SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११२ जैनेन्द्र-व्याकरणम् [अ० २ पा० २ सू० १२-१०० अनद्यतने लङ् । ||२२|९२ ॥ भूत इति वर्तते । श्रविद्यमानायतने भूतै घोर्लङ् भवति । श्रतीताया रात्रेः श्रा पश्चिमयामात् श्रागामिन्याश्च रात्रेराप्रथमयामात् अद्यतनकालः । तत्प्रतिषेधादनद्यतनः । अकरोत् । हरत् । अनद्यतनभूतविवक्षायाः समत्वाल्लुङो बाघको लङ् । अनद्यतन इति बसनिर्देशाद्यत्राद्यतनगन्धोऽप्यस्ति तत्र लङ् न भवति । श्रद्य चाभुमहि । यदि बसः अद्यतनेऽप्यद्यतनो नास्तीति लङ् प्राप्नोति । नायं दोषः । विशेषाद्यतने सामान्याद्यतनस्य विद्यमानत्वात् । इह भूतमात्रं विवक्षितम् । श्रागच्छाम घोषात् अपिबाम पय इति । 'परोक्षे लोकविज्ञाते प्रयोक्नुः शक्यदर्शनत्वेन दर्शनविषये लड् वक्तव्यः [वा०] [अरुणन्महेन्द्रो मथुराम् । अरुणद्यवनः साकेतम् । परोक्षे इति किम् ? उदगादादित्यः । लोकविज्ञात इति किम् ? जम्मम ग्रामं देवदत्तः । प्रयोक्कुः दर्शनविषय इति किम् ? जघान कंसं किल वासुदेवः । Acharya Shri Kailassagarsuri Gyanmandir अभिज्ञो लुट् ||२२|९३ ॥ अभिशोक्तिः स्मृतिवचनम् । श्रविद्यमाने यच्छदे अभिज्ञावचने वाचि अनद्यतने लृड् भवति । अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः । मद्रेषु वत्स्यामः । उक्तिग्रहणं पर्यायार्थम् । स्मरसि बुध्यसे चेतयसे वा कश्मीरेषु वत्स्यामः । लङोऽपवादोऽयम् । यदीति किम् ? अभिजानासि देवदत्त यत् कश्मीरेष्ववसामः । न वा साकाङ्क्षे ॥२/२६४ ॥ श्राकांक्षा सम्बन्धः । अनद्यतन इत्येव । साकाङ्क्ष अभिज्ञावचने वाचि धोर्न वा लृड् भवति । यद्यभिज्ञावचने पूर्वेण प्राप्तो लृट् नेति प्रतिषिध्यते । ततः केवले यच्छब्दसहिते चाभिज्ञावचने साकांक्षे वाचि । वेति सर्वत्र विभाषा । श्रभिजानासि देवदत्त कश्मीरेषु वत्स्यामः कश्मीरेष्वसाम तत्रदान भोक्ष्यामहे तत्रैौदनानभुञ्जमहि । यच्छन्दसहिते अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः यत्तत्रौदनान् भोदयामहे यत्तत्रौदनानभुमहि । परोक्षे लिट् ॥२२२२९५॥ भूते अनद्यतने इति च वर्तते । परावृत्तोऽक्षेभ्यः परोक्षः इन्द्रियागोचर इत्यर्थः । परोक्ष शब्दस्य चेदमेव निपातनम् । भूतानद्यतनपरोक्षे ध्वर्थे लिड भवति । यद्यपि सर्वो ध्वर्थः साध्यत्वेनानुमेयत्वेन वा परोक्षस्तथापि यत्राश्रयद्वारेण प्रत्यक्षाभिमानो नास्ति लोकस्य स परोक्ष उक्तः । पपाच । चकार । श्रात्मनानुष्ठिता हि क्रिया सर्वस्य प्रत्यात्मं प्रत्यक्षेति सुप्तमत्तयोरस्मदः प्रयोगः । सुप्तोऽहं किल विललाप । मत्तोऽहं किल जघान । “अत्यन्तापह्नवे लिड् वक्तव्य:" [ वा० ] नाहं कलिङ्गं जगाम । कलिङ्गगमनस्य प्रत्यक्षत्वाल्लिडप्राप्तः । हशश्वतोर्लङ च ॥२२२६६ ॥ ह शश्वदित्येतयोर्वाचोर्लङ् भवति लिट् च भूतानद्यतनपरोक्षे । इतिहाकरोत् । इति द्द चकार । शश्वदकरोत् । शश्वचकार । प्रश्ने चान्तर्युगे ||२२|६७ ॥ प्रष्टव्य इति प्रश्नः । पञ्चवर्षे युगम्। युगाभ्यन्तरे प्रश्ने भूतानद्यतने परोक्षे ललिौ भवतः । चकारः किमर्थः १ पूर्वसूत्रे चानुकृष्टस्य लिटोऽनुकर्षणार्थः । किमगच्छस्त्वं पाटलि पुत्रम् | श्रददादौ दानम् । ददावसो दानम् । प्रश्न इति किम् ? देवदत्तो जगाम । श्रन्तर्युग इति किम् १ श्रहं त्वां पृच्छामि । जघान कंसं किल वासुदेवः । पुरि लुङ वा ॥ २६८ ॥ पुराशब्दो भूतानद्यतने वर्त्तते न भूतमात्रे । पुराशब्दे वाचि भूतानद्यतने वा लुङ, भवति पक्षे यथाप्राप्तं च । वात्सुरिह पुरा छात्राः । अवसन्निह पुरा छात्राः । लट् ॥२\२६६॥ वेति निवृत्तम् । लङ् भवति पुराशब्दे वाचि भूतानद्यतने । वसन्तीह पुरा छात्राः । योगविभाग उत्तरत्र लट एवानुवर्तनार्थः । स्मे ||२|२|१००॥ स्मशब्दोऽप्यनद्यतने परोक्षे च वर्तते न भूतमात्रे | स्मशब्दे वाचि श्रनयतने ड् भवति । इति स्मोपाध्यायः कथयति स्वयंप्रभार्थं युध्यन्ते स्म विद्याधराः । ललिटोरपवादोऽयम् । स्मपुराशब्दयोर्युगपत्प्रयोगे परत्वात् स्मलक्षणो लट् । सुलोचनार्थं पुरा युध्यन्ते स्म पार्थिवाः । हशश्वलक्षणादपि विधिः For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy