________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म. २ पा० ३ सू० ६३-१००] महावृत्तिसहितम्
आक्रोशे नभ्यनिः ।।२।३।६३॥ श्राक्रोशे गम्यमाने नजि वाचि घोरनिस्त्यो भवति । क्त्यादीनामपवादः । अकरणिस्ते वृषल भूयात् । अप्रयाणिस्ते वृषल भूयात् । आक्रोश इति किम् १ अकृतिस्तस्य परस्य । नजीति किम् ? मृतिस्ते वृषल भूयात् ।
युड्व्या बहुलम् ॥२॥३॥९४॥ भावे अकर्तरि स्त्रियामिति च निवृत्तम् । युड्व्यसंज्ञाश्च बहुलं भवन्ति । भावकरणाधिकरणेष युड विहितोऽन्यत्रापि भवति । निरदन्ति तदिति निरदनम् । अवसेचनम् । अवस्त्रावणम् । राज्ञा भुज्यन्ते राजभोजनाः शालयः । क्षत्रियपानं मधु । राजाच्छादनानि वस्त्राणि । प्रयतते तस्मात् प्रयतनम् । प्रस्कन्दनम् । प्रच्छर्दनम् । भावकर्मणोळ उक्तास्ततोऽन्यत्रापि भवन्ति । नान्ति तेन स्नानीयं चूर्णम् ! दीयतेऽस्मै दानीयोऽतिथिः । ज्ञानमावृणोति श्राब्रियते वानेन ज्ञानावरणीयम् । दर्शनावरणीयम् । वेदनीयम् । मोहनीयम् ।बहुलवचनादन्येऽपि कृतः उक्तादन्यत्र भवन्ति । गले चोप्यते गलचोपकः । पादाभ्यां हियते पादहारकः ।
नप भावे लः ॥२॥३॥६५॥ नबिति ङिखं कृत्वा निर्देशः। नपि नपुंसकलिङ्गे भावे क्लो भवति । घचोरपवादः। हसितं छात्रस्य शोभनम् । जल्पितम् । आसितम् । शयितम् । नपुंसकलिने भावे क्लादिनिवृत्त्यर्थं भयादीनामज वक्तव्य इत्युक्तम् । तेन भयं वर्षमित्यादौ क्लो युनं भवति । येषां धनजन्तानां नपुंसकखमिष्टं तेऽर्द्धर्चादिषु द्रष्टव्याः ।
मिन्नभिविधौ ॥२॥३॥६६॥ नब्भावे इति वर्तते । अभिविधिः क्रियागुणाभ्यां कान्येन व्याप्तिः । नपि भावे धोजिन् भवति अभिविधौ गम्यमाने । तस्यायमपवादः। साकौटिनं सांमार्जिनं सांराविणं सान्द्राविणं वर्तते । “जिनोऽण" [ ४२।२१] इति स्वार्थिकोऽण् "नो पुंसोऽहृति" [ ३०] इति टिखं प्रासं "प्रायोऽनपत्येऽणीन:' [५१५५] इति न भवति । मध्येऽपवादोऽयं युटं न बाधते । संकुटनं संमार्जनम् । अभिविधाविति किम् ? संराकः ।
युट् ॥२॥३९७॥ नब्भाव इति वर्तते । नपि भावे युड् भवति धोः । हसनं छात्रस्य शोभनम् । जल्पनम् । आसनम् । शयनम् ।
कर्मणि यत्स्पकिङ्गसुखम् ॥२३॥६॥ युड् नब्भाव इति च वर्तते । येन संस्पर्शात् करृङ्गस्य सुखं भवति तस्मिन् कर्मणि वाचि नपुंसकलिङ्गे भावे युड् भवति । श्रोदनभोजनं सुखम् । पयः पानम् । चन्दनानुलेपनम् । पूर्वेण सिद्धेऽपि नित्यसविध्यर्थं प्रारम्भः । कर्मणीति किम् ? तूलिकाया उत्थानम् । युडन पूर्वेण सिद्धः। सविधिस्तु न भवति । यत्स्पर्शादिति किम् ? अग्निकुण्डस्योपासनं सुखम् । युट पूर्वेण । पाक्षिकः सविधिः । कर्तरीति किम् ? गुरोः स्नापनं सुखम् । नात्र स्नापयतेः कर्तुः शरीरसुखं किं तर्हि गुरोः कर्मणः । अङ्गग्रहणं किम् १ पुत्रस्य परिष्वञ्जनं सुखम् । मानसमिदम् । अन्यथा परपुत्रपरिष्वञ्चनेऽपि स्यात् । मुखमिति किम् ? कण्टकानां मर्दनम् ।
करणाधिकरणयोः ॥२॥३॥६॥ करणेऽधिकरणे च कारकेऽभिधेये युड् भवति । घनाद्यपवादः । करणे-इधमत्रश्चनः। पलाशशातनः । अविलवनः। कर्मणि ता। कृतीति तासः। अधिकरणे गोदोहनी। शक्कुधानी । तिलपीडनी । परत्वात् क्यादिकं स्त्रीत्वं बाधते ।
पुंखो घः प्रायेण ॥२३॥१००॥ करणाधिकरणयोरिति वर्तते । पुंलिङ्गसंज्ञायां गम्यमानायां धो? भवति प्रायेण । धकारः "छादेर्धे" [ ३०] इत्यत्र विशेषणार्थः। प्रच्छदः । उरच्छदः। प्लवः । श्राखनः । अधिकरणे-एत्य कुर्वन्त्यस्मिन्नाकरः । श्रालवः । श्रापवः । पुंग्रहणं किम् १ प्रधानम् । विचयनी ।
१. घटस्य अ०, ब०, स० ।
१७
For Private And Personal Use Only