SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । अस्वरितेतः काप्ये फले ॥६॥ णेरिति निवृत्तम् । उत्तरत्र णिच इति निदेशात्। जितः स्वरितेतश्च ये धवस्तेभ्यो दो भवति कर्तारमामोति चेत् क्रियाया फलम् । फलं सर्व क्रियातो भवतीति सामर्थ्यात् क्रिया लभ्यते । फलग्रहणं मुख्यफलपरिग्रहार्थम् । जितः । पुनीते। लुनीते । कुरुते। स्व रितेतः । यजते। वयते । मुख्य क्रियाफलमत्र कतारमाप्नोति । कर्मप्ये फल इति किम् । पचन्ति भक्तकराः । वयन्ति भृतकाः । नात्र मुख्यं फलं किन्तु भृतिरानुषङ्गिक वा फलम् । अस्वरितेत इति किम् । याति । वाति ॥ वदेो ऽपात् ॥ ६८ ॥ अपपूर्वाददतेयॊ भवति काप्ये फले । एकान्तवादमपवदते। कत्राप्ये फले इत्येव । अपवदति । इतः प्रभृति काप्ये फले दो वेदितव्यः ॥ समुदायमो ऽग्रन्ये ॥६६॥ सम उत् आङ इत्येवम्पूर्वाद्यमेरग्रन्थविषये दो भवति । व्र.होन संयच्छने आत्मनश्चेद् व्रीहयो भवन्ति । भारमुद्यच्छते । पापमायच्छते । अग्रन्थ इति किम् । उद्यच्छति चिकित्सा वैद्यः । चिकित्सेति वैद्यकग्रन्थः । कत्राप्ये इत्येव । संयच्छति आयच्छति परस्य वस्त्रम् । आडो यमहन इत्यनेन धेर्दविधानमुक्तम् ॥ ज्ञोऽगेः ॥ ७० ॥ जानातेरगिपूर्वाद्दो भवति काप्ये फले । गां जानीते । अगेरिति किम् । स्वर्गलोकं प्रजानाति । काप्ये फले इत्येव । परस्य गां जानाति ॥
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy