SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० २ पा० १ सू० १६-२१ नमोवरिवश्चित्रङः क्यच ॥२॥१११६॥ कृतीति वर्तते । नमस् वरिवस् चित्रङ इत्येतेभ्यः क्यज भवति करोत्यर्थे । पूजापरिचर्याश्चर्यविशेषे । नमः करोति नमस्यति देवान् । अत्र नमःशब्दस्यानर्थकत्वात्तद्योगे नाब् भवति । वरिवः करोति वरिवस्यति गुरून् । चित्रङ् करोति चित्रीयते । ङित्वाद्दः । पूजादिभ्योऽन्यत्र नमः करोतीति भवति । पुच्छभाण्डचीवराणिङ ॥२।१।१७॥ पुच्छ भाण्ड चीवर इत्येतेभ्य इबन्तेभ्यो णिङ् भवति करोत्यर्थविशेषे। कोऽसौ विशेषः । "पुच्छादुदसने पयंसने वा" [वा०] उत्पुच्छयते । परिपुच्छयते । “भाण्डासञ्जयने परिचयने वा" [वा०] संभाण्डयते परिभाण्डयते । "चीवरावर्जने परिधाने वा" [वा.] संचीवरयते भिक्षुः । णकारः "णाविष्टवस्मृदः" [१४१४४] इत्यत्र सामान्यग्रहणाविघातार्थः । अर्थविशेषादन्यत्र शिजेव भवति । मुण्डमिश्रलक्षणलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ॥२॥१॥१८॥ मुण्ड इत्येवमादिभ्य इबन्तेभ्यो णिज् भवति करोत्यर्थे । चुरादिषु "मृदो ध्वर्थ" इति णिचि सिद्धे अर्थविशेषपरिग्रहार्थमिदम् । च्च्यर्थे वायमिति केचित् । अमुण्डं मुण्डं करोति मुण्डयति । मिश्रयति । श्लक्ष्णयति । लवणयति । "व्रताशोजने तन्निवृत्तौ च [वा०] पयो व्रतयति । पयो भुते इत्यर्थः । सावधं व्रतयति । सावधं न भुङ्क्ते इत्यर्थः। 'वस्त्रात् समाच्छादने" [वा०] वस्त्रेण संच्छादयति संवस्त्रयति । हलिं गृह्णाति हलयति । कलिं गृहाति कलयति । "हलिकल्योरकारान्तता णिचा योगे निपात्यते" [वा.1 "धौ कच्यनक्खे सन्वत्" [श२११८१] इति सन्वद्भावप्रतिषेधार्थम् । कलिं गृहीतवानचकलत्। अजहलत् । अन्यथा परत्वादैपि कृते टिखं स्यात ततः सन्वद्भावः प्रसज्येत । यथा अलीलघत् अपीपटत् इति । कृतं गृह्णाति कृतयति । तस्तानि केशजटाः विहन्ति वितूस्तयति । धोर्य क्रियासमभिहारे ॥२।१।१६॥ पौनःपुन्यं भृशार्थी वा क्रियासमभिहारः । धोर्यङ् भवति क्रियासमभिहारे । पुनः पुनः पचति भृशं वा पापच्यते। बोभुज्यते । क्रियान्तरैरव्यवहितायाः प्रधानभूतविक्लेदनक्रियायाः पुनः पुनरारम्भः पोनःपुन्यम् । गुणभूताधिश्रयणादिक्रियाणां क्रियान्तरैरव्यवहितानां साकल्येन करणं भृशार्थता। सूचिसूत्रिमून्यट्यर्त्यशोंतीनां ग्रहणं नियमार्थ कर्त्तव्यम् । सोसूच्यते । सोसूच्यते । मोमत्र्यते । अनेकाऽभ्य एव नान्यस्मात् । अत्यर्थं जागीति । अटाट्यते । अरार्यते । “यङि" [१२।१३६] इत्येप् । अत्यर्थमश्नुते अशाश्यते । प्रोन्यते । अट्यादिग्रहणं किमर्थम् १ अन्यस्मादजादेर्मा भूत् । भृशमीक्षते । पुनः पुनरीहते। क्रियासमभिहारे सर्वस्य द्वित्वे वेति विभाषानुवर्तते । तेन यङन्तस्य द्वित्वं न भवति । तत एव क्रियासमभिहारे यो लोट् तदन्तस्य भवति । लोलूयस्व लोलूयस्व इत्येवायं लोलूयते । धोरिति किम् १ सगेरुत्पत्तिर्मा भूत् । अगसंज्ञार्थं च धुग्रहणम्। पेपीयते । "शुभिरुचिभ्यां प्रतिषेधो वक्तव्यः" [वा०] । अत्यर्थं शोभते । अत्यर्थ रोचते । नित्यं गतिविशेषे ।।२।१॥२०॥ नित्यं यङः भवति गतिविशेषे गम्यमाने । चक्रम्यते । दन्द्रम्यते । श्रावनीवच्यते । गतिविशेषो हि यडन्तवाच्यः । तेनास्वपदेनार्थमात्रकथनमिदं कुटिलं क्रामतीति । नित्यग्रहणं तु विषयनियमार्थम् । एतयोर्योगयोर्गतिविशेष एवं गहें 'व यङ् यथा स्यात् क्रियासमभिहारे मा भूत् । भृशं कामति । भृशं लुम्पति । लुपसदचरजपजभदहगृदशो गहें ॥२॥१॥२१॥ लुपादिभ्यो गहें गम्यमाने नित्यं यङ् भवति । प्रत्यासत्तेव॑र्थस्य गर्हो गृह्यते न साधनस्य । अनर्थकं लुम्पति लोलुप्यते । सासद्यते । चञ्चूर्यते । जञ्जप्यते । जजभ्यते। दन्दह्यते । निजेगिल्यते । दन्दश्यते । दशेः कृतनखस्य निर्देशाद्ययपि खं भवतीति केचित् । दंदशीति । तदयुक्तं सोत्रत्वान्निर्देशस्य । गहँ इति किम् ? सुखं सीदति स्वगृहे। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy