SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ जैनेन्द्र-व्याकरणम् [अ० २ पा० ३ सू०७०-७१ डिवतः वित्रः ॥२॥३॥७०॥ डुशब्देतो धोः स्त्रियो भवति । भावे अकर्तरीति वर्तते । डुपचष्पवित्रमम् । "भावादिमः'' [३।३।१४३], ":" [३।३।१४४] इति इमः। व्यन्तस्य केवलस्य प्रयोगो नास्तीत्यस्वपदेनार्थकथनम् । पाकेन निवृत्तमिति । एवं डुवप् उत्रिमम् । टुयाच याचित्रिमम् । टिवतोऽथुः ॥२॥३७१॥ टुब्देतो धोरथुस्त्यो भवति । टुवेतृ-वेपथुः । टुअोश्वि-श्वयथुः । टुक्षुक्षवथुः । यजयाच यतविच्छप्रच्छरक्षस्वपो नङ ॥२॥३॥७२॥ यजादिभ्यो नङ् भवति । भावे अकर्तरीति वर्तते । यज्ञः । “स्तो श्चुना श्चुः" [५।४।१११] इति चुत्वम् । या लिङ्ग लोकवशात् । यत्नः । विश्नः । नडो ङित्करणमेपप्रतिषेधार्थं शापकं प्रागेव तुकः । “छोः शूड् (D) च'' [४।४।१७] इति शत्वम् । प्रश्नः । प्रश्ने चान्तयुगे" [२।२।३७] इति निर्देशाजिनं भवति । रदणः । “हुना टुः” [शा१२०] इति टुत्वम् । खप्नः। गौ भोः किः ॥२॥३॥७३॥ गौ वाचि भुसंज्ञकेभ्यो धुभ्यः फिर्भवति । भावे अकर्तरीति वर्तते । प्रादीयते । अस्मात् प्रादिः । निधीयतेऽसौ निधिः। संधानं संधिः। कर्मण्यधिकरणे ॥२॥३॥७४!! कर्मणि वाचि अधिकरणे कारके गुसंज्ञकेभ्यः किर्भवति । जलं धीयते अस्मिन् जलधिः । वालधिः। अधिकरणग्रहणं कारकान्तरनिवृत्यर्थम् । स्त्रियां क्लिः ॥२३।७५॥ भावे अकर्तरीति वर्तते । स्त्रीलिङ्गे धोः क्तिभवति । घाचोरपवादोऽयम् । कृतिः । सृष्टिः। संपत्तिः । “संपदादिभ्यः क्विबपि वक्तव्यः" [वा. ] संपत् । विपत् । "ग्लाज्याहाभ्यो निः स्त्रिया वक्तव्यः" वा०] ग्लानिः । ज्यानिः। हानिः । "ऋकारान्तस्वादिभ्यः किस्तवद्वतीति वक्तव्यम्" [वा०] कोर्णिः । गीणिः । लूनिः । पूनिः । इत उत्तरः स्त्रियामित्यधिकारः। कर्मव्यतिहारे बः ॥२॥३॥७॥ इह कर्मव्यतिहारः क्रियाव्यतिहारो गृह्यते धोरधिकारात् । कर्मव्यतिहारे गम्यमाने घोत्रं इत्ययं त्यो भवति स्त्रियाम् । परस्परस्य व्याक्रोशनं व्याक्रोशी "जात् स्त्रियाम्।' [१२।२२] इति स्वार्थिकोऽण् । “कृद्ग्रहणे तिकारकपूर्वस्यापि" [परि०] सतिकाद्भवति । एवं व्यावलेखी व्यावहारी वर्तते । स्त्रियामित्येव । व्यतिपाको वर्तते । “मध्येऽपवादा: पूर्वान् विधीन्याधन्ते नोत्तरान्" परि०] इति "स्त्रियां क्तिः" [२३७५] इत्यस्यैव बाधको न "सरोहलः" [२।३।८५] इति अत्यस्य । व्यतीक्षा व्यतीहा वर्तते । कथं व्यात्युक्षी । “युड् व्या बहुलम् [२।३।६४] हात बहुलवचनात् । व्याऋ ष्टिरित्येवमादिषु क्लिरपि । णेः ॥२।३।७७॥ एयन्ताच कर्मव्यतिहारे ओ भवति । अस्य बाधके युचि प्राप्तेऽयमारम्भः । व्यावं. चोरी व्यावंचर्ची वर्तते । यूतिजूतिसातिहेतिकीतयः ॥२।३।७८॥ यूत्यादयः शब्दा निपात्यन्ते । यौतिजवत्योर्दीत्वं निपात्यते । यतिः । जूतिः । स्यतेः सुनोतेर्वा सातिः। इत्वाभावः श्रात्वं च निपात्यते । हिनोतेर्हन्तेर्वा हेतः। कीर्तयतेः युचि प्राप्ते कीर्तिः। स्थागापापचो भावे ॥२॥३॥७९॥ स्था गा पा पच् इत्येतेभ्यः स्त्रीलिङ्गे भावे तिर्भवति । मावग्रहणमकर्तरीत्यस्य निरासार्थम् । प्रस्थितिः । संस्थितिः । गा इत्यविशेषेण ग्रहणम् । उपगीतिः । उद्गीतिः । पिवतेः आदीयतेऽस्मादादिः १०, स०। २.स्पृष्टिः श्र.। ३. व्यापलेखी अ०, ब०, स० । ४. व्यापहारी अ, ब, स०। ५. यापचोरो अ, ब, स०। ६. व्यापवर्ची अ०, ब०, स० । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy