SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म.३ पा.२सू०.१-] महावृत्तिसहितम् भर्गादेरिति किम् । प्राच्या ये राष्ट्राभिधाना राजानस्तेभ्य उप प्रतिषिध्यते । पाञ्चाली । वैदेही । पैप्पली । पानी। वाङ्गी । सौझी । पोएड्री। मागधी । कालिङ्गी। भर्गादेरमाच्यार्थ उप प्रतिषेधः । भर्गस्यापत्यं स्त्री मार्गी । करूषस्य कारूषी । भर्ग करूष केकय कश्मीर सेल्व (सुल्वा) सुस्थाल उरस कौरव्य । वचनाद्यर्थेण उपि कुरूः । अनेनानुपि कौरव्येति । यौधेयः । शौक्रेय शौभ्रेय घातय ग्रावाणेय नृगत भरत । उशीनर । कस्य पुनरकारस्य यौधेयादिभ्यः द्रुसंज्ञकेभ्यः परस्योप् प्राप्तः प्रतिषिध्यते १ उच्यते । "परवदेरण' [२६] इति द्रिसंज्ञकोऽण् स्वार्थिको वक्ष्यते । तस्यायं प्रतिविधिः' न तु राष्ट्र समानशब्दात् । श्रापत्यस्य उबुच्यमानः कथं स्वार्थिकस्य मिन्नप्रकरणस्य नेरुन्भवति । इदमेव यौधेयादिभ्यः प्रतिषेधवचनं ज्ञापकं भिन्नप्रकरणस्यापि द्वेरुन्भवति । अपत्यग्रहणेन गृह्यते इति किमेतस्य ज्ञापने प्रयोजनम् । इह स्त्रियामुपू । पशुः रक्षाः असुरी इति पशु रक्षस् असुर इति राष्ट्र शब्दा राजानः एषामपत्यं संघः स्त्रीत्वविशिष्टो विवक्षित इति अणजोरागतयोः “उप् चोलादेः" [10१५६] इति उपि कृते पुनः "पर्वादेरण" [१२।१] इति स्वार्थिकोऽण् । तस्यापि स्त्रियामनेनोपू सिद्धः। इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः । रागात् ॥३॥२१॥ रज्यतेऽनेन शुक्लं वस्त्विति रागः; कुसुम्भादि द्रव्यम् । तेनेति भासमर्थात् रागविशेषवाचिनो मृदो रक्तमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति । कषायेण रक्तं वस्त्र काषायम् । हारिद्रम् । कौसुम्भम् । माञ्जिष्ठम् । रागादिति किम् ? देवदत्तेन रक्तम् । "पुखौ घः प्रायेण" [२।३।..] इत्येतद् पश्चिधानेऽपेक्ष्यते । तेन वर्णविशेषस्य रागस्य ग्रहणादिह न भवति । पाणिना रक्तमिति । इहोपमानाद्भवति । काषायो गर्दभस्य कौँ । हारिद्रौ कुक्कुटस्य पादाविति । नीलपीतादकौ ॥२२।२।। नील पीत इत्येताभ्यां भान्ताम्यां रक्तमित्येतस्मिन्नर्थे यथासंख्यम् अक इत्येतौ त्यौ भवतः । नीलेन रक्त नीलम् । लिङ्गविशिष्टस्यापि ग्रहणम् । नील्या रक्त नीलम् । पीतेन रक्त पीतकम् । लाक्षारोचनाशकलकर्दमाढण् ॥२२॥३॥ लाक्षादिभ्यो भासमर्थेभ्यो रक्तमित्येतस्मिन्नर्थे ठण भवति । अणोऽपवादः । लाक्षया रक्त लाक्षिकम् । शाकलिकम् । शकलकदमाभ्यामणपीध्यते । ___ भायुक्तः कालः ॥२४॥ तेनेति वर्तते । भविशेषवाचिनो मृदो भासमर्थाद् युक्त इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । योऽसौ युक्तः कालश्चेत् स भवति । नित्ययुक्तौ हि भकालो न क्योः सन्निकर्षविप्रकर्षों स्तः। तत्कथं पुष्यादिना 'भेन युक्तः काल' इत्युच्यते । व्यभिचाराभावात् । नैष दोषः । इह पुष्यादिसमीपस्थे चन्द्रमसि पुष्यादयः शब्दाः वर्तमाना गृह्यन्ते । पुष्येण युक्तः कालः पुष्यसमीपगतेन चन्द्रमसा युक्त इत्यर्थः। पौषी रात्रिः । पौषमहः। "तिष्यपुष्ययोर्माणि" [ २०३६ ] इति यकारस्य खम् । माघी रात्रिः। माघमहः । भादिति किम् ? चन्द्रमसा युक्ता रात्रिः। काल इति किम् ? पुष्येण युक्तश्चन्द्रमाः। उसभेदे ॥३२॥५॥ अभेदो नामाविशेषः । पूर्वेण विहितस्योस् भवति न चन्द्रेण युक्तस्य कालस्य भेदो रात्र्यादिविशेषोऽभिधीयते । अद्य पुष्यः । अद्य कृत्तिकाः । अद्य रोहिण्यः । “युक्तवदुसि लिसंख्ये" [1986] इति युक्तवद्भावः । अत्र यावान् कालः त्रिंशन्मुहूर्तमात्रो भेन युक्तो न तस्य भेदोऽभिधीयते । अभेद इति किम् १ पौषी रात्रिः । पौषमहः । अभेद इति प्रसज्यप्रतिषेधः । तेनेहापि न भवति । पौषोऽहोरात्रः। १. प्रतिषेधः स.। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy