SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org R जैनेन्द्र-व्याकरणम् [ ० १ पा० ४ सू० १३१-१३५ कलम्भः पिता । क्षैरकलग्भिः पुत्रः । “यत्रिजो: " [ ३|१|१० ] इत्यस्य फण उप् । प्राचामिति किम् ? दाक्षिः पिता । दाक्षायणः पुत्रः । श्रतौल्वलिभ्य इति किम् । तौल्वलिः पिता । तौल्वलायनः पुत्रः । तौल्वलिः । धारणिः । स्वालिम्पिः । दैलीपिः । दैवतिः । दैवमित्रिः । दैवमतिः । दैवयज्ञिः । प्राडाइनिः । मांधातः । श्रानुराहतिः । बाह्रादिरयम् । श्रातुतिः । श्राहिसिः । श्रारिः । नैमषिः । श्रासिबन्धकिः । वैङ्कपौष्पिः । पौष्करसादिः । श्रयं बाह्रादौ वैरकिः । वैलकिः ( वैल्यकि: ) । वैहतिः । वैकर्णिः । कारेपालिः । Acharya Shri Kailassagarsuri Gyanmandir बहुषु तेनैवास्त्रियाम् || १ |४| १३३ ॥ द्रिसञ्ज्ञकस्य त्यस्य बह्वर्थेषु वर्तमानस्य उबू भवति नैव द्विसञ्ज्ञकेन कृतं बहुत्वं भवति अस्त्रियाम् । श्रङ्गः । आङ्गौः । श्रङ्गाः । ऐक्ष्वाकः । ऐक्ष्वाकौ । इक्ष्वाकवः । अणः अञश्च द्रिरित्यधिकारेण द्रिसञ्ज्ञा स्वार्थिकानामपि " ते द्वय:" [४ | २|१] इति द्रिसञ्ज्ञा । लौहध्वज्यः । लौहध्वज्यौ । लोहध्वजाः । ब्रमित्यः । वैमित्यौ । त्रीहिमताः । “पूगान्म्योऽग्रामणीपूर्वात् [ ४/२/१] इति यः । द्वन्द्वेऽपि सामान्येन द्रिसञ्ज्ञा कृते बहुत्वे भवति श्रङ्गवङ्गसुझाः । देरिति किम् ? श्रौपगवाः । बहुत कम ? श्राङ्गः । श्राङ्गौ । तेनैवेति किम् १ प्रियो वाङ्ग एषामिति प्रियवाङ्गाः । श्रत्र वृत्त्या बहुत्वं गम्यते । श्रतोऽनुवईत्यान्तानामन्येषां च द्वन्द्वे तेनैव कृतं न बहुत्वमित्युम्न भवति । गार्ग्यवात्स्यौपगवाः । ज्ञापका दुबप्यत्र भवतीति केचित् । गर्गवत्सोपगवाः । किं ज्ञापकमिति चेत् "शरद्वच्छुमकदर्भाद् भृगुवसाग्रायणेषु” [३|१|११] इति वचनम् । भार्गव वात्स्याग्रायणेष्विति निर्देशः स्यात् । उभयथाऽपि साधुः प्रयोगः । अस्त्रियामिति किम् । श्राङ्गयः वाङ्मयः स्त्रियः । स्कादिभ्यो वृद्धे ||१|४ | १३४ ॥ यस्क इत्येवमादिभ्यः परस्य वृद्धत्यस्य बहुषु वर्तमानस्यो भवति स्त्रियां तेनैव चेत् कृतं बहुत्वम् । उभयगतिरिह शास्त्रे लौकिकमपि वृद्धं गृह्यते तेनानन्तरापत्ये ऽप्युब् भवति । यास्कः । यास्कौ । यस्काः । “शिवादिभ्योऽय्' [३।१।१०१] इत्यागतस्याण उप् । यस्क लुध द्रुह्य श्रयस्थ तृणकर्ण भलन्दन एतेषां शिवादिषु पाठः । कम्बलहार बहिर्योग कर्णाटक पर्णाटक सदामत्त पिएडीजङ्घ बकसक्थ रक्षोमुख जङ्घारथ उत्कास कटुक मन्थक पुष्करसत् । अस्य "न गोपवनादेः " [१|४|३१८ ] इति प्रतिषेधः प्राप्तः । विषपुट उपरिमेखल पदक भटक भडिल भण्डिल एतेभ्यः "अश्वादेः फल” [३|१|१] इति फञ् । कुद्रि वस्ति विश्रि मित्रयु एतेभ्यः "गृष्ट्यादेः " [३।१।१२४] इति ढय् । वृद्ध इति किम् ? यस्को देवता एषां यास्काः । बहुध्वित्येव । यास्कौ । तेनैव चेत्येव । प्रिययास्काः । अस्त्रियामित्येव । यास्क्यः । I यञञोः ||१|४|१३५|| यश्च श्रञश्च वृद्धे बहुषु वर्त्तमानस्योच् भवति तेनैव चेदूबहुत्वमस्त्रियाम् । गर्गाः । वत्साः । श्रञः । विदाः । ऊर्वाः । "विदादिभ्योऽमृध्यानन्तर्येऽज " [ ३|१|१३] इति श्रञ । बहुवित्येव । गार्ग्यः । वैदः । तेनैवेत्येव । प्रियगार्ग्याः । वृत्याऽत्र बहुत्वं गम्यते । यत्र वृत्यैकत्वं गम्यते यत्रा बहुत्वं तत्रापि भवति । गर्गानतिक्रान्तः प्रतिगर्गः । श्रस्त्रियामित्येव । गार्ग्यः स्त्रियः । " यञः " [ ३।३।१६ ] इति ङोविधिः । “यस्य ङयाच" [ ४|४|१३६ ] इति खम् । "हलो हृतो स्याम्" [ ४|४|१४० ] इति यकारस्य खम् । “यजादीनामेकत्व द्वित्वयोर्वा तासे इति वक्तव्यम्” [ वा० ] गार्ग्यस्य कुलं गार्ग्यकुलम् । गर्गकुलम् | गार्ग्ययोः कुलं गार्ग्यकुलम् । गर्गकुलम् । वैदस्य कुलं वैदकुलम् । विदकुलम् । वैदयोः कुलं वैदकुलम् । विदकुलम् । न वक्तव्यं यदा यञादयो न श्रूयन्ते तदा मूलप्रकृतेस्तासः नियतविषयत्वात् शब्दानां तत उभयं सिध्यति । भृग्वत्रिकुत्स वशिष्ठगोत्तमाङ्गिरोभ्यः ||१|४|१३६ ॥ वृद्ध इति वर्तते । भृग्वादिभ्यः परस्य वृद्धत्यस्य बहुषूभवति । भार्गवः । भार्गवौ । भृगवः । श्रात्रेयः । आत्रेयौ । श्रत्रयः । एवं कुत्साः वशिष्ठाः गौतमाः १. - हिः । तैरूवलिः । धार - ब०, स० । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy