२४॥ वेति निवृत्तम् । अर्धशब्दाच्छैषिको यो भवति । अणोऽपवादः । अर्धे भवः, अर्ध्यः। परावराधमोत्तमादेः ॥३।२।१२५॥ पर अवर अधम उत्तम इत्येवमादेरर्धशब्दाद्यो भवति शैषिकः । परायः । अवरायः । अधमार्थ्यः । उत्तमार्यः । "इवथंधु समाहारे" [४६] इति षसः । परमर्द्धम्परार्द्धमिति "विशेषणं विशेष्येणेति" [१॥३५२] यसे कृते परार्धे जातः परार्ध्यः । यदा पराs वरादिशब्दौ दिग्वाचिनौ तदोत्तरसूत्रेण यठणौ प्राप्तौ । तदवाचित्वे त्वण प्राप्तः । अधमोत्तमादेरण प्राप्तः । प्रकृतिलमेतेषां मा विज्ञायोति श्रादिग्रहणम् । दिगादेष्ठण च ॥३।२।१२६॥ अर्धादिति वर्तते । दिगादेरर्घाच्छैषिकष्ठय् भवति चकाराद्यश्च । पूर्वार्द्ध बातः, पौर्द्धिकः । पूर्वाद्धर्थः । दाक्षिणार्द्धिकः । दाक्षिणायः । अपरमर्द्ध पश्चाद्धम् "उपय्युपरिष्टास्पश्चाद" [1988७] इत्यत्राद्धे परतोऽपरस्य पश्चभावो वक्ष्यते । पश्चाद्धे जातः, पाश्चार्दिकः । पश्चाद्धयः । "अन्यादेष्ण वक्तव्यः" [वा.] दिग्छब्दादन्यो यदाऽस्यादिर्भवति तदा ठण भवति । पौष्करार्द्धिकः । वैजयार्द्धिकः । वालेयार्द्धिकः । क्षेत्रार्दिकः । पराऽवरादेस्तु पूर्वेण य एव भवति । ___ ग्रामराष्ट्रयोरण्ठौ ॥३।२।१२७॥ दिगादेरर्धादण ठा इत्येतौ त्यौ भवतः शेषेऽर्थे ग्रामराष्ट्रयोश्चेदई भवति । ग्रामैकदेशवाची राष्ट्र कदेशवाची चेदईशब्दो भवतीत्यर्थः । ग्रामस्य राष्ट्रस्य वा पूर्वाद्धे भवः, पौर्वाद्धः । पौर्द्धि कः । दाक्षिणार्द्धः । दाक्षिणार्द्धिकः । पाश्चाद्धः । पाश्चार्द्धिकः । मध्यान्मः ॥३२॥१२८॥ मध्यशब्दाच्छैषिको म इत्ययं त्यो भवति । अणोऽपवादः । मध्यमः । "आदेश्चेति वक्तव्यम्"[घा. ] आदिमः। "अवाधयोः (अवोऽपसोः) सर्व चेति वक्तव्यम्"। अवमः | अधमः। सम्प्रत्यः ॥३।२।१२६॥ सम्प्रत्यर्थे जातादौ मध्यशब्दाद हत्ययं त्यो भवति । कः पुन इवार्थः वार्थः । सम्प्रतिकालो वर्तमानः, सोऽतीताऽनागतयो योरन्तराले वर्तते । एवमन्यदपि द्वयोरन्तराले वर्तमानं सम्प्रतीत्युच्यते । यन्नातिदीर्घ नातिहस्वं मध्यं काष्ठम् । नात्युत्कृष्टो नाप्यपकृष्टो मध्यो वैयाकरणः । मध्या स्त्री। द्वीपादनुसमुद्रे यत्र ॥३२॥१३०॥ समुद्रसमीपे यो द्वीपशब्दस्तस्माच्छैषिको यम, भवति । कच्छादिपाठादणो नृतत्स्थयोवुञश्चापवादः। द्वैप्यम् । द्वैप्या स्त्री। अनुसमुद्र इति किम् ? अनुनदि यो द्वीपः तस्माद्यमुनादिसम्बन्धे द्वीपे भवम्, द्वैपं तृणम् । “कच्छादि'' [३२२१११२] पाठादण । द्वैपको व्यासः । "नृवस्थयो:" [३।२।१३] इति वुन । ___कालाम् ॥२२॥१३१॥ कालविशेषवाचिनो मृदः शैषिकष्ठभ, भवति । अणोऽपवादः । वृद्धत्यं' परत्वाद् बाधते । मासिकः । सांवत्सरिकः । यथा (दा) कदम्बपुष्पयोगात्कालोऽपि कदम्बपुष्पवाच्यः, तत्राऽनेन ठञ् । कदम्बपुष्पे देयमृणं कादम्बपुष्पिकम् । हिपालालिकम् । “तत्र जातः" [३] प्रागितः कालोऽधिकारः। ( पाच शरदः ॥३।२।१३२॥ शरच्छब्दात्कालवाचिनः श्राद्ध ऽभिधेये शैषिकष्ठन भवति । शरदिति हि ऋतुविशेषः । तत्र "भसन्ध्यातुभ्योऽवर्षाभ्योऽण्" [१।२।१३८] प्रासः, तदपवादोऽयम् । शरदि जातं' शारदिकं श्राद्धम् । श्राद्ध इति किम् ? शारदं दधि । शारदं सस्यम् । श्रमशब्देन चात्र रूदिवशापितृकार्यमेवोच्यते, न तु श्रद्धावान् । तेनेह न भवति शारदः श्राद्धः। श्रद्धावानित्यर्थः । ) १. वृद्ध; ० ब०, पृ. । २. गत: का-म०, ब०, पू० । ३. भवं पूछ। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy