SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-च्याकरणम् [अ० २ पा० १ सू० ६५-७४ अस्मद्यष्मत्सज्ञाऽभावाच्च अन्यसञ्ज्ञक एक एव च भवति । प्रास्यते भवता । सुप्यते भवता । कर्मणि-क्रियते कटः । भुज्यते श्रोदनः । ऋकारस्य दीत्वे प्रासे "रिड्यग्लिशे" [२।२।१३७] इति रिङ् । कर्मसामान्यात श्रात्मकर्मण्यपि यग् भवति । क्रियते कटः स्वयमेव । भिद्यते कुशलः स्वयमेव । कथं भिद्यते कुशूलेन स्वयमेवेत्यत्र कर्तरि भा। अत्राकर्मकत्वविवक्षा । तेन भावे लकारः । लान्तस्यो (तस्यो) भयविवक्षा । व्यक्तखार्थेष्वकर्मकविवव (क्ष्यैव) । भेत्तव्यं कुशूलेन स्वयमेव । भिन्नं कुशूलेन स्वयमेव । ईषद्भदं कुशूलेन स्वयमेव । कर्तरि शप् ॥२॥६४॥ कर्तृवाचिनि गे परतो धोः शब्भवति । जयति । भवति । तरति । शकारः "मिशिद्गः" [२१११३] इति विशेषणार्थः । पकारः "गोऽपित्" [११७८] इति विशेषणार्थः । दिवादेः श्यः ॥२॥१६॥ दिव इत्येवमादिभ्यः श्यो भवति गे परतः। दीव्यति । सीव्यति । श्रीव्यति । "हल्यभकुच्छुः " [५।३।८६] इति उङो दीलम् । इमे श्यादय शपोऽपवादाः । वा भ्राशभ्लाशभ्रमुकमुत्रसित्रुटिलषः ॥२॥१॥६६॥ भ्राश लाश भ्रम् क्रम् त्रसि त्रुटि लष इत्येतेभ्यो धुभ्यो वा श्यो भवति । उभयत्र विभाषेयम् । भ्राशते । भ्राश्यते । भ्लाशते । म्लाश्यते । भ्रमति । भ्रम्यति । श्ये (शिति) भौवादिकस्याशमादित्वाद्दीत्वं नास्ति । देवादिकस्य दीखम् । भ्रमति । भ्राम्यति । क्रमति । काम्यति । "क्रमो मे" [१२२७४] इति दीत्वम् । त्रसति । त्रस्यति । त्रुटति । त्रुट्यति । लषति । लष्यति । क्लमिग्रहणं न कर्तव्यम् । दिवादिपाठात् श्ये सति “शमित्यामदो दी: [श२।७२] इति दीत्वं सिद्धम् । "ष्टिषुक्लम्वाच. मां शिति" [२२।७३] पुनर्दीत्ववचन ज्ञापकं शवपि भवतीति । यसः ॥२।१।६७॥ यसु प्रयत्न इत्यस्माद्वा श्यो भवति । यसति । यस्यति । समः ॥२॥श६८॥ संपूर्वाच्च यसः वा श्यो भवति । संयस्यति । संयसति । नियमोऽयं सम एव च गर्विकल्पो नान्यस्मात् । प्रायस्यति । प्रयस्यति | दिवादिपाठान्नित्यः श्यः । स्वादेनुः ।।२।१॥६६॥ षुञ् इत्येवमादिभ्यो धुभ्यः श्नुरित्ययं त्यो भवति । सुनोति । सिनोति । __ श्रुवः शू ॥२॥१॥७०॥ शृ इत्येतस्मात् भुर्भवति श्रृ इत्ययं चादेशः । भु इति भुवादौ स्वादौ च पठ्यते । शृणुतः। शृण्वन्ति । थाऽक्षः ॥२।१७१॥ अक्ष इत्येतस्माद्धोः वा भुर्भवति । अक्ष्णोति । अक्षति । भौवादिकोऽयम् । ततः स्वार्थे ॥२।१।७२॥ स्वार्थतनूकरणम् । तक्षु इत्यस्मात् स्वार्थे वा शुर्भवति । तक्ष्णोति काष्ठम् । तक्षति काष्ठम् । स्वार्थे इति किम् ? सन्तति वाग्भिर्दुर्जनः। रुधितुदादिभ्यां श्नम्शो ॥२।१।७३।। रुधादिभ्यस्तुदादिभ्यः श्नम्शौ त्यौ भवतः । शफारः "इनानखम्" [ २२] इति विशेषणार्थः । मकारः "परोऽचो मित्" [१११।५५] इति विशेषणार्थः । रुणद्धि । भिनत्ति । तुदादिभ्यः शः। तुदति । क्षिपति । कृषतनादेरुः ॥ २२१७४ ॥ कृञ् इत्येतस्मात्तनादिभ्यश्च उरित्ययं त्यो भवति । करोति । कुरुतः। कुर्वन्ति । तनादिभ्यः-तनोति । सनोति । क्षणोति । तनादित्वादेव सिद्ध पृथक कृतो ग्रहणं किम् १ अन्यत्तनादिकार्य करोतेर्मा भूत् । "सनादिभ्यस्तथासो:" [ १८] इति विभाषया सेरुम्न भवति । अकृत । अकृथाः। न चानुप्पक्षे "प्राद् गोः' [२३४५] इति खं सम्भवति । तस्मिन् प्राप्ते उप आरम्भात्सेः भवणं असचेत। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy