SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० ३ पा० १ सू० ३७-४२ एनी । स्येता । स्येनी । रोहिता । रोहिणी । हरिता। हरिणी । शवली । पिशङ्गी । कल्माषी । सारङ्गी । काली संज्ञायां वर्णे च । काला अन्या । क्वचिदप्रवृत्तिरेव श्वेता। असिता। पलिता। कृष्णा | कपिला । क्वचिदुभयथा। शोणी । शोणा । वडवा । नीली औषधिः। प्राणिनि च नीली वडवा। नीली गौः । संज्ञायामुभयम् । नीली। नीला | आच्छादने न भवत्येव । नीला शाटी। नोला मेघसंहतिः । वर्णादिति किम् ? कृता । हृता । अत इत्येव । सितिः कन्या । कुण्डगोणस्थलभाजनागकुशकामुककबरादत्रमावपनाकृत्रिमााणास्थौल्यायोविकारमैथुनेच्छाकेशवेशेषु ॥३॥१॥३७॥ कुण्डादिभ्यः कवरशब्दपर्यन्तेभ्योऽमत्रादिष्वर्थेषु यथासंख्यं स्त्रियां डोत्यो भवति । कण्डी भवति अमत्रं चेत् । कुएडा अन्या। दाह इत्यर्थः। गोणी भवति श्रावपनं चेत् । गोणा अन्या। संज्ञषा । स्थली भवति अकृत्रिमा चेत् । स्थला अन्या । भाजी भवति श्राणा चेत् । भाजा श्रन्या । भाजयतेः स्त्रियां युचि प्राप्त अत एव निपातनादकारः। नागी भवति स्थौल्यं चेत् । नागा अन्या । तन्वी दीर्घा वा । संज्ञायां वा । जातिविवक्षायां तु नित्यं ङो। कुशी भवति अयोविकारश्चेत् । कुशा अन्या । काष्ठादिमयो तदाकृतिः। कामुकी भवति मैथुनेच्छा चेत् । कामुका अन्या। कबरी भवति केशवेशश्चेत् । कबरा अन्या। पुयोगात् खोरगोपालकादेः ॥३॥१॥३८॥ अत इति वर्तते । पुंयोगाद्धेतोर्यः शब्दः स्त्रियां वर्तते खुभूतस्तस्मान्डीत्यो भवति गोपालकादीन् वर्जयित्वा । उपाध्यायस्य स्त्री उपाध्यायी। गणकी। प्रष्ठी। महामात्री । एते संज्ञाशब्दा पुंयोगात् स्त्रियां वर्तन्ते । पुंयोगादिति किम् ? देवदत्ता । खोरिति किम् ? प्रसूता । प्रजाता। परिभ्रष्टा | पुंयोगादेते शब्दाः स्त्रियां वर्तन्ते; न तु पुंसि संज्ञाभूताः। अगोपालकादेरिति किम् ? गोपालिका । पशुपालिका । श्रादिशब्दः प्रकारवाची । तेन सूर्याद्देवतायां डोर्न भवति । सूर्यस्य भार्या सूर्या । देवतायामिति किम् ? सूर्यो नाम मनुष्यः तस्य सूरीति । पूतक्रतोरै च ॥॥३६॥ पुंगोगादिति वर्तते । पूतक्रतुशब्दान्छोत्यो' भवत्यैकारश्चान्तादेशः । पूतक्रतोः स्त्री पूतक्रतायी। पुंयोगादित्येव । पूताः क्रतवो यस्याः सा पूतक्रतुः । वृषाकप्यग्निकुसितकुसीदात् ॥३१॥४०॥ ऐ चेति वर्तते पुंयोगादिति च । वृषाकपि अग्नि कुसित कुसौद इत्येतेभ्यः स्त्रियां ङोत्यो भवति ऐकारश्चान्तादेशः। वृषाकपायी । अग्नायो । कुसितायो । कुसीदायी । कुसितकुसीदयोः संज्ञाशब्दत्वात् पूर्वेणैव सिद्धेऽप्यैकारार्थ वचनम्। पुंयोगादित्येव । वृषाकपिर्नाम काचित् । मनोरौ च ॥३॥१॥४१॥ पुंयोगादिति वर्तते । श्रीकारश्चान्तादेश ऐकारश्च । मनोः स्त्रो मनावी । मनायो । केषाञ्चिन्मनुरित्यपि । वरुणभवशवरुद्रेन्द्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ॥३।११४२॥ वरुणादिभ्यो मुद्भयो स्त्रियां ङीत्यो भवति भानुगागमः । अत्र केषाञ्चिच्छब्दानां पुंयोगादिति सिद्धेऽप्यानुगर्थ ग्रहणम् । वरुणानी । भवानी । शर्वाणी । रुद्राणी । इन्द्राणी । मृडानी । “हिमारण्ययोमहत्वे" [वा०] महद्धिमं हिमानी। महदरण्यमरण्यानी । “यवाहोणे" [वा०] सदोषो यवः यवानी । “यवनाल्लि प्याम्" [वा०] यवनानां लिपिः यवनानी । उपाध्यायमातुलाभ्यां वा । प्रानुक एवायं विकल्प उपाध्यायी। उपाध्यायानी। मातुली। मातुलानी। "प्राचार्यादणत्वं च" [वा०] आचार्यानी । प्राचार्या । "आर्यक्षत्रियाभ्यामपु'योगे वेति वक्तव्यम्" [वा०] १. उदात्तु कोल्यो मु०। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy