SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म०१ पा० २ सू० ५७-६०] महावृत्तिसहितम् यार्थम् । पाराशर्येण प्रोक्तं सूत्रमधीयते पाराशरिणो भिक्षवः। शिलालिना प्रोक्तमधीयते शैलालिनो नयाः । शौनकादिषु “पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः" [ग. सू० ३।३।७७ ] इति णिन् । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनः । कृशाश्वेन प्रोक्तमधीयते कृशाश्विनः। शौनकादिष्वेव 'कर्मन्दकृशाश्वाभ्यामिन्" [ग० सू० ३।३७७ ] इति भिक्षुनटसूत्रयोरिति वर्तते । तदस्मिन्नस्तीति देशः खौ ॥३२॥५७॥ तदिति वासमर्थादस्मिन्नितीबर्थे यथाविहितं त्यो भवति । यत्तद्वासमर्थमस्ति चेत् तद्भवति । यत्तदस्मिन्निति निर्दिष्ट देशश्चेत्तद् भवति । समुदायेन खुविषये । इतिकरणाद् भूमादिविषये विवक्षा । औदुम्बरः । वाल्वजः । पार्वतः । मत्वर्थीयोऽनेन बाध्यते । तेन निवृत्तः ॥३२॥८॥ देशः खाविति वर्तते । तेनेति भासमर्थाद् निर्वृत्त इत्येतस्मिन्नथें यथाविहितं त्यो भवति देशः खौ। ककन्देन निर्वृत्ता काकन्दो। मकन्देन निर्वृत्ता माकन्दी। कुशाम्बेन निवृता कौशाम्बी । सहस्रण निर्वृत्ता साहस्री परिखा ) खावित्येव । वनेन निवृत्तम् । इह यदाऽकर्मका अपि धवः सगयः सकर्मका भवन्तीति कर्मणि निवृत्तशब्दी व्युत्पाद्यते, तदा तेनेति कर्तरि करणे वा भा। यदा वकर्मकविवक्षया कर्तरि निर्वृत्तशब्दस्तदा हेतौ भा । तस्य निवासादूरभवौ ।।३।२।५६॥ देशः खाविति वर्तते । तस्येति तासमर्थात् निवास अदूरभवइत्येतयोरर्थयोर्यथाविहितं त्यो भवति देशनाम्नि गम्यमाने । निवसन्त्यस्मिन्निति निवासः "हलः" [२२३३०२] इत्यधिकरणे धन । भवतीति भवः । पचाद्यच् । अदूरे भवः निपातनात्सविधिः । वसतेर्निवासः वासातम् । श्रौषुष्टम् । शलाकाया निवासः शालाकम् । वाराणस्या अदूरभवा वाराणसी। विदिशाया अदूरभवं वैदिशम् । ब्रीहीमत्या अदूरभवं हिमतं नगरम् । बुञ्छणकठेलसेनढणण्ययफरिफभिकण्ठणोऽरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसकाशबलपक्षकर्णसुतङगमवराहकुमुदादिभ्यः ॥३।२।६०॥ धुआदयः षोडश त्या यथासंख्यमरीहणादिभ्यः षोडशभ्यो गणेभ्यो भवन्ति यथासंभवं प्रागुक्तेषु चतुरर्थेषु । अरीहणादिभ्यो वुञ् ! अरोहणेन निवृत्त श्रारोहणकम् । अरोहण द्रुघण द्रवण खदिर भगल उलुन्द साम्परायण क्रौष्ट्रायण चैत्रायण त्रैगर्तायन रायस्पोष विपथ विसाय उद्दण्ड उदजन शालायन खाण्डायन खण्डवीरण काशकृत्स्न जाम्बवत शिशपा किरण रैवत तैश्व वैमतायन सौमायन शाण्डिल्यायन सुयश विपाश वायस । कृशाश्वादिभ्यश्छण भवति । कशाश्वेन निर्वृत्तं काश्विी यम् । कृशाश्व अरिष्ट वेश्मन् वेप्य विशाल रोमक लोमक ववर शवल रोमश वर्वर सूकर पूतर सदृश सुख धूम अजिर विनत अवनत इरस श्रयस् विकुषास अनस् अवसाय मौद्गल्य । ऋश्यादिभ्यः को भवति । ऋश्या अस्सिन्देशे सन्ति ऋश्यकः । ऋश्य । न्यग्रोध । सर (शिरा)। निलीन । निवास' । निद्यास | वितान । विधान । निबद्ध । बिबुद्ध । परिगूढ । उपगूढ । उपगूह। उच्चराश्मन् । स्थूलबाहु। स्थूलवाह । खदिर। शर्करा । अनडुह् । परिवंश । वेणु । वीरण । कुमुदादिभ्यो भवति । कुमुदान्यस्मिन् देशे सन्ति कुमुदिकम् । कुमुद । शर्करा । न्यग्रोध । कर्कट । संकट। इत्कट । मन्तु। बीज । अश्वत्थ । बल्वज । अथक । गत । वरिवाप। अक्ष। पवाश । शिरीष। कृप । विकङ्कत । कासादिभ्य इलो भवति । काशा अस्मिन्देशे सन्ति काशिलम । प्राश । वास। अश्वत्थ । पलाश। पीलूष । विस । तृण । वधूल। कार्दम। नड । वन । कपर। कर्कट । गुहा । सा(शा)कटिक । तृणादिभ्यः सो भवति । तृणान्यस्यां सन्ति तृणसा । तृण । नड । १. निवात ब०, पू० । २. उत्तराश्मन् पू० । ३. परिवाय २०, ३०। ४. वाम पू०। ५. वधूल ब०। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy