SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ - - mon महावृत्तिसहितम् । किम् । मनसा पाटलिपुत्त्रं गच्छति । सम्प्रासाविति किम् । पन्थानं गच्छति । भार्या गच्छति। अन्यत्राभेदविवव । कटं करोति । ओदनं पचति शास्त्रं पठति । सग्योश्च क्रुधिद्रयोः। मित्रमभिक्रुध्यति । मित्रमभिद्रुह्यति । सिद्धिरनेकान्तादित्यतो भेदाभेदोभयधि वक्षा प्रत्येतव्या। परेषामपि प्रतिपत्तिगौरवं तुल्यम् । क क्रियाया व्याप्यत्वमिष्टं क च नेति दुर्बोधम् ॥ धारेत्तमर्णः ॥ १११ ॥ ऋणे उत्तम उत्तमम् । निपातनात् सविधिः।धारय तेरुत्तमो योऽर्थस्तत्कारकं सम्प्रदानसंज्ञं भवति । देवदत्ताय गां धारयति । उत्तमर्ण इति किम् । देवदत्ताय शतं धारयति दरिद्रः॥ परिक्रयणम् ॥ ११२ ॥ परिक्रीयते ऽनेनेति परिक्रयणं तत्कारक सम्प्रदानसंज्ञं भवति । शताय परिक्रीतः। सहस्राय परिक्रीतः। साधकतमत्वात् करणसंज्ञा प्राप्ता ॥ साधकतमं करणम् ॥ ११३ ॥ क्रियायामतिशयेन साधकं साधकतमं तत्कारक करणसगं भवति । दानेन भागं दयया सुरूपं ध्यानेन मोक्षं तपसेसिद्धिम् । सत्येन वाक्यं प्रशमेन पूजां वृत्तेन जन्मानमुपैतिमयः॥ तमग्रहणं किमर्थम् । यथा रूपप्रस्तावे अभिरूपाय कन्या देयेत्युक्ते ऽभिरूपतमायेति गम्यते। एवमिहापि कारकाधिकारादकारके संज्ञावृत्तिर्नास्तीति साधकं कर
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy