SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० पा० ४ सू० ११२-११३ सुपो धुमृदोः ॥१।४।१४२॥ धुमृदोरन्तस्यावयवस्य सुप उन्भवति । पुत्रमिच्छत्यात्मनः पुत्रीयति । पटीयति । मृदः-राज्ञः पुरुषः राजपुरुषः। धर्म श्रितो धर्मश्रितः । तदन्ता धवः'' [२१११२६] इति धुसं. ज्ञायां "कृवृद्धसा" १:११६] मृत्संज्ञायां च सुप उम् । एवं तस्मात्ततः। तस्मिन् तत्र | धुमृदोरिति किम् ? वृक्षः । अत्र “कृद्धत्साः" इति नियमात् विभक्त्या मृत्सञ्ज्ञा नास्ति । शपोऽदादिभ्यः ॥१।४।१४३॥ अदादिभ्यो धुभ्यः परस्य शप उन्भवति । अत्ति । हन्ति । दोग्धि । यङोऽचि ॥१२४१४४॥ यङ उन्भवति अचि परतः । लोलूय पोपूय मरीमृज्य इत्येतेभ्यः पचाद्यचि लोलुवः पोपुवः मरीमृजः । “न धुखेजो" [११।१८] इति एचैपोः प्रतिषेधः । “यङो वा" [५/२।१२] इत्यत्र वक्ष्यत्यविशेषेण यङ उब् भवति । तेन वावदीति इत्येवमादि सिध्यति । उज्जुहोत्यादिभ्यः ॥१।४।१४५॥ शप इति वर्तते । जुहोत्यादिभ्यः परस्य शप उज्भवति । जुहोति । नेनेति । बिभर्ति । उबिति वर्तमाने उज्यहणं द्वित्वाद्यर्थम् ।। स्थेण्पिबभुभूभ्यः सेमें ॥१॥४॥१४६॥ स्था इण् पिब भुसंज्ञक भू इत्येवमादिभ्यः परस्य सेरुन्भवति मे परतः । अस्थात् । अस्थाताम् । अस्थुः । “आत:"[२।४।६०] इति झर्जुस् । अगात् । इ इणिति प्रश्लेषनिर्देशात् इकोऽपि ग्रहणम् । अध्यगात् । अपात् । पित्र इति विकृतनिर्देशात् शोषणार्थस्य निवृत्तिः । प्रतिपदोक्लपरिभाषा चानित्या । तेन "गामादाग्रहणेष्वविशेषः' [१०] इतीदं लब्धम् । भु इति संज्ञानिर्देशः “दाधा स्वपित्। [१२७] इति । अदात् । अदाताम् । अदुः । भु इति भवतेरस्त्यादेशस्य च ग्रहणम् । अभूत् । “सूभवत्योमिडि" [५।२६] इत्येप्रतिषेधः । म इति किम् ? उपास्थिषाताम् । उपास्थिषत | "उपान्मन्त्रकरणे" [१२।२०] "धेः' [१२।२१] इति दविधिः । "भुस्थोरिः" [११११११] इत्याकारस्येव सेः कित्वम् । वानाधेछाशासः ॥१।४।१४७॥ ध्रा धेट छा शा सा इत्येतेभ्यः परस्य सेर्वा उम्भवति मे परतः । अघ्रात् । अनुप् पक्षे “यमरमनमातः स च [५/१।१३२] इति सगिटौ भवतः । “हल्यस्सेः" [५।२।१३] इतीट् । "इटीटः" [ २०] इति से खम् । अघ्रात् । अघासीत् । अधात् । अधासीत् । अदधत् । अच्छात् । अच्छासीत् । न्यशात् । न्यशासीत् । असात । श्रसासीत् । धेटो भुसंज्ञालात् पूर्वण प्राप्त इतरेषामप्राप्ते विकल्पः । म इत्येव । अवासाताम् । अनासत । "स्तुसुधूजो मे" [२१११३१] इत्यधिकाराद्दे सगिटौ न भवतः। तनादिभ्यस्तथासोः॥१४१४८॥ तनादिभ्य उत्तरस्य सेर्वा उन्भवति तथासोः परतः। थासा सहचरितो दसंशस्तो गृह्यते । अतत । अतनिष्ट । उपपदे 'अनुदात्तोपदेश" [४॥३७] इत्यादिना ङखम् । अतथाः। अतनिष्ठाः । षण् । असात । असनिष्ट । उपपक्षे “जनसनखनाम्" [४/७३] इत्यात्वम् । असाथाः । असनिष्ठाः। आमः ॥१।४।१४६॥ श्राम उत्तरस्य संभवाल्लकारस्यो भवति । ईहांचक्रे । ईक्षाञ्चक्रे । लकारस्य कृत्वात् मृत्त्वे सति स्वाद्युत्पत्तिः । “सुपो झे;" [१४१५०] इति सुप उप् । आमन्तस्य पदसंज्ञा | "वा पदान्तस्य" [२११३३] इत्येतत् प्रयोजनम् । सुपो मे ॥१२॥१५०॥ झिसंज्ञादुत्तरस्य सुप उम्भवति । च वा श्रह कृत्वा कत्तुम् । इदमेव ज्ञापकम् । असंख्यादपि सुपो भवन्ति । यदि वा "कर्मणीप्" [१२] इत्येवमादिषु अर्थनियमपने विभक्तीनामनियतत्वात् झिसंज्ञभ्योऽप्युत्पत्तिः । हात् ॥१।४।१५१॥ हसादुत्तरस्त्र सुप उन्भवति । अधिस्त्रि । अधिकुमारि । हसस्य झिसंज्ञा नास्तीत्युक्त तेनायमारम्भः। नातोऽम् त्वकायाः ॥१।४।१५२॥ हसस्य संख्यायोगात् कर्मादियोगाच सर्वासां विभक्तीनां सम्भवः । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy