SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० २ पा० ३ सू० १२१-१२६] महावृत्तिसहितम् १३३ अनचक्लप्त्यम ॥२।३।१२१॥ गर्ह इति निवृत्तम् । लिङलुटाविति वर्तते । अनवक्लुप्त्यर्थे अवमर्षे च गम्यमाने लिङ्लृट् इत्येतो त्यौ भवतः । श्रथमपि सर्वलकाराणामपवादः । अनवक्लुप्तौ नावकल्पयामि न संभावयामि न वा श्रद्दधे किं तत्र भवानदत्तं गृह्णीयात् अदत्तं ग्रहीष्यति । अमर्षे । घिमिथ्या नैतदस्त्यमों मे किं तत्रभवानदत्तं गृह्णीयात् अदत्तं ग्रहीष्यति । किंवृत्तेऽकिंवृत्ते च वाचि सामान्येनायं विधिः । लिङ्हेतु. रस्तीति भूते क्रियावृत्तौ वा लुङ् । वय॑ति तु नित्यः । किंकिलास्त्यर्थे लूट ॥२।३।१२२॥ अनवक्लुप्त्यमर्ष इति वर्तते । किंकिलशब्दे अत्यर्थेषु च शब्देषु वातु अनवक्लुप्त्यमर्षयोलृट् भवति । लिङोऽपवादः । नावकल्पयामि किंकिल तत्र भवान् परदारान् प्रकरिष्यते । गंधनादिसूत्रेणान्याये दः। अस्त्यर्था अस्तिभवतिविद्यतयः । अस्ति नाम भवति नाम विद्यते नाम तत्रभवान् परदारान् प्रकरिष्यते। जातुयद्यदायदो लिङ ॥२।३।१२३॥ अनवक्तृप्त्यमर्ष इति वर्तते । जातुयद्यदायदीत्येतेषु वातु अनवक्लप्त्यमर्षयोर्लिङ् भवति । लुटोऽपवादः । नावकल्पयामि जातु तत्रभवान् सुरां पिबेत् , यत्तत्रभवान् सुरां पिबेत् , यदा तत्रभवान् सुरां पिबेत् , यदि तत्रभवान् सुरां पिबेत् । न मृष्यामि जातु तत्रभवान् सुरां पिबेत् इत्येवमादि योज्यम् । लिहेतुरस्तीति भूते वा लुङ् । वर्त्यति तु नित्यः। यच्चयत्रयोः ।।२।३।१२४॥ अनवक्लुप्त्यमर्ष इति वर्तते । यच्च यत्र इत्येतयोर्वाचोरनवक्लुप्त्यमर्षयोलिङ् भवति । लुटोऽपवादः । उत्तरार्थो योगविभाग । न संभावयामि यच्च तत्रभवान् परिवादं कथयेत् । न मृष्यामि यश्च तत्रभवान् परिवादं कथयेत् । यत्र तत्रभवान् परिवादं कथयेत् । क्रियाऽवृत्तौ भृते वा लुङ् । वय॑ति तु नित्यः । गर्हे ॥२॥३॥१२५॥ अनवक्लुप्त्यमर्ष इति निवृत्तम् । अर्थान्तरोपादानात् । यच्च यत्र इत्येतयोर्वाचोगहें गम्यमाने लिङ भवति । सर्वलकाराणमपवादः । यच्च तत्रभवान् अस्मानाक्रोशेत् विद्वान् वृद्धः सन्नुस्कृष्टः । गर्हामहे । अन्याय्यमेतत् । लिहेतुरस्तीति यथासंभवं लुङ वेदितव्यः । चित्रार्थे ॥२॥३॥१२६॥ चित्रशब्दस्यार्थे गम्यमाने यच्चयत्रयोर्वाचोर्लिङ् भवति । सर्वलकारापवादः । यच्च तत्रभवान् लोभं कुर्यात् यत्र तत्रभवान् लोभं कुर्यात् विद्वान् वृद्धः सन्नुत्कृष्टः । चित्रमाश्चर्यमद्भुतं विस्मयमित्येषामन्यतमप्रयोगः । लिहेतुरस्तीति भूते क्रियाऽवृत्तौ वा । वर्त्यति तु नित्यः। शेषेऽयदो लट् ॥२।३।१२७॥ यच्चयत्राभ्यामन्यश्चित्रार्थः शेषः । शेषे चित्रार्थे गम्यमाने लुड भवति यदिशब्दश्चेद्वान भवति । अयमपि सर्वलकारापवादः। चित्रमाश्चर्य्यमदभुतं विस्मयमित्ययमन्धो नाम पुस्तकं वाचयिष्यति मूको नाम जैनेन्द्रमध्येष्यते । लिङ्हेत्त्वभावात् लुङ् वा न भवति । श्रयदाविति किम् ? आश्चर्य यदि स भुञ्जीत । अत्रानवक्तृप्तिश्चित्रार्थश्च प्रतीयते । “जातुयद्यदायदो लिङ्" [२।३।१२३] इति लिभूते "वाशशेषाद्" [२।३।११७] इति लङधिकारो निवृत्तः । उताप्योः पृष्टोक्ती लिङ् ॥२॥३॥१२८॥उत अपि इत्येतयोर्वाचोः पृष्टस्योक्तो गम्यमानायां लिङ भवति । सर्वलकारापवादः । किमकार्षीः कटं देवदत्त । इति पृष्टः प्रत्याह उत कुर्यात् । अपि कुर्यात् । कटं कृतवानित्यर्थः। इतः प्रभृति यत्र लिहेतुरस्ति तत्र वय॑ति भूते च नित्यो लुङ् । उताकरिष्यत् । अप्याकरिध्यत् । पृष्टोक्लाविति किम् ? उत दण्डः पतिष्यति । अपि धास्यति द्वारम् । अत्र प्रश्नोद्घहनं च प्रतीयते । इच्छोरोधेऽकञ्चिति ॥२॥३॥१२६॥ इच्छोरोधः स्वाभिप्रायनिवेदनम् । इच्छोरोधे गम्यमाने लिङ् भवति कच्चिच्छब्दाप्रयोगे। सर्वलकारापवादः । कामो मे अधीयीत भवान् । अभिलाषो मे भुञ्जीत भवान् । 1-सौ लुवा भ.। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy