________________
anim
o omsometimetaboliunliminine
antanatanAmAnastasiestae
n
akaman
amamaan
महात्तिसहितम् । स्त्वपाये ग्रामग्रहणेन न गृह्यत इति ग्रामो ध्रुवः । एवमश्वाडावतः पतितः । गच्छतः सार्थादवहीनः । देवदत्तो जिनदत्तादागतः । मेरा परस्परतोऽपसर्पतः। शृङ्गाच्छरो जायने । गङ्गा हिमवतः प्रभवति । इह ग्रामानागच्छतीति पूर्वमपादानसंज्ञा पश्चात्प्रतिषेधः। धियाऽपायस्य विशेषणं किम् । अधर्माजुगुप्सते । प्रेक्षापूर्वकारी दुःखहेतुरधर्म इति बुध्या संप्राप्य ततो निवर्तत इति अपादनत्वम् । एवमधर्माबिरमति प्रमाद्यति । व्याघ्राद्विभेति । चौरेभ्यस्त्रायते । अध्ययनात् पराजयते । न शक्नोतीत्यर्थः । यवेभ्यो गां वारयति । अकार्यात्सुतं वारयति । कूपादन्धं वारयति।उपाध्यायादन्तई।भयं सम्चिन्त्य निवर्तत इत्यर्थः। विवक्षातः कारकाणि भवन्ति । उपाध्यायादधीते । उपाध्यायाच्छणाति । अधिवक्षायां नटस्यं शृणाति । ग्रन्थिकस्य शृणाति । ध्रुवमिति किम् । अरण्ये बिभेति । नात्र भयावधिभूतमरण्यं किं तर्हि चौराः । नपा निर्देशः किमर्थः । वक्ष्यमाणाभिः संज्ञाभिर्वाधा यथा स्यात् । धनुषा विध्यति । पुलिङ्गया करणसंज्ञया वाधात् । कांस्यपात्र्यां भुङ्क्त । पुलिङ्गाधिकरणसंज्ञैव । धनुविध्यतीति कर्तृसंज्ञा । इह गां दोग्धि पय इति परत्वा. कर्मसंज्ञा । अपादानप्रदेशाः कापादाने इत्येवमादयः ।।
कर्मणोपेयः सम्प्रदानम् ॥ ११० ॥ उपपूर्वादिओ घे कृते उपेय इति भवति । कर्मणा य उपेयोऽर्थस्तत्कारकं सम्प्रदानसंज्ञं भवति । उपाध्यायाय गा ददाति । देवाय बलिं प्रयच्छति । कर्मणेति किम । गवा उपाध्यायमुपैति । सम्प्रदानमित्यन्वर्थसंज्ञाकरणात् ददा
-
memama