SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । ६७ बुद्धिस्तद्योगादाचार्योऽपि तथेोक्तः । विनेयेषु प्रतिपादन सम्मानं करोतीत्यर्थः । उत्सञ्जने । बालमुदानयते । उत्क्षिपतीत्यर्थः । उपनयने । माणवकमुपनयते । आत्मनः शिष्यभावेन माणवकं प्रापयतीत्यर्थः । ज्ञाने । नयते चार्वी तत्त्वार्थे | तत्त्वपदार्थान निश्चिनोतीत्यर्थः । भृतैौ । कर्मकरानुपनयते । वेतनादानेन पुष्णातीत्यर्थः । गणने । मद्रकाः कारं विनयन्ते । निर्यातयन्तीत्यर्थः । व्यये । शतं विनयते । सहस्रं विनयते । एतेष्विति किम् । अजां नयति ग्रामम् ॥ कर्तस्थे कर्मण्यमूर्ती ॥ ३२ ॥ नयतेः कती लकारवाच्यः । रूपाद्यात्मिका मूर्तिः । कफलता कर्मता । तेन कर्त्राप्ये क्रियाफले सिडे - sपि दे नियमार्थमेतत् । कर्तृस्य इति किम । देवदत्तो जिनदत्तस्य क्रोधं विनयति । कर्मणीति किम् | बुड्या विनयति । अमूर्तविति किम् । गड्डम् विनयति ॥ किरते हर्षजीविकाकुलायकरणे ॥ ३३ ॥ किरतेर्दो भवति हर्षजीविकाकुलायकरण इत्येतेषु गम्यमानेषु । हर्षे । अपस्किरते वृषभो हृटः । जीविकायाम् । अपस्किरते कुक्कुटो भक्षार्थी । कुलायो निवासः । कुलायकरणे । अपस्किरते श्वा आश्रयार्थी । चतुष्पाच्छकुनिष्वपाडर्षादाविति सुट् ॥ वृत्तिसर्गतायने क्रमः ॥ ३४ ॥ वृत्तिरविघातः । सर्ग उत्साहः । तायंनं पृधुभावः । वृत्त्यादिष्वर्थेषु वर्तमानात् क्रमेद भवति । वृत्तौ । नये
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy