SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ - जैनेन्द्रव्याकरणम् । प्रामाति । देवेभ्य इति सूत्रविन्यासे परमेत्वं भवति । अप्रवृत्ती पर्याये वा प्राप्ते वचनम् । कार्यकालं सज्ञापरिभाषमिति । यावन्ति कार्याणि तावछा सूत्रस्य भेद' इति विधिनियमश्चेदं सूत्रम् । यत्र परस्मिन्कार्यं कृते पुनः प्रसङ्गविज्ञानात्पूर्व तत्र विधिः। यत्र परमेव कार्य दृश्यते सकृद्गते परनिर्णये बाधितो बाधित एवेति । तत्र नियमः। तद्यथा द्वित्वस्यावकाशः । बेभिद्यते । जेरवकाशः । विचति । वेविच्यते इति परत्वाजौ कृते पुनः प्रसङ्गाद् द्वित्वम् । जसिशसः शिरित्यस्यावकाशः । कुण्डानि । डेसुटोरमित्यस्यावकाशः । यूयं राजानः । इह यूयं गुरु कुलानि इति पर एवाम्भावः । अतुल्यबलयोः स्पों न भवति । उत्सर्गादपवादः । परनित्यविचारणे भवेन्नित्यम् । नित्यात्तथान्तरङ्गम् । तस्मादप्यनवकाशं यत् । एकार्थयोरपि नास्ति विरोधः। धोर्विहितास्तव्यादयः पर्यायेण भवन्ति ॥ नब्बाध्य भासम् ॥ १० ॥ नपा निर्दिष्टो बाध्यो भवति आ साधिकारपरिसमारित्येषोऽधिकारो वेदितव्यः । लोके संज्ञासमावेश दृष्ट इन्द्रः शक्रः पुरन्दर इति । शास्त्रेऽपि त्यः कृड्य इति शेषोऽगएवेत्यवधारणाज्ज्ञापयति इहापि संज्ञासमावेशः स्यादिति यत्नः क्रियते । यत्र नपः समावेश इष्यते तत्र चशब्दापादानमस्ति । यथा यश्चैकाश्रय इति । वक्ष्यति प्रोधि च । विदि।भिदि । स्फे रुः । शिक्षिाभिक्षिानपा निर्दिष्टा घिसंज्ञा रुसंज्ञया बाध्यते । समावेशे हि अततक्षदित्यत्र धौ कच्यनके सन्वदिति कच्परे धौ परतः
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy