SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म० ३ पा० २ सू० ३३-३६] महावृत्तिसहितम् १७६ पदमुक्षादिभ्योऽपि वुआदि। । काकानां समूहः काकम् । शौकम् । वार्कम् । इह पञ्चानां पूलानां समूहः पञ्चपूला इति प्राप्नोति । समूहार्थेऽण् तस्य "रस्योगनपत्ये" [३।११७५] इत्युप् “परिमाणादुपि" [३।१।२५] इति नियमात् । असति डीविधौ टापा भवितव्यम् । नायं दोषः। समाहारलक्षण एवात्र रसः । हृदुत्पत्तिर्न भवत्यनभिधानात् । भिक्षादेः ॥३२॥३३॥ तस्य समूह इति वर्तते । भिक्षा इत्येवमादिभ्यः यथाविहितं त्यो भवति । पुनर्विधानं ठणो बाधनार्थम् । भिक्षाणां समूहः भैवम् । भिक्षा गर्भिणी क्षेत्र करीष अङ्गार चर्मन् सहस्र युवति पद्धति अथर्वन् दक्षिणा । इह पाठसामर्थ्यात् गर्भिणी-युवतिशब्दे न पुंवद्भावः । वृद्धोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजावुन ॥ ३२॥३४ ।। वृद्धादिभ्यो वुन भवति । तस्य समूह इति वर्तते । श्रौपगवानां समूह श्रौपगवकम् । कापटयकम् । श्रीक्षकम् । श्रौष्ट्रकम् । औरभ्रकम् । राजकम् । राजन्यकम् । राजपुत्रकम् । वात्सकम् । मानुष्यकम् । आजकम् ।' 'दाच्चेति वनम्यम्" [वा. ] वार्द्धकम् । “प्रकृत्या अके राजन्यमनुष्ययुवानः" इति "क्यच्यनाद्धृत्यापत्यस्य'[ १] इति यखं न भवति । इह वृद्धग्रहणात् सिद्धे राजन्यमनुष्ययोः पृथगग्रहणं ज्ञापकम् । अपत्याधिकारादन्यत्र वृद्धग्रहणेन लौकिकं गोत्रमपत्यमात्रमुच्यते न तु पौत्राद्यपत्यं वृद्धमिति । तथाहि लोके किङ्गोत्रो भवान् इति पृष्टः वात्स्यायनोऽस्मीत्याह । राजन्यमनुष्ययोस्तु जातिशब्दत्वात् लौकिकगोत्रग्रहणम् । केदारायश्च ॥३२॥३५॥ केदारशब्दाद्या भवति बुञ् च तस्य समूह इत्यस्मिन्विषये । ठणोऽ पवादः । केदाराणा समूहः कैदार्य्यम् । केदारकम् । "गणिकायाः यश्च वक्तव्यः' [वा०] गणिकाणां समूहः गाणिक्यम् । ठम् कवचिनश्च ॥३२॥३६॥ ठञ् भवति कवचिनश्च केदाराच्च तस्य समूह इत्यस्मिन्विषये । कवचिनां समूहः कावचिकम् । कैदारिकम् । ग्रामजनबन्धुसहायेभ्यस्तल् ॥३॥२॥३७॥ प्रामादिभ्यस्तल भवति तस्य समूह इति वर्तते । प्रामाणां समूहो ग्रामता । जनता । बन्धुता । सहायता । "गजाच्चेति वक्तव्यम्" [वा०] गजता । (घरणेभ्यो धर्मवत् ॥३॥२॥३८॥ चरणवाचिशब्देभ्यः समूह इत्येतस्मिन्नर्थे धर्म इव त्या भवन्ति । इदमेव शाकम् । अस्त्येतत् 'चरणाद्धर्माम्नाययोः" [वा०] इति "वृद्धचरणाम्मित् [३३] इत्यारभ्य चरणाद्धर्मे त्यविधिर्वक्ष्यते, स इहातिदिश्यते । वत्करणं सर्वविशेषपरिग्रहार्थम् । यथा कठानां धर्म काठकम । कालापकम् । मौदकम् । पैप्पलादकम् । श्राभिकम् । वाजसनेयकम् । छान्दोग्यम् । श्रोक्थिक्यम् । श्रावणः । "वृद्धचरणामित्" इति वुन् “छन्दोगौक्थिकयाज्ञिकबट्टचनटाळ्यः'' [१।३।१७] इति ज्यः । "पाथर्वणः' [३।३।१०] इति च निपात्यते पाथर्वणिकानां धर्म इत्यत्र वाक्ये । तथा कठानां समूहः काठकमित्येवमादि योग्यम् । ) अचित्तहस्तिधनीष्ठण ॥३॥२॥३६॥ अचित्तमचेतनम् । अचित्तार्थवाचिभ्यो हस्तिधेनुशब्दाभ्यां च ठण भवति तस्य समूह इत्यस्मिन् विषये । अपूपानां समूहः श्रापूपिकम् । शकुलीनां समूहः शाष्कुलिकम् । हास्तिकम् । धैनुकम् । “पर्वा णस् वक्तव्यः" [वा०] पशूनां स्त्रीणां समूहः पार्श्वम् । सित्वात्पदसंज्ञायां भलक्षणमोरोत्वं न भवति । खण्डिकादिभ्योऽअ वक्तव्य इति चेत् न वक्तव्यः । नास्ति विशेषोऽभि वा सत्यणि वा । खण्डिकादिषु ये चित्तवतस्तेभ्य श्रौत्सर्गिकोऽण् सिद्धः। ये त्वचित्तास्ते भिक्षादिषु पठनीयाः । खण्डिका अहन् वडवतुद्रकमालवाद्रिसंशाताः क्षत्रिया इत्यर्थः । तेषां समूह वृद्धलक्षणो वुन प्राप्तः। ननु च यथा "राष्ट्रावध्यो:" [२।०२] इत्यत्र राष्ट्रादुच्यमानो वुझ न राष्ट्रसमुदायाद्भवति । काशिकौशलेषु भवा For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy