SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् | ७५ कफलार्थेऽयमारम्भः । युजेर्गिपूर्वीद्दो भवत्ययज्ञपात्रविषये । प्रयुङ्क्तं । वियुङ्क्ते । नियुङ्क्ते । यज्ञपात्र इति किम् । द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । गेरिति किम् । युनक्ति । युज समाधावित्यस्यानुदात्ते त्वाद्ग्रहणम् ॥ उदः ॥ ६० ॥ उत्पूर्वाद्यजेरयज्ञपात्रे देो भवति । उद्युङ्क्ते । नियमोऽयं हलन्तेषु उद् एव नान्यस्मात् । निर्युनक्ति । दुर्यु - नक्ति | संयुनक्ति ॥ मं क्ष्णोः ॥ ६१ ॥ सम्पूर्वीत् च्णुवो दो भवति । संदणुते। संदणुवाता संदणुवते शस्त्रम् ॥ भुजा ऽदा ॥ ६२ ॥ शब्दे कार्यस्यासम्भवाददावित्यर्थग्रहणम् । भुजेरद्यर्थवर्तमानाद्दो भवति । भुङ्क्ते । भुञ्जते । भुञ्जते । अद्यथासम्भवात्तौदादिकस्य भुजेरग्रहणम् । निभुजति पाणिम् । अदाविति किम् । भुनक्ति वसुधां भरतः । पालयतीत्यर्थः ॥ गेर्भीस्मेर्हेतुभये ॥ ६३ ॥ एयन्ताभ्यां भी स्मि इत्येताभ्यां हेतुभयेऽर्थे दो भवति । तद्योजक हेतुरिति हेतुः । तस्य भयशब्देन भावसाधनेन काभीभिरिति षसः । भयग्रहणेन विस्मयोपीह लक्ष्यते । मुण्डो भीषयते । इतः बुङिनत्यमिति षुक् । मुण्डो विस्मापयते । जटिला विस्मापयते । स्मिङ इत्यात्वम् । 1
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy