SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० १ पा० ४ सू० ४७-५३ स्वामोश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ॥१॥४॥४७॥ खामिन् ईश्वर अधिपति दायाद साक्षिन् प्रतिभू प्रसूत इत्येतैर्युक्ते तेपौ विभक्त्यौ भवतः । गवां स्वामी । गोषु स्वामी। गवामीश्वरः । गोष्वीश्वरः । गवामधिपतिः । गोष्वधिपतिः । दायमादत्ते दायादः । “प्रे" [२।२।४] इति नियमादन्यस्मिन् गावप्राप्ते के अत एव निपातनात् कः । गवां दायादः । गोषु दायादः । गवां सादी। गोषु साक्षी। गवां प्रतिभूः । प्रतिभूः । गवां प्रसूतः । गोबु प्रसूतः। चकारः किमर्थः ? तेपोरनु वर्तनाथः। अन्यथा पूर्वत्र चानुकृष्टाया ईपोऽनुवृत्तिर्न स्यात् । उत्तरसूत्रयोरपि चकारस्येदमेव फलम् । प्रसूतयोगे ईवेव प्राप्ता इतरोगे ता प्राप्ता । कुशलायुक्त न चासेवायाम् ॥२४॥४८॥ श्रासेवा मुहुर्मुहुः सेवा तात्पर्य च' । कुशल श्रायुक्त इत्येताभ्यां युक्त श्रासेवायां गम्यमानायां तेपो विभत्त्यौ भवतः । कुशलो विद्याग्रहणस्य । कुशलो विद्याग्रहणे । अायुक्तस्तपश्चरणस्य श्रायुक्तस्तपश्चरणे। अासेवायामिति किम् ? अायुक्तो गौः शकटे। अाकृष्य यु इत्यर्थः। अधिकरणलक्षणेयमीप् । यतश्च निर्धारणम् ॥११॥४६॥ जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । यतश्च निर्धारणं ततस्तेपी विभक्त यो भवतः । मनुष्याणां क्षत्रियः शूरतमः । मनुष्येषु क्षत्रियः शूरतमः । नारीणां श्यामा दर्शनीयतमा । नारीषु श्यामा दर्शनीयतमा । अध्वगानां धावन्तः शीघ्रतमाः । अध्वगेषु धावन्तः शीघ्रतमाः। प्रपञ्चार्थमिदं समुदाये अवयवोऽन्तर्भूतः । अधिकरणविवक्षायामीप सिद्धा अवयवसम्बन्धविवक्षायां तापि सिद्धा अत एवापादाने कापि भवति । गोभ्यः कृष्णा निर्धार्यते इति । विभक्त का ॥१४॥५०॥ यतश्च निर्धारणमिति वर्तते । भिन्नजातीयात् समुदायाद्गणादिना पृथक्करणं विभक्रनिर्धारणं तत्र का विभक्ती भवति । पूर्वेण तेपोः प्राप्तयोरयमपवादः। माथराः पाटलिपत्रकेभ्य शाट्यतराः । दर्शनीयतराः। अयमस्मादधिकः । अयममाद्विलक्षणः । इदमपि प्रपञ्चार्थम् | पाटलिपुत्रकाणामवधिभावेन बुद्धि प्राप्तानामपादानत्वमस्ति । साधुनिपुणेनाचार्यामीवप्रतेः ॥१४॥५१॥ साधु निपुण इत्येताभ्यां युक्त अर्चायां गम्यमानायामीविभक्री भवति प्रतिशब्दस्याप्रयोगे । मातरि साधुः । पितरि साधुः । भ्रातरि निपुणः । पितरि निपुणः । तापवादोऽयम । अचीयामिति किम् ? साधुनिपुणो वाऽमात्यो राज्ञः। अप्रतेरिति किम् ? साधुर्देवदत्तो मातरं प्रति । प्रतिग्रहणमगितिसंज्ञानामभिपयन्तानामुपलक्षणम्। मातरमभि। मातरं परि। मातरमनु । कथमसाधुः पितरि । अनिपुणो मातरि । पूजापयुक्तसाधुनिपुणप्रतिषेधोऽयम् । असमर्थस्यापि नत्रः सविधिरस्ति । प्रसितोत्सुकाभ्यां भा च ॥१४॥५२॥ प्रसित उत्सुक इत्येताभ्यां युक्त भाविभक्ती भवति । ईप च । केशैः प्रसितः । केशेषु प्रसितः। प्रसक्त इत्यर्थः । केशैरुत्सुकः । केशेषूत्सुकः । पक्षे भार्थमिदम् । ईबधि त्वादेव सिद्धा। उसि भे ।।१।४।५३॥ ईबनुवर्तते भा च । उस्विषये भवाचिनि भेपो विभक्त्यौ भवतः। "भायु क्तः कालः', [३।२।४] इत्यागतस्याणः “उसभेदे" [ ३।२।५ ] इत्युसि कृते यदा भवाची शब्दः काले वर्तते तदा तस्माद्भा च ईप् च भवत इत्यर्थः । पुष्येण पायसमश्नीयात् । पुष्ये पायसमश्नीयात् । मघाभिः पललौदनम् । मघासु पललौदनम् । इसीति किम् ? मघासु ग्रहः । नात्र मघाशब्दः काले वर्तते । भ इति किम्? पञ्चालेषु वसति । पञ्चालस्यापत्यानि पञ्चालाः तेषां निवासः पञ्चालः। निवासार्थे आगतस्याणः "जनपद उस्" [शश६१ ] इत्युस् । इह कस्मान भवति १ अद्य पुष्यः । मिडेकार्थत्वात् । चानुकृष्टाया ईपः कथमनुवृत्तिः । अत्राधिकरणत्वादीप सिद्धा पक्षे भार्थं वचनम् । यद्यधिकरणस्यापि करणविवक्षा यथा स्थाल्या पचति तदेदं प्रपञ्चार्थम् । .. वा अ०, ब०, स०।२, निर्धायन्ते म०, ब०, स.। बधिकारे सूत्रारम्भसाम For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy